सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/गौरीवितम्

विकिस्रोतः तः
गौरीवितम्.
गौरीवितम्

१६
अभी नो वाजसातमं रयिमर्ष शतस्पृहं ।
इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहं ॥ १२३८ ॥ ऋ. ९.९८.१
वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः ।
नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो ॥ १२३९ ॥
परि स्य स्वानो अक्षरिदिन्दुरव्ये मदच्युतः ।
धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः ॥१२४० ॥



३ गौरीवितम् ।। गौरीवितिः । अनुष्टुप्। पवमानस्सोमः ।।

अभी । नोवाऽ३ । जसातमाम् ।। रयिमर्षशतस्पृहाऽ२३म् । आइन्दोसहाऽ३१२३ । स्रभाऽ५र्णसाम् ।। तूविद्युम्नाऽ३१२३म् ।। विभोवा । साऽ५होऽ“६हाइ ।। श्रीः ।। वयम् । तेआऽ३ । स्यराधसाः ।। वसोर्वसो- पुरुस्पृहाऽ२३ः । नाइनेदिष्ठाऽ३१२३। तमाऽ५इषाः। स्यामसुम्नाऽ३१२३इ ।। तओवा । ध्राऽ५इगोऽ६”हाइ ।। श्रीः ।। परि । स्यस्वाऽ३ । नोअक्षरात् ।। इन्दुरव्येमदच्युताऽ२३ः । धारायऊऽ३१२३ । ध्वोआऽ५ध्वराइ ।। भ्राजानयाऽ३१२३ ।। तिगोवा । व्याऽ५योऽ६”हाइ ।।

दी. १४ उत्. न. मा. २४. ली. ।।१६३।।

[सम्पाद्यताम्]

टिप्पणी

सत्राणि--चतुर्विंशतिरात्रं पूर्वम् । द्वाविंशमहः -- श्यावाश्वस्य लोके गौरीवितम् (ऊ. ५. १. ३) - आर्षेयकल्पः अ. ९, पृ. ४८१

अभी नो वाजसातमम् इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। रयिम् अर्ष शतस्पृहम्। इन्द्रो सहस्रभर्णसं तुविद्युम्नं विभासहम्॥ इति। यद् वै शतवत् सहस्रवत् तच् छन्दोमानां रूपम्। पशवो वै छन्दोमाः। परि स्य स्वानो अक्षरद् इन्दुर् अव्ये मदच्युत इति मद्वतीर् भवन्ति। अभिपूर्वम् एवैतत् तृतीयसवने रसं मदं दधति। वयं ते अस्य राधसो वसोर् वसो पुरुस्पृहः। नि नेदिष्ठतमा इष स्याम सुम्ने ते अध्रिगो॥ इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः। तासु गौरिवीतम् उक्तब्राह्मणम्॥जैब्रा ३.२२७