सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/एकाहपर्व/द्वितीयादशतिः/बृहत्साम

विकिस्रोतः तः
बृहत्साम
वाजपेय साम

५. बृहत्साम ।। भरद्वाजः। त्रिष्टुप् । विष्णुः ॥

औ꣢꣯हो꣯इकिमित्ते꣯विष्णोपरिचाऽ३ए꣢ । क्षि꣡ना꣯मप्रयद्ववक्षे꣯शिपाइ । वाइष्टो꣢᳐आ꣣ऽ२३४स्मी꣥। मा꣡꣯वा꣢ऽ३४। औ꣣꣯हो꣤꣯वा꣥। पो꣢꣯आ꣡स्मदा। पगूहा꣢ऽ३१:। ए꣯तद्यदा꣣ऽ२३४न्या꣥ ॥ रू꣢꣯प꣡स्समा꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ ॥ थाऽ᳒२᳒इबा꣡भूऽ२३४ । था। उ꣥हुवाऽ६हा꣥उ । वा ॥श्रीः।। औ꣢꣯हो꣯इथप्राऽ३ए꣢ ॥ त꣡त्ते꣯अद्यशिपिविष्टहव्यमर्यश्शꣲसा꣯मिवयू । नाना꣢इवा꣣ऽ२३४इद्वा꣥न्। त꣡न्त्वा꣢ऽ३४। औ꣣꣯हो꣤꣯वा꣥। गृ꣢णा꣡मिता । वसामा꣢ऽ३१ । तव्यान्क्षया꣣ऽ२३४न्ता꣥म् ॥ अ꣢स्य꣡रजा꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ ।। साऽ᳒२᳒ᳲपा꣡राऽ२३४ । काइ । उ꣥हुवाऽ६हा꣥उ । वा ॥ श्रीः ।। औ꣢꣯हो꣯इ꣯केवाऽ३ए꣢ ॥ ष꣡ट्ते꣯विष्णवा꣯सआ꣯कृणो꣯मितन्मे꣯जुषस्वशिपाइ । वाइष्टा꣢᳐हा꣣ऽ२३४व्या꣥म् । व꣡र्द्धा꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ । तु꣢त्वा꣡सुष्टू । ताया꣢ऽ३१: । गिरो꣯मे꣯यू꣯या꣣ऽ२३४म्पा꣥ ॥ त꣢सु꣡वस्ता꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ ॥ भाऽ᳒२᳒इस्सा꣡। भाऽ᳒२᳒इस्स꣡दाऽ२३४ । नाः । उ꣥हुवाऽ६हा꣥उ । वा ।। ह꣡स् ॥

दी. ३८. उत् . ६. मा. ३०. टौ. ॥८४।।


किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि ।
मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥ १६२५ ॥ ऋ. ७.१००.६
प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शंसामि वयुनानि विद्वान् ।
तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥ १६२६ ॥
वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यं ।
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तभिः सदा नः ॥ १६२७ ॥

५. बृहत्साम ।। भरद्वाजः। त्रिष्टुप् । विष्णुः ॥

औहोइकिमित्तेविष्णोपरिचाऽ३ए । क्षिनामप्रयद्ववक्षेशिपाइ । वाइष्टोआऽ२३४स्मी। मावाऽ३४। ओहावा। पोआस्मदा। पगूहाऽ३१:। एतद्यदाऽ२३४न्या ॥ रूपस्समाऽ३४ । औहोवा ॥ थाऽ२इबाभूऽ२३४ । था। उहुवाऽ६हाउ । वा ॥श्रीः।। औहोइथप्राऽ३ए ॥ तत्तेअद्यशिपिविष्टहव्यमर्यश्शँसामिवयू । नानाइवाऽ२३४इद्वान। तन्त्वाऽ३४। औहोवा। गृणामिता । वसामाऽ३१ । तव्यान्क्षयाऽ२३४न्ताम् ॥ अस्यरजाऽ३४ । औहोवा ।। साऽ२ पाराऽ२३४ । काइ । उहुवाऽ६हाउ । वा ॥ श्रीः ।। औहोइकेवाऽ३ए ॥ षट्तेविष्णवासआकृणोमितन्मेजुषस्वशिपाइ । वाइष्टाहाऽ२३४व्याम् । वर्द्धाऽ३४ । औहोवा । तुत्वासुष्टू । तायाऽ३१: । गिरोमेयूयाऽ२३४म्पा ॥ तसुवस्ताऽ३४ । औहोवा ॥ भाऽ२इस्सा। भाऽ२इस्सदाऽ२३४ । नाः । उहुवाऽ६हाउ । वा ।। हस् ॥

दी. ३८. उत् . ६. मा. ३०. टौ. ॥८४।।


[सम्पाद्यताम्]

टिप्पणी

किमित्ते विष्णो (सा० १६२५-७) इति बृहता (र० ३.१. ५) वाजपेयसाम्ना स्तुवीरन् । तस्य भरद्वाज-स्त्रिष्टुप् विप्णुरित्यादयः । षोडशस्तोत्रीयासु भाइः सादा इति पाठः । सप्तदश्यां भाइः सदा इति । उत्तमं न रुह्यादिति आचार्या (नि०सू० २.९) इति निदानवचनात् । - आर्षेयकल्पः अध्यायः ४, पृ. २३२

अनेन साम्ना वाजपेययागस्य वैशिष्ट्यं भवति। वाजपेययागे ब्रह्मा ऋत्विक् रथचक्रोपरि स्थित्वा अस्य साम्नः गानं करोति।

शिपिविष्टोपरि टिप्पणी