सामवेदः/कौथुमीया/संहिता/ऊहगानम्/प्रायश्चित्तपर्व/विंशः ३/गौरीवितिः

विकिस्रोतः तः
गौरीवितिः
गौरीवितिः.


किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि |
मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ || १६२५ ||
प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शंसामि वयुनानि विद्वान् |
तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके || १६२६ ||
वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यं |
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तभिः सदा नः || १६२७ ||




६. गौरीवितिः । त्रिष्टुप् । विष्णुः ।।

किमित् । तेवाऽ३इ । ष्णोपरिचा ।। क्षिनामप्रयद्ववक्षेशिपिविष्टोअस्माऽ२३इ । मावर्पोआऽ३१२३ । स्मदपगूहएतद्याऽ५दन्या । रूपस्समाऽ३१२३इ। थेबोवा। भूऽ५थोऽ६”हाइ ।। श्रीः ।। प्रतत् । तेआऽ३ । द्यशिपिवाइ ।। ष्टहव्यमर्यश्शꣲसामिवयुनानिविद्वाऽ२३न् । तान्त्वागृणाऽ३१२३ । मितवसमतव्यान्क्षाऽ५यन्ताम् ।। आस्यरजाऽ३१२३ ।। सᳲपोवा । राऽ५कोऽ६”हाइ ।। श्रीः ।। वषट् । तेवाऽ३इ । ष्णवासआ ।।
कृणोमितन्मेजुषस्वशिपिविष्टहव्याऽ२३म् । वार्धन्तुत्वाऽ३१२३ । सुष्टुतयोगिरोमेयूऽ५यंपा ।। तासुवस्ताऽ३१२३इ ।। भिस्सोवा । दाऽ५नोऽ६”हाइ ।।

दी. २१. उ. न. मा. २०. हौ. ।।८४६।।



[सम्पाद्यताम्]