सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/रथन्तरे वसिष्ठः

विकिस्रोतः तः
रथन्तरे वसिष्ठः

यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।
तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवं ॥ १४२९ ॥ ऋ. ८.८९.५
तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः ।
तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वं ॥ १४३० ॥
आमासु पक्वमैरय आ सूर्यं रोहयो दिवि।
घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥१४३१ ॥


७. वसिष्ठः । बृहत्युत्तरानुष्टुप् । इन्द्रः ॥
याज्जायथाअपूर्वियोवा ॥ माघवन्वृत्रहत्यायतत्पृथिवीम् । अप्राऽ२३थयाः ॥ तादस्तभ्नाऽ२३ऊऽ३ ॥ तोदाऽ२३४इवाम् । ओवाऽ६ । हाउवा ॥ श्रीः ॥ वन्तोवा ॥ तेयज्ञोअजायततदर्कउतहस्कृतिस्तद्विश्वम । भिभूऽ२३रसाइ । याज्जातंयाऽ२३च्चाऽ३ ॥ जान्तूऽ२३४वाम् । ओवाऽ६ । हाउवा ॥श्रीः।। वमोवा । मासुपक्वमैरयआसूर्यँ रोहयोदिविघर्मन्नसामन्तपता। सुवाऽ२३क्तिंभाइः ॥ जूष्टंगिर्वाऽ२३णाऽ३ ॥ साइबॄऽ२३४हात् । ओवाऽ६ । हाउवा ॥ अस् ॥
.
दी. २१. उत् . ३. मा. १९. गो. ॥३६।।



[सम्पाद्यताम्]

टिप्पणी