सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः ७/समन्तम्

विकिस्रोतः तः


इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ।। १०६४ ।।
भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयं ।
जीवातवे प्रतरं साधया धियोऽग्ने सख्ये म रिषामा वयं तव ।। १०६५ ।।
शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतं ।
त्वमादित्यां आ वह तान्ह्यू३श्मस्यग्ने सख्ये मा रिषामा वयं तव ।। १०६६ ।। ऋ. १.९४.१


१५. समन्तम् ॥ अग्निः । जगती । अग्निः ॥
इमꣳ स्तोममर्हते जातवेदसाइ ॥ रथमिवसंमहेमामनीषया । भद्राहाS२३इनाः । प्रामतिरस्यसँस । द्यग्नाइ ॥श्रीः ॥ भरामेध्मंकृणवामाहवीꣳषिताइ ॥ चितयन्तःपर्वणापर्वणावयाम् । जीवाताऽ२३वाइ | प्रातराꣳसाध-
याधि | योग्नाइ ॥ श्रीः ॥ शकेमत्वासमिधꣳसाधयाधियाः ।। त्वेदेवाहविरदन्त्याहुताम् । तुवमाऽ२३दी । त्यꣳआवहतान्ह्युश्म | स्यग्नासाख्या । औहोऽ३४वाहाइ ॥ मा । राइषाऽ२३माऽ३ । होवाऽ३हाइ ।
वयन्ताऽ२३वाऽ३४३ । ओs२३४५इ ॥ डा ॥
दी. ३४. उ. ६. मा. १६. तू . ॥ ६६७ ॥

[सम्पाद्यताम्]

[सम्पाद्यताम्]

टिप्पणी