सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/क्षुल्लकवैष्टम्भम्

विकिस्रोतः तः
क्षुल्लकवैष्टभम्
क्षुल्लकवैष्टभम्





१३ क्षुल्लकवैष्टम्भम्।। विष्टम्भः । गायत्री । पवमानः सोमः ।
उच्चाऽ५ते।। जाऽ३तमन्धसाः।। दाइविसद्भू । मियादाऽ१देऽ२३ । होवाऽ३हाइ ।। उग्राꣳशाऽ१र्माऽ२३ । होवाऽ३हाइ ।। महि ।। श्राऽ२वाऽ२३४औहोवा ।। श्रीः ।। सनाऽ५इ। । द्राऽ३ययज्यवाइ ।। वारुणाय । मरुद्भाऽ१याऽ२३ः । होवाऽ३हाइ ।। वराइवोऽ१वीऽ२३त् । होवाऽ३हाइ ।। परि । स्राऽ२वाऽ२३४औहोवा। ।। श्रीः ।। एनाऽ५वि। । श्वाऽ३नि अर्यआ ।। द्यूम्नानिमा । नूषाऽ१णाऽ२३म् । होवाऽ३हाइ ।। सिषासाऽऽ१न्ताऽ२३ः । होवाऽ३हाइ ।। वना । माऽ२हाऽ२३४औहोवा ।। दीऽ२३४शाः ।।
दी. १३ उत्. ५ मा२१. ण. ।५३।


[सम्पाद्यताम्]

टिप्पणी

उच्चा ते जातम् अन्धसेति। माध्यन्दिनस्य पवमानस्यान्धस्वतीर् गायत्र्यो भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्धयै। दिवि सद् भूम्य् आ दद इति द्यावापृथिवीया भवन्ति। अ - प्रतिष्ठितम् इव वा एतद् अहर् यद् वैरूपम्। तद् यद् एता द्यावापृथिवीया भवन्त्य् अहर् एवैताभिः प्रतिष्ठापयन्ति। स न इन्द्राय यज्यवे वरुणाय मरुद्भ्य इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। एना विश्वान्य् अर्य आ इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। तासु गायत्रम् उक्तब्राह्मणम्। अथ वैष्टम्भम्। ऊर्ध्वा वै देवा स्वर्गं लोकम् उदक्रामन्। ते दिशो नापश्यन्। ते ऽकामयन्त दिशः पश्येमेति। त एते सामनी अपश्यन्। ताभ्याम् अस्तुवत। ततो दिशो ऽपश्यन्। तास्व् आक्रमन्त। तास् सम् इवाप्लीयन्त। ता एताभ्यां निधनाभ्यां यथा चर्म कुशीभ्याम् अन्वस्येद् एवम् एवाभ्याम् अन्वास्यन्। ता अध्रियन्त। तद् यद् एते सामनी भवतो दिशाम् एव धृत्यै स्वर्गस्य च लोकस्योज्जित्यै। दिशो वा एतद् अहर्, दिश एते सामनी। तद् यद् एते सामनी एतस्मिन्न् अहनि क्रियेते, दिश एवैतत् प्रत्यक्षम् आरभन्ते।