सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/रयिष्ठम्

विकिस्रोतः तः
रयिष्ठम्
रयिष्ठम्

अभी नो वाजसातमं रयिमर्ष शतस्पृहं ।
इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहं ॥ १२३८ ॥ ऋ. ९.९८.१
वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः ।
नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो ॥ १२३९ ॥
परि स्य स्वानो अक्षरिदिन्दुरव्ये मदच्युतः ।
धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः ॥ १२४० ॥

[सम्पाद्यताम्]

टिप्पणी

रयिष्ठं भवति। पशवो वै रयिष्ठं पशूनामवरुध्यै - पञ्च.ब्रा. १४.११.३०

अथ रयिष्ठं मध्येनिधनं भवति प्रतिष्ठायै। समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। सो ऽकामयत न मत् पशवो ऽपक्रामयुर्, अभि मा वर्तेरन्न् इति। स एत् सामापश्यत्। तेनास्तुत। ततो वै तं पशवो ऽभ्यावर्तन्त। ततो ऽस्माद् अनपक्रमिणो ऽभवन्। सो ऽब्रवीद् अस्थाद् वा इयं मयि रयिर् इति। तद् एव रयिष्ठस्य रयिष्ठत्वम्। तद् एतत् पशव्य साम। तिष्ठत्य् अस्मिन् रयिर्, अभ्य् एनं पशव आवर्तन्ते, नास्मात् पशवो ऽपक्रामन्ति य एवं वेद। तद् अध्यर्धेळं भवति - पशवो वा इळा। पशवश् छन्दोमा - अभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै। - जैब्रा ३.२३०