सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०२/कौमुदः(प्रातर)

विकिस्रोतः तः

प्रातरग्निः पुरुप्रियो विष स्तवेतातिथिः ।
विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते ।। ८५ ।। ऋ. ५.१८.१

 
(८५।१) बृहतश्च कौमुदस्य साम । कुमुद्बृहदनुष्टुबग्निः ।।
प्रातरग्नाइःपूऽ६रुप्रियाः ।। विशास्तवे । ताऽ२३ । अतिथाइः । वाइश्वेयास्मीऽ३न् । अमाऽ२र्त्ताऽ२४याइ ।। हव्याऽ२३ꣳहोइ। । मर्त्ताऽ३हो।।। सइंधाऽ२३ताऽ३४३इ। ओऽ२३४५इ।।डा।।
( दी० ।३ प० ११ ) मा० ११)२४ ( ट । १३४)


[सम्पाद्यताम्]

टिप्पणी

बृहतश्च कौमुदस्य साम ॥ आर्षेयब्राह्मणम् १.१०.५

द्र. कौमुदस्य बृहतः सामनी (कस्तमिन्द्र)

कुमुदशब्दोपरि टिप्पणी