सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/विशोविशीयम्
हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिं ।
महामिन्दुं महीयुवः ।। ९०४ ।। ऋ. ९.६५.१
पवमान रुचारुचा देवो देवेभ्यः सुतः ।
विश्वा वसून्या विश ।। ९०५ ।।
आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः ।
इषे पवस्व संयतं ।। ९०६ ।।
टिप्पणी
विशोविशीयं भवति। अग्निरकामयत विशो विशोऽतिथिस्स्यां विशो विश आतिथ्यमश्नुवीयेति स तपोऽतप्यत स एतद्विशोविशीयमपश्यत् तेन विशो विशोऽतिथिरभवत् विशो विश आतिथ्यमश्नुत विशो विशोऽतिथिर्भवति विशो विश आतिथ्यमश्नुते विशोविशीयेन तुष्टुवानः। गायत्रीषु स्तुवन्ति प्रतिष्टायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति। इडान्ताः पवमाना भवन्ति पशवो वा इडा पशवश्छन्दोमाः पशुष्वेव तत् पशून् दधाति स्तोमः। प्रेष्ठं वो अतिथिम् इत्यातिथ्यस्यैव तद्रूपं क्रियते। ऐन्द्र नो गधि प्रिय इतीन्द्रियस्य वीर्यस्यावरुध्यै। - पञ्च.ब्रा. १४.११.३६
हिन्वन्ति सूरम् उस्रय स्वसारो जामयस् पतिम्। महाम् इन्दुं महीयुवः॥ इति महद् ध्य् एतद् अहर् यच् चतुश्चत्वारिंशम्। तासु विशोविशीयम् उक्तब्राह्मणम्। तद् ऐळं भवति - पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै॥जैब्रा ३.२३१