सामवेदः/कौथुमीया/संहिता/ऊहगानम्/प्रायश्चित्तपर्व/विंशः २/नार्मेधम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नार्मेधम्
नार्मेधम्.

इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः ।
रथीतमं रथीनां वाजानां सत्पतिं पतिं ।। ८२७ ।। ऋ. १.११.१
सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते ।
त्वामभि प्र नोनुमो जेतारमपराजितं ।। ८२८ ।।
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः ।
यदा वाजस्य गोमत स्तोतृभ्यो मंहते मघं ।। ८२९ ।।




 
३. नार्मेधम् ॥ नृमेधाः। अनुष्टुप् । इन्द्रः ।।
इन्द्रंविश्वाअवीवृधाऽ३ने ॥ स । मू । द्र। व्या । चसाङ्गाऽ३इराः । रथाऽ२इताऽ२३४माम् ॥ रथाइनाम् । औहौहोऽ२३४वा ॥ वाऽ२३४जाहाइ ॥ नाꣲसात्पाता। औहौहोऽ२३४वा ॥ पाऽ२३४तीम् । एहियाऽ६हा ॥श्रीः।। सख्येतइन्द्रवाजिनाऽ३ए ॥ मा । भाइ । म । शा। वसास्पाऽ३ताइ । तुवाऽ२माऽ२३४भी ॥ प्रनोनूमा। औहौहोऽ२३४वा ॥ जाऽ२३४इतहाइ ॥ रमापारा । औहौहोऽ२३४वा ॥ जाऽ२३४इताम् । एहियाऽ६हा ॥श्रीः।। पूर्वीरिन्द्रस्यरातयाऽ३ए ॥ न । वाइ । द। स्या। तियूताऽ३याः । यदाऽ२वाऽ२३४जा ॥ स्यगोमाता । औहौहोऽ२३४वा ॥ स्तोऽ२३४तृहाइ ॥ भ्योमाꣲहाता । औहौहोऽ२३४वा ॥ माऽ२३४घाम् । एहियाऽ६हा । होऽ५इ ॥डा॥
दी. २६. उ. ९. मा. २३. घि. ॥८२२।।


[सम्पाद्यताम्]

टिप्पणी