सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/तृतीयादशतिः/विकर्णम्(पुरोजिती)

विकिस्रोतः तः
विकर्णम्
विकर्णम्

१८
पुरोजिती वो अन्धसः सुताय मादयित्नवे |
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं || ६९७ ||
यो धारया पावकया परिप्रस्यन्दते सुतः |
इन्दुरश्वो न कृत्व्यः || ६९८ ||
तं दुरोषमभी नरः सोमं विश्वाच्या धिया |
यज्ञाय सन्त्वद्रयः || ६९९ ||


५ वायुः । अनुष्टुप् । पवमानस्सोमः ।।

पुरोजितीवोआ२न्धासाऽ२ः ।। सुतायमादयाऽ२इत्नावाऽ२इ ।। अपश्वानꣲश्नथाऽ२इष्टानाऽ२ ।। सखायोदार्घजाऽ२इह्वायाऽ२म् ।। श्रीः ।। सखायोदीर्घजाऽ२इह्वायाऽ२म् ।। योधारयापावाऽ२कायाऽ२ ।। परिप्रस्यन्द- ताऽ२इसूताऽ२ः ।। इन्दुरश्वोनकाऽ२र्त्वायाऽ२ः ।। श्रीः ।। इन्दुरश्वोनकाऽ२- र्त्वायाऽ२ः ।। तन्दुरोषमभाऽ२इनाराऽ२ः ।। सोमंविश्वाचियाऽ२धायाऽ२ ।। यज्ञायसन्तुवाऽ२द्रायाऽ२ः ।। दी. २२ उत्. न मा १६ यू ।।५४।।