सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/तृतीयादशतिः/देवस्थानम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
देवस्थानम्.
देवस्थानम्.

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ।। १३१३ ।। ऋ. ९.१०७.१
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ।। १३१४ ।।

[सम्पाद्यताम्]

टिप्पणी

अथ देवस्थानम्। एतेन वै तृतीयेन त्र्यहेण देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवास्रंसत। त एतत् सामापश्यन्। तेनैनम् ए ऽस्थाद् इदं ए ऽस्थाद् इदम् इत्य् एवास्थापयन्। तम् एतेनैवादृंहन्। तद् यद् एतेनास्थापयंस् तद् देवस्थानस्य देवस्थानत्वम्। तद् यद् अत्र देवस्थानं भवत्य् एतम् एवैतत् त्रिरात्रं प्रतिष्ठापयन्त्य्, एतं दृंहन्ति। तं संस्कृत्य तेन स्वर्गं लोकम् आयन्। तस्मिन् यत् स्वर्गे लोके समतिष्ठन्त तद् व् एव देवस्थानस्य देवस्थानत्वम्। ते यत्र स्वर्गं लोकम् आयंस् तद् धीदं सर्वं संगोपाञ्चक्रे यथास्यैतन्निधनम्। तेन हैतेन साम्ना महद् एवानपजय्यं जयति। तस्यैष श्लोको - वैरूपं देवा अभिसंवसानास् तदातस्थुस् तद् उ हैषां व्यारते। हिंकृत्य पुनर् आरुह्य सर्वं एवाधून्वत जरसं तनूनाम्॥ इति। त एतम् एव छन्दोम्यं त्र्यहं संस्कृत्य देवस्थानम् एव साम समारुह्य स्वर्गं लोकम् अगच्छन्। तस्यो एवैष श्लाको - यद् वैरूप उपहते व्यद्ध्वे हिंकृण्वन्तस् समतिष्ठन्त यामम्। तद् देवस्थानम् असृजन्त साम तेन देवासो अमृतत्वम् आयन्॥ इत्य् एवामृतत्वम् अगच्छन्॥जैब्रा ३.२५५

प्रजापतिर् अन्नाद्यम् असृजत। तत् क्षयाद् बिभ्यद् दिशो व्युदक्रामत्। सो ऽकामयतावान्नाद्यं रुन्धीयेति। स एतत् सामापश्यत्। तेनैनद् ए ऽस्थाद् इदम् ए ऽस्थाद् इदम् इत्य् एव सर्वाभ्यो दिग्भ्यो ऽन्नाद्यम् अवारुन्द्ध। स यो ऽन्नाद्यकाम स्याच् चतुर् ब्रूयात्। तचस्रो दिशः। दिग्भ्य एवान्नाद्यम् अवरुन्द्धे। अथ य स्वर्गकाम स्यात् त्रिर् ब्रूयात् - त्रयो वा इमे लोका - एषां लोकानां समष्टयै।- जैब्रा ३.२५६