सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/द्वितीयादशतिः/शाक्वरऋषभम्

विकिस्रोतः तः
शाक्वरऋषभम्.
शाक्वरऋषभम्

पवस्व वाजसातये पवित्रे धारया सुतः।
इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः॥ १०१६
त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः।
वत्सं जातं न मातरः पवमान विधर्मणि॥ १०१७
त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे।
प्रति द्रापिममुञ्चथाः पवमान महित्वना॥ १०१८



५ शाक्वरऋषभम् ।। रुद्रः ।। अनुष्टुप् । पवमानस्सोमः ।।
ओऽ३१म् । पवाएस्ववाएजसाएतयआ । शंयोः (द्विः) पाएवाएत्राएधाऽ१ । हविः ( द्विः) राएयाएसूएतआ । सुवः ( द्विः) इन्द्राएयसोएमवाएष्णवआ । ज्योतिः ( द्विः) देवाएभ्योमाएधुमाएत्तरआ । इट् ।। श्रीः ।। तुवामेरिहाएन्तिधाएतयआ । शंयोः ( द्विः) हाएराएम्पाएविया । हविः ( द्विः) त्राएआएद्रूएहआ । सुवः ( द्विः) वत्त्सामेजातामेनमाएतरआ । ज्योतिः (द्विः) ।। पवाएमानाएविधाएर्मणिया ।
इट् ।। श्रीः ।। तुवामेद्याञ्चाएमहाएव्रतआ । शंयो (द्विः) । पाएर्थाएवाएञ्चाऽ१ । हविः (द्विः) आएताएजाएभ्रिषआ ।। सुवः (द्विः) प्रताएद्रापीमेअमूएञ्चथाआ । ज्योतिः ( द्विः) पवाएमानाएमहाएत्वनाऽ१ ।। इट्स्थिइडाऽ२३४५ ।।


[सम्पाद्यताम्]