सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ६/ऐडं कावम्

विकिस्रोतः तः
ऐडं कावम्.


अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते ।
आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥७००
ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः ।
दधाति पुत्रः पित्रोरपीच्या३ं नाम तृतीयमधि रोचनं दिवः ॥ ७०१ ॥
अव द्युतानः कलशां अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये ।
अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि ॥ ७०२ ॥


२. ऐडं कावम् ॥ कविः। जगती। पवमानस्सोमः॥

एऽ५ । अभिप्रियाऽ२ । णिपवताइ । एऽ५ । चनोहिताः ॥ एऽ५ । नामानियाऽ२ । ह्वोअधियाइ । एऽ५। षुवर्द्धताइ ॥ एऽ५ । आसूरियाऽ२ । स्यबृहताः । एऽ५ । बृहन्नधी ॥ एऽ५ । रथंविष्वाऽ२ । चमरुहात् । एऽ५ । विचक्षणाः॥श्रीः॥ एऽ५ । ऋतस्यजाऽ२इ । ह्वापवताइ एऽ५ । मधुप्रियाम् ॥ एऽ५ । वक्तापताऽ२इः । धियोअस्याः । एऽ५ । अदाभियाः ॥ एऽ५ । दधातिपूऽ२त् । त्र× पित्रोः । एऽ५ । अपीचियाम् ।। एऽ५ । नामतृताऽ२इ । यमधिरा । एऽ५ । चनन्दिवाः ।। श्रीः ॥ एऽ५ । अवद्युताऽ२ । न×कलशꣲ । एऽ५ । अचिक्रदात् ॥ एऽ५ । नृभिर्येमाऽ२ । ण×कोशआ । एऽ५ । हिरण्ययाइ ॥ एऽ५। अभीऋताऽ२ । स्यदोहनाः । एऽ५ । अनूषता॥ एऽ५। अधित्रिपाऽ२। ष्ठउषसाः। एऽ५। विराजसाइ। होऽ५इ॥ डा॥

दी. १९. उत् . न. मा. ३०. लौ ॥३२४॥

[सम्पाद्यताम्]

टिप्पणी