सामवेदः/कौथुमीया/संहिता/ऊहगानम्/क्षुद्रपर्व/विंशः ३/गौरीवितानि(असाविसो)

विकिस्रोतः तः
गौरीवितानि
गौरीवितानि

२३
असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि ।
आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ।। १०२८ ।। ऋग्वेदः १.८४.१
आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी ।
अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ।। १०२९ ।।
इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसं ।
ऋषीणां सुष्टुतीरुप यज्ञं च मानुषाणां ।। १०३० ।।



४ असा । विसोऽ३ । मइन्द्रताइ ।। शविष्ठधृष्णवागहाऽ२३ह । आत्वापृणाऽ३१२३ । क्तुईऽ५न्द्रियाम् ।। राजस्सूर्योऽ३१२३ ।। नरोवा । श्माऽ५इभोऽ६”हाइ ।। श्रीः ।। आति । ष्ठवाऽ३ । त्रहन्रथाम् ।। युक्तातेब्रह्मणाहराऽ२३इ । आर्वाचीनाऽ३१२३म् । सुतेऽ५मनाः ।। ग्रावाकृणोऽ३१२३ ।। तुवोवा । ग्नूऽ५नोऽ६”हाइ ।। श्रीः ।। इन्द्रम् । इद्धाऽ३ । रीवहताः ।। अप्रतिधृष्टशवसाऽ२३म् । आर्षीणाꣲसूऽ३१२३ । ष्टुतीऽ५रुपा । याज्ञञ्चाऽ३१२३ ।। मानोवा । षाऽ५णोऽ६”हाइ ।।

दी. १५ उ. न. मा. १६. वू. ।।८९३।।


[सम्पाद्यताम्]

टिप्पणी

तं पुनरुपाधावत् तस्मै सप्तानां होत्राणां हरो निर्माय प्रायच्छत् तमस्तृणुत। स्तृणुते तं यं तुस्तूर्षते य एवं वेद। तस्माद्धरिवतीषु स्तुवन्ति हरिवतीः शंसन्ति हरिवतीषु ग्रहो गृह्यते हरो ह्यस्मै निर्माय प्रायच्छत्। एकविंशायतनो वा एष यत् षोडशी सप्त हि प्रातस्सवने होत्रा वषट्कुर्वन्ति सप्त माध्यन्दिने सवने सप्त तृतीयसवने - तां.ब्रा. १२.१३.५