सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ३/अदारसृक्

विकिस्रोतः तः
अदारसृक्.
अदारसृक्

पवस्व दक्षसाधनो देवेभ्यः पीतये हरे ।
मरुद्भ्यो वायवे मदः ।। ९१९ ।।
सं देवैः शोभते वृषा कविर्योनावधि प्रियः ।
पवमानो अदाभ्यः ।। ९२० ।।
पवमान धिया हितो३ऽभि योनिं कनिक्रदत् ।
धर्मणा वायुमारुहः ।। ९२१ ।। ऋ. ९.२५.१


२. अदारसृक् ॥ भरद्वाजः। गायत्री । पवमानस्सोमः।।
हाउपवस्वदा ॥ क्षसाऽ२धानाऽ२: । देवेभ्यᳲपीतयाऽ२इहाराऽ२इ ॥ मरूऽ२द्भ्योवाऽ२ ।। यवे। माऽ२दाऽ२३४औहोवा ।। श्रीः ॥ हाउसन्देवैश्शो ॥ भताऽ२इवार्षाऽ२ । कविर्योनावधाऽ२इप्रायाऽ२ः ॥ पवाऽ२मानाऽ२ः। अदा। भाऽ२याऽ२३४औहोवा।। श्रीः ।। हाउपवमाना। घियाऽ२हाइताऽ२: । अभियोनिङ्कनाऽ२इक्रादाऽ२त्।। धर्माऽ२णावाऽ२ ।। युमा। रूऽ२हाऽ२३४औहोवा ।। अस्मभ्यङ्गातुवित्तमाऽ२३४५म् ।।
दी. २२. उत् . १०. मा. १८. ञै. ।।२६४॥


[सम्पाद्यताम्]

टिप्पणी

चतुर्थे अहनि माध्यन्दिनपवमानस्य प्रथमं तृचम् -- पयस्व दक्षसाधन"इति गायत्री भवति सिध्यै। यत् पवस्वेति तद्बृहतो रूपं बार्हतं ह्येतदहः - तां.ब्रा. १२.९.१

पवस्व दक्षसाधन इति माध्यन्दिनस्य पवमानस्य दक्षवतीर् गायत्र्यो भवन्ति। अहर् एवैताभिर् दक्षयन्ति, छन्दांसि दक्षयन्ति, देवता दक्षयन्ति, षोडशिनं दक्षयन्ति। देवेभ्यः पीतये हरे मरुद्भ्यो वायवे मद इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। सं देवैश् शोभते वृषेति वृषेति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। पवमान धिया हितो ऽभि योनिं कनिक्रदद् इति योनिमतीर् भवन्ति। योनेर् वै प्रजाः पशवः प्रजायन्ते। जनद्वद् एतस्य वैराजस्याह्नो रूपम्। धर्मणा वायुम् आ रुहेति वायुमतीर् भवन्ति - वायुर् वै शान्तिश् - शान्त्या एवानिर्दाहाय। - जैब्रा ३.६६

अदारसृक् (पवमानस्य जिघ्नतो) (दशरात्रपर्व)

अदारसृक् -- स्कन्दपुराण २.२.२८ इत्यादिषु इन्द्रद्युम्नादयः जनाः पुरुषोत्तमक्षेत्रे नृसिंहस्य भीषणरूपस्य दर्शनं कुर्वन्ति। कालान्तरे अयं भीषणरूपः सौम्यदारुरूपे परिवर्तते यस्मात् चतुर्मूर्तीनां सृजनं भवति। अयं प्रतीयते यत् व्यवहारे कोपि घटना सिंहइव विदारणकरणे घटितुं शक्यते। तस्मिन् काले सम्यक् मार्गस्य अवलोकनं अपेक्षितं भवति। भरद्वाजस्य अदारसृक् साम अस्मिन् उद्देश्ये केन प्रकारेण सहायकः अस्ति, अन्वेषणीयः।

दारु उपरि आरंभिक टिप्पणी