सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/एकाहपर्व/द्वितीयादशतिः/उद्भित्

विकिस्रोतः तः
उद्भिद् -बलभिद्
उद्भित्

६ उद्भित् ।। बृहस्पतिः । उष्णिक् । पवमानस्सोमः ।।

हो꣢꣯वा꣯इ( द्विः) । हो꣯वाऽ३हा꣢इ । पवते꣯हाऽ३र्या꣤ऽ३तो꣢꣯ह꣣रिः꣥ ।। अ꣢तिह्वराऽ३ꣲसी꣤ऽ३र꣢ꣲहि꣣या꣥꣯ ।। अ꣢भियर्षस्तो꣯तृभ्यो꣯वाऽ३इरा꣤ऽ३व꣢द्य꣣श꣥: ।।
दी. १०. उत्. न. मा. ६. वू. ।।८५।।


पवते हर्यतो हरिरति ह्वरांसि रंह्या ।
अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ॥ ७७३ ॥ ऋ. ९.१०६.१३


६ उद्भित् ।। बृहस्पतिः । उष्णिक् । पवमानस्सोमः ।।

होवाइ( द्विः) । होवाऽ३हाइ । पवतेहाऽ३र्याऽ३तोहरिः ।। अतिह्वराऽ३ꣲसीऽ३रꣲहिया ।। अभियर्षस्तोतृभ्योवाऽ३इराऽ३वद्यशः ।।

दी. १०. उत्. न. मा. ६. वू. ।।८५।।


बलभित्

७. बलभित् ।। बृहस्पतिः । गायत्री । पवमानस्सोमः ।।
य꣢स्ते꣯मदोऽ३वा꣤ऽ३꣢रे꣯णि꣣य꣥: ।। ते꣢꣯ना꣯पवाऽ३स्वा꣤ऽ३अ꣢न्ध꣣सा꣥꣯ ।। दे꣢꣯वा꣯वी꣯राऽ३घा꣤ऽ३श꣢ꣲस꣣हा꣥꣯ ।। ओ꣢꣯वा꣯ ( द्विः) । ओ꣢꣯वाऽ३हा꣢ऽ३४ । औ꣥꣯हो꣯वा ।। ई꣣ऽ२३꣡४꣡५꣡ ।।
दी १६. उत्. न मा. २ हा ।।८६।।


यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।
देवावीरघशंसहा ॥ ८१५ ॥ ऋ. ९.६१.१९


७. बलभित् ।। बृहस्पतिः । गायत्री । पवमानस्सोमः ।।

यस्तेमदोऽ३वाऽ३रेणियः ।। तेनापवाऽ३स्वाऽ३अन्धसा ।। देवावीराऽ३घाऽ३शꣲसहा ।। ओवा ( द्विः) । ओवाऽ३हाऽ३४ । औहोवा ।। ईऽ२३४५ ।।
 
दी १६. उत्. न मा. २ हा ।।८६।।

आरण्यके उद्भिद्-बलभिदौ

[सम्पाद्यताम्]

टिप्पणी

उद्भिदोपरि पौराणिकसंदर्भाः

यदा बीजाः अंकुरिताः भवन्ति, तेषां आरोहणं गुरुत्वाकर्षणतः विपरीतदिशायां भवति। अयं उद्भित्। तेषां ये मूलाः सन्ति, तेषां प्रवृत्तिः गुरुत्वाकर्षणस्य अनुदिशि विस्तारस्य भवति। अयं बलभित्। अथवा, वल, वालं, केन्द्रीयबलस्य परितः भ्रमणं, यथा ग्रहाः सूर्यस्य परितः भ्रमन्ति। यदा वलं दोषयुक्तः भवति, तदा तत् केन्द्रीयबलस्य परित्यागं कृत्वा मुक्तरूपेण विचरति। सोमयागे ब्राह्मणाच्छंसिसंज्ञकस्य ऋत्विजस्य कार्यं वलस्य, ब्रह्मणस्य रक्षणं अस्ति, अयं अनुमानम्। ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च। प्रेम मैत्री कृपोपेक्षा यः करोति स मध्यमः।। - भागवतपुराणम् ११.२.४६