सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/महावैश्वामित्रम्

विकिस्रोतः तः
महावैश्वामित्रम्(अपूर्णम्).
महावैश्वामित्रम्.

असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि।
आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः॥ १०२८ , ऋ. १.८४.१
आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी।
अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना॥ १०२९
इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम्।
ऋषीणां सुष्टुतीरुप यज्ञं च मानुषाणाम्॥ १०३०



१८. महावैश्वामित्रम् । विश्वामित्रः । अनुष्टुप् । इन्द्रः ।
हयाइ । हयाऽ३ । ओहाओहा (त्रीणि त्रिः) असाविसो । मइन्द्राताऽ२इ ।। शविष्ठधा । ष्णवागाहीऽ२ ।। आत्वापृणा । क्तुइन्द्रायाऽ२म् ।। रजस्सूर्यो । नरश्माइभाऽ२इः ।। श्रीः ।। आतिष्ठवा । त्रहन्राथाऽ२म् ।। युक्तातेब्रा । ह्मणाहारीऽ२ । अर्वाचीनाम् । सुतेमानाऽ२ः । ग्रावाकृणो । तुवग्नूनाऽ२ ।। श्रीः ।। इन्द्रमिद्धा । रीवहाताऽ२ः ।। अप्रतिधा । ष्टशवासाऽ२म् ।। ऋषीणाꣳसू । ष्टुतीरूपाऽ२ ।। यज्ञञ्चमा । नुषाणाऽ२म् । यज्ञञ्चा । मानुषाणाऽ२म् । हयाइ । हयाऽ३ । आहाआहा । (त्रीणि त्रिः) होऽ४इडा । होऽ४इडा । होऽ२३४५इ ।। डा ।।
दी. १९ उत्. १ मा. २९. तो. ।।९८।।


[सम्पाद्यताम्]

टिप्पणी

द्वादशाहस्य पञ्चमस्याह्नः तृतीयस्य उक्थस्तोत्रीयः - "असावि सोम इन्द्र त" इति सिमानां रूपं स्वेनैवैनांस्तद्रूपेण समर्धयति - तांब्रा. १३.६.५