सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०२/द्रविणम् (देवो)

विकिस्रोतः तः
द्रविणम्

देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचं ।
उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥ ५५ ॥ ऋ. ७.१६.११

(५५।१) ॥ द्रविणम् । अग्निर्बृहत्यग्निः ॥
देवोऽ३वोऽ३द्रविणोदाः ॥ पूर्णांविवष्ट्वासिचम् । उद्वाऽ१सिञ्चाऽ२ । ध्वमुपवापृणध्वम् ॥ आदिद्वोदेऽ२ ॥ वओहते । इडाऽ२३भाऽ३४३ । ओऽ२३४५इ ॥ डा ॥
( ढु । ९४ )
( दी० ८ । प०९ । मा० ५) २४


[सम्पाद्यताम्]

टिप्पणी