सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः ७/समन्तम्

विकिस्रोतः तः
समन्तम्.

दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् |
आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः || ६७६ ||



१८. समन्तम् ।। अग्निः । सतोबृहती । पवमानस्सोमः ।।

दुहानऊधर्दिवियाम् ।। मधुप्रियाम्प्रत्नꣲसधस्थमासदात् । आपृच्छाऽ२३याम् । धारुणम्वा । जियार्षासा । औहोऽ३४वाहाइ । नृ । भाइर्धौऽ२३ताऽ३ः । होवाऽ३हाइ ।। विचक्षाऽ२३णाऽ३४३ः । ओ- ऽ२३४५इ ।।डा।।

दी. ७. उत्. ३. मा. १०. जौ ।।५१३।।



[सम्पाद्यताम्]

टिप्पणी

समन्तं भवति समन्तामेवास्मै विशं करोत्यनपक्रामुकास्माद्विड्भवति - तां.ब्रा. १९.१२