सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/प्रथमादशतिः/चतुर्थस्वरे

विकिस्रोतः तः
चतुर्थस्वरे पयोनिधनम्.
चतुर्थस्वरे पयोनिधनम्.

१९
यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।
तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवं ॥ १४२९ ॥ ऋ. ८.८९.५
तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः ।
तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वं ॥ १४३० ॥
आमासु पक्वमैरय आ सूर्यं रोहयो दिवि।
घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥१४३१ ॥





१०. चतुर्थस्वरे ।। वायुः । बृहत्युत्तरानुष्टुप् । इन्द्रः ।।

याज्जायाज्जा ।। यथाअपूर्वियाऔऽ३हो । हाऽ२इया । औऽ३हो । माघवन्वृत्रहत्यायाऔऽ३हो । हाऽ२इया । । औऽ३हो ।। तात्पृथिवीमप्राथयाऔऽ३हो । हाऽ२इया । औऽ३हो ।। तादस्तभ्नाउतोदिवामौऽ३हो । हाऽ२इया । औऽ३होवाहाउवाऽ३ ।।श्रीः।। तात्तेतात्ते । । यज्ञोअजायताऔऽ३हो । हाऽ२इया । औऽ३हो । तादर्कउतहस्कृताइरौऽ३हो । हाऽ२इया । औऽ३हो ।। ताद्विश्वमभिभूरसाऔऽ३हो । हाऽ२इया । औऽ३हो ।। याज्जातंयच्चजन्तु-
वामौऽ३हो । हाऽ२इया । औऽ३होवाहाउवाऽ३ ।। श्रीः ।। आमाआमा ।। सुपक्वमैरयाऔऽ३हो । हाऽ२इया । औऽ३हो । आसूर्यꣲरोहयोदिवाऔऽ३हो । हाऽ२इया । औऽ३हो । । घार्मन्नसामन्तपतासुवृक्तिभाइरौऽ३हो । हाऽ२इया । औऽ३हो ।। जूष्टंगिर्वणसेबृहादौऽ३हो । हाऽ२इया । औऽ३होवाहाउवाऽ३ ।। ए३। पया२३४५ः।।

दी. २३. उत् . न. मा. २९. रो. ।।३९।।


[सम्पाद्यताम्]

टिप्पणी

उदयनीयायां अनुबन्ध्यास्थानिकायामामिक्षायां याज्जायाज्जेति स्वारं पयोनिधनम् आग्नीध्रीयेऽवस्थाय तृचे गायेत् । वायुरनुष्टुबिन्द्रः । - आर्षेयकल्पः उपोद्घातः पृ. ४७