सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/द्वितीयादशतिः/पार्थुरश्मम्

विकिस्रोतः तः
पार्थुरश्मम्.
पार्थुरश्मम्.

इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ।।१००२ ।। ऋ. १.८१.१
असि हि वीर सेन्योऽसि भूरि पराददिः ।
असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ।। १००३ ।।
यदुदीरत आजयो धृष्णवे धीयते धनां ।
युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ।। १००४ ।।


 

३. पाथुरश्मम् ॥ पृथुरश्मिः प्रजापतिः। पङ्क्तिः । इन्द्रः॥
एईन्द्रा । ओऽ२३४वा ॥ मदायवाऽ२वृधाइ । अथा ॥ एशावा। ओ२३४वा ॥ सेवृत्रहाऽ२नृभाइ । अथा ॥ एतामी। ओऽ२३४वा ॥ महत्सुवाऽजिषू । अथा ॥ एऊता। ओऽ२३४वा ॥ अर्भेहवाऽमहाइ । अथा ॥ एसावा । ओऽ२३४वा ॥ जेषुप्रनोऽ२विषात् । अथा ॥ श्रीः ॥ एआसा। ओऽ२३४वा ॥ हिवीरसेऽ२नियाः । अथा ॥ एआसा। ओऽ२३४वा ॥ भूरिपराऽरददाइ । अथा ॥ एआसा। ओऽ२३४वा ॥ दभ्रस्यचाऽ२इद्वृधाः ॥ अथा। एयाजा ॥ ओऽ२३४वा। मानायशाऽ२इक्षसाइ । अथा ॥ एसून्वा । ओऽ२३४वा ॥ तेभूरिताऽ२इवसाउ ॥ अथा ॥ श्रीः ॥ एयाद्। ओऽ२३४वा ॥ ईरताऽरजयाः । अथा ।। एधृष्णा । ओऽ२३४वा ॥ वेधीयताऽ२इधनाम् । अथा ॥ एयूङ्वा अथा । ओऽ२३४वा ।। मदच्युताऽ२हराइ । अथा ॥ एकाँहा । ओऽ२३४वा ।। नकंवसाऽ२उदधाः। अथा।। एअस्मँ। ओऽ२३४वा। इन्द्रवसाऽ२उदधाः । अथाऽ२३४५॥
दी. १३. उत् . १५. मा. २७. णे.॥१३॥
 


टिप्पणी

पृष्ठ्यषडहस्य पंचमेह्नि -- राजन्यस्य तु इन्द्रो मदायेति पार्थुरश्मं ब्रह्मसाम । वैश्यस्य तु स्वादोरित्थेति रायोवाजीयं ब्रह्मसाम । - आर्षेयकल्पः उपोद्घातः पृ. ७३

इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत्। तेषाम् अद्यमानानां त्रयः कुमाराः पर्यशिष्यन्त रायोवाजः पृथुरश्मिर् बृहद्गिरिः।.......सो ऽब्रवीद् रायोवाजः पशुकामो ऽहम् अस्मीति। तस्मा इळां प्रायच्छत्। पशवो वा इळा। अथाब्रवीत् पृथुरश्मिः क्षेत्रकामो ऽहम् अस्मीति। तस्मै क्षेत्रं प्रायच्छत्। स एव पृथुर् वैन्यः। अथाब्रवीद् बृहद्गिरिर् अन्नाद्यकामो ऽहम् अस्मीति। तस्मा अथकारं प्रायच्छत्। अन्नं वा अथकारः॥ - जैब्रा. १.१८६

गवामयनम् -- तस्य महानाम्न्यः पृष्ठं भवन्ति। नो ह्य् एतान् अन्यन् महानाम्नीभ्यः पृष्ठं पशून् उद्यन्तुम् अर्हति। तास् सप्तपदा भवन्ति - सप्त वै ग्राम्याः पशवो - ग्राम्याणाम् एवं पशूनाम् अवरुद्धयै। अति सप्तमं पदं भवत्य् आरण्यानाम् एव पशूनाम् अवरुद्धयै। तस्य पार्थुरश्मं ब्रह्मसाम भवत्य् अथकारेण समृद्धम्। अथग् अथग् इतीव ह्य अश्वो धावति। अथो पुथुर् वाव रश्मिर् अश्वं यन्तुम् अर्हति। तद् उ पांक्तं भवति। पांक्तं हि महानाम्नीनां ब्रह्मसाम। - जैब्रा २.२७३

इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तेषां त्रय उदशिष्यन्त पृथुरश्मिर्बृहद्गिरी रायोवाजस्तेऽब्रुवन् को न इमान् पुत्रान् भरिष्यतीत्यहमितीन्द्रोऽब्रवीत् तानाधिनिधाय परिचार्यं चरद्(?) वर्धयंस्तान् वर्धयित्वाब्रवीत् कुमारका वरान् वृणीध्वमिति, क्षत्रं मह्यमित्यब्रवीत् पृथुरश्मिस्तस्मा एतेन पार्थुरश्मेन क्षत्रं प्रायच्छत् क्षत्रकाम एतेन स्तुवीत क्षत्रस्यैवास्य प्रकाशो भवति, ब्रह्मवर्चसं मह्यमित्यब्रवीत् बृहद्गिरिस्तस्मा एतेन बार्हद्गिरेण प्रायच्छत् ब्रह्मवर्चसकाम एतेन स्तुवीत ब्रह्मवर्चसी भवति, पशून्मह्यमित्यब्रवीद्रायोवाजस्तस्मा एतेन रायोवाजीयेन पशून् प्रायच्छत् पशुकाम एतेन स्तुवीत पशुमान् भवति पार्थुरश्मं राजन्याय ब्रह्मसाम कुर्यात् बार्हद्गिरं ब्राह्मणाय रायोवाजीयं वैश्याय स्वेनैवेनांस्तद्रूपेण समर्धयति स्तोमः - पंब्रा १३.४

अश्वत्रिरात्रः -- पार्थुरश्मं ब्रह्मसाम भवति। ईश्वरो वा एषोऽयतोऽधृतः परां परावतमेतो रश्मिना वा अश्वो धृतो यत् पार्थुरश्मं ब्रह्मसाम भवत्यश्वस्यैव यत्यै - तांब्रा २१.४.१०

ब्राह्मणाच्छंसी उपरि टिप्पणी