सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/प्रथमादशतिः/रथन्तराणि

विकिस्रोतः तः

फेसबुक उपरि वीडियो

रथन्तरम्
रथन्तरम्

हु꣡म् । आ꣢꣱भित्वा꣯शू꣯रनो꣯नुमो꣡वा ॥ ओं꣡वाग्भाभुभा꣢꣯भिभभे꣯भभभी꣯भा꣯भभभभभभः सु꣡वा२३र्दृशा꣢म् ॥ आ꣡इशा꣯न꣢मा꣡ २३ इन्द्रा꣤३॥ सू꣡स्थू २३४ षा꣯ ओ꣯वा꣥ ६ हा꣥उवा ॥ अ꣡स् ॥ [१] ई꣢꣯शो꣡वा ॥ ओं꣡वाग्भाभिभ꣢भुभुभो꣯भभा꣯भा꣯भभो꣯भिभिभो꣯ न꣡पा२३ र्थिवा꣢:॥ न꣡जा꣯तो꣢꣯ना꣡ २३ जा꣤३॥ ना꣡इष्या २३४ ता꣯ ओ꣯वा꣥६ हा꣥उवा । अ꣡स् ॥[२] न꣢जो꣡वा ।।ओं꣡वाग्भोभभ꣢भिभभे꣯भभा꣯भभो꣯भभभभिन्द्र꣡वा२३ जिना꣢: ॥ ग꣡व्यन्त꣢स्त्वा꣡ २३ हा꣤ ३ ॥ वा꣡मा२३४ हा꣯ ओ꣯वा꣥६ हा꣥उवा ।। अ꣡स् ॥ [३]

[ आरण्य २.१.२१; ऊह्य १.१.१]

रथन्तरम् साकौस [२.१.१.११ ]
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ।। ६८०
न स्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥

      
हुम् । आभित्वाशूरनोनुमोवा ॥ ओंवाग्भाभुभाभिभभभभभीभाभभभभभभः सुवा२३र्दृशाम् ॥ आइशानमा २३ इन्द्रा३॥ सूस्थू २३४ षा ओवा ६ हाउवा ॥
अस् ॥ [१] ईशोवा ॥ ओंवाग्भाभिभभुभुभोभभाभाभभोभिभिभो नपा२३ र्थिवाः॥ नजातोना २३ जा३॥ नाइष्या २३४ ता ओवा६ हाउवा । अस् ॥[२] नजोवा ।।ओंवाग्भोभभभिभभभभाभभोभभभभिन्द्रवा२३ जिनाः ॥ गव्यन्तस्त्वा २३ हा ३ ॥ वामा२३४ हा ओवा६ हाउवा ।। अस् ॥ [३] [ आरण्य २.१.२१; ऊह्य १.१.१]

[सम्पाद्यताम्]

टिप्पणी

तद् धैतद् एक एकरूपम् एव भा भा इति स्तोभन्ति। असौ वा आदित्यो भा इति। तद् उ होवाच शाट्यायनिर् अमिथुनम् एतद् अप्रजननं यद् एकरूपम्। भगो वा असौ भिद् इयम्। पुमान् वा असौ स्त्रीयम्। यदा वा असौ वर्षत्य् अथेयं प्रजायते। यदो वै पुमान् योषायां रेतस् सिञ्चत्य् अथ सा प्रजायते। तस्मात् अभुभाभिभभेभम इत्य् एवं मिथुनं प्रजननं स्तोब्धव्यम्। यावत् स्तोभेत् तावत् पृथिव्यां हस्तौ स्यातां देवरथस्यानपव्याधाय॥जै.ब्रा. १.३३०