सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०२/यामं(इदंत)

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
यामम्

(६५।१)
॥ यामं कौत्सं वा। यमस्त्रिष्टुबग्निः (विश्वेदेवा वा) ॥
ओ꣣ऽ४हा꣥ । ह꣣हा꣢इ । इदं꣡तए । का꣢᳐ऽ३०प꣡रः । ऊ꣢᳐त꣣ए꣤का꣥म् ॥ तृ꣢ती꣡꣯ये꣯ना । ज्यो꣡꣯तिषा꣢ऽ३ । सं꣢वि꣣श꣤स्वा꣥ ॥ सं꣢वे꣡꣯शनाः । त꣢नु꣡वे꣯ । चा꣢᳐रु꣣रे꣤धी꣥ ॥ ओ꣣ऽ४हा꣥ । ह꣣हा꣢इ । प्रियो꣡꣯दे꣯वा । ना꣢ऽ᳐३०प꣡र । मा꣢ऽ३४३इ । जा꣢ऽ᳐३᳐ना꣤ऽ५इत्राऽ६५६ ॥ (छौ । १०७)
(दी० ७ । प०१७ मा० १०)३७

इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।

संवेशनस्तन्वे३ चारुरेधि प्रियो देवानां परमे जनित्रे ॥ ६५ ॥ ऋ. १०.५६.१

(६५।१) ॥ यामं कौत्सं वा। यमस्त्रिष्टुबग्निः (विश्वेदेवा वा) ॥

ओऽ४हा । हहाइ । इदंतए । काऽ३०परः । ऊतएकाम् ॥ तृतीयेना । ज्योतिषाऽ३ । संविशस्वा ॥ संवेशनाः । तनुवे । चारुरेधी ॥ औऽ४हा । हहाइ । प्रियोदेवा । नाऽ३०पर । माऽ३४३इ । जाऽ३नाऽ५इत्राऽ६५६ ॥ (छौ । १०७)

(दी० ७ । प०१७ मा० १०)३७

[सम्पाद्यताम्]

टिप्पणी

अथैकमनुष्याणामावर्त्तनँ स्त्रिया वा पुँसो वा ॥१॥ श्रवणेन व्रतमुपेत्य पूर्वैः प्रोष्ठपदैः ॥२॥ पाꣳसुभिः प्रतिकृतिं कृत्वा प्राक्शिरसं पूर्वाह्णे दक्षिणशिरसं मध्याह्ने प्रत्यक्शिरसमपराह्णेऽर्धरात्र उदक्शिरसं तस्या हृदयदेशमधिष्ठाया यन्त इन्द्र सोम इति ब्राह्मणस्येदन्त एकमिति क्षत्रियस्यैष प्रकोश इति वैश्यस्य विभोष्ट इन्द्र राधस इति शूद्रस्योद्वयन्तमसस्परीति वा सर्वेषाꣳ सौवर्णी प्रतिकृतिं कुर्य्याद् ब्राह्मणस्य राजतीं क्षत्रियस्यौदुम्बरीं वैश्यस्यायसीꣳ शूद्रस्यौदुम्बरीं वा सर्वेषामयमसाविति प्राक्शिरसमग्ग्नौ प्रतिष्ठाप्यौदुम्बरेण स्रुवेणाज्येनाभिजुहुयाच्छाव इतीनिधनेन गुणी हास्य भवति ॥ - सामविधानब्रा. २.५.४

सायणभा. - पांꣲसुभिरिति । पांसुभिः साध्यस्य पुरुषस्य स्त्रिया वा प्रतिकृतिं कृत्वा अयमसाविति पुरुषस्य इयमसाविति स्त्रियाः, नाम उच्चार्य, तत्प्रतिकृतौ मनसा साध्यरूपं भावयित्वा प्राण प्रतिष्ठाप्य तां पूर्वाह्णे प्राक्शिरसं मध्याह्ने दक्षिणशिरसम् , अपराह्णे प्रत्यक्शिरसम् , अर्द्धरात्रे उदक्शिरसं विविक्ते देशे संस्थाप्य तस्याः प्रतिकृतेः हृदयदेशमधिष्ठाय पदेनाक्रम्य, ब्राह्मणस्य ब्राह्मण्या वा प्रतिकृतिश्चेत् तां स्पृष्ट्वा अयं त इन्द्र सोम (ग्राम, 4. 5. 159. 1-3) इति साम जपेत् । एवमुत्तरत्रापि योज्यम् । क्षत्रियस्य क्षत्रियजातीयस्य चेत् इदं त एकम् (ग्राम 2. 7. 65. 1) इति जपेत् । वैश्यस्य वैश्यजातीयस्य चेत् प्रतिकृतिः एष प्रकोश (ग्राम. 16. 9. 556. 1) इति जपेत् । शूद्रस्य चेत् विभोष्ट इन्द्र राधस (ग्राम. 9. 2. 366. 1) इति । वा अथवा सर्वेषां प्रतिकृतौ उद्वयम् (आ. गा. परिशिष्टम् . 5-6) इति जपेत् । अथवा जातिभेदेन ब्राह्मणस्य अन्यां सौवर्णीं प्रतिकृतिं कुर्यात् । क्षत्रियस्य राजतीं, वैश्यस्यौदुम्बरीं ताम्रमयीं, शूद्रस्यायसीं कृष्णायसनिर्मिताम् । वा अथवा सर्वेषाम् औदुम्बरीं ताम्रमयीम् । स्त्रियाः पुरुषस्य वा साध्यस्यान्यां प्रतिकृतिं कृत्वा, अयमसाविति पुरुषस्य, इयमसाविति स्त्रियाः, प्राणप्रतिष्ठां मनसा कृत्वा, तां प्रतिकृतिम् अग्नौ प्राक्शिरसं प्रतिष्ठाप्य औदुम्बरेण ताम्रमयेण स्रुवेण अच्छा व (ग्राम. 10.3.375.1) इति मन्त्रेण ई-निधनयुक्तेन, आज्येन अभिजुहुयात् । एवं कृते अस्य साधकस्यासाध्यः पूर्वमगुणोऽपि गुणीभवति । गुणशब्दादभूततद्भावे च्विः (पा, 5.4.50 वा.), तस्य सर्वापहारी लोपः, तस्य गतिसंज्ञायां “ते प्राग्धातोः” (पा. 1.4.80) इति प्राक्प्रयोगः प्राप्तोऽपि व्यवहिताश्च (पा. 1. 4. 82) इति हास्येति पदद्वयेन व्यवहितः प्रयोगः ॥

भरतस्वामीविवृति - अथ पांसुभिः प्रतिकृतिं कृत्वा इत्यारभ्य गुणी हास्य भवतीत्यन्तेन एकः प्रयोग उच्यते । स्पष्ट एवास्य समन्वयः । प्रयोगास्तु--पांसुमिः प्रतिकृतिं साध्यस्य कृत्वा अयमसाविति पुरुषस्येयमसाविति स्त्रिया नामोच्चार्य साध्यं पुरुषं स्त्रियं वा प्रतिकृतौ मनसा प्रतिष्ठाप्य तां प्रतिष्ठीकृतां पूर्वाह्णे प्राक्शिरसं मध्याह्ने दक्षिणशिरसमपराह्णे प्रत्यक्शिरसमर्द्धरात्र उदक्शिरसं विविक्ते देशे निधाय तस्याः प्रतिकृतेः हृदयदेशे पदेनाधिष्ठाय ब्राह्मणस्य वा अयं त इन्द्र सोम (ग्राम. 4.5.159.1) इति जपेत् । क्षत्रियस्य क्षत्रियाया वा इदं त एकम् (ग्राम. 2.7.65.1) इति; वैश्यस्य वैश्याया वा एष प्रकोश (ग्राम. 16.9.556.1) इति; शूद्रस्य तत्स्त्रिया वा विभोष्ट रुद्र राधस (ग्राम. 9. 2. 3. 66. 1) इति जपेत् । उद्वयं तमसस्परी(आ. गा. परिशिष्टम् 5-6)ति वा सर्वेषाम् । समाना अन्याश्च प्रतिकृतीः पूर्ववत् । अयमसाविति जीवं प्रतिकृतौ प्रतिष्ठाप्य तां प्रतिकृतिमग्नौ प्राक्शिरसं प्रतिष्ठाप्य तस्या उपरि अच्छा व इति ई-निधनेन (आ. गा. परिशिष्टम् , 5-6) औदुम्बरेण ताम्रमयेन स्रुवेण जुहुयात् सा प्रतिकृतिर्ब्राह्मणजातीयानां सौवर्णी कार्या । राजती क्षत्रियाणाम् ; औदुम्बरी ताम्रमयी वैश्यानाम् ; आयसी कृष्णायसनिर्मिता शूद्राणाम् ; सर्वेषामौदुम्बरी [वा] । एवं कृते साध्योऽस्य गुणी वश्यो भवतीति ॥