सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः ५/गौरीवितम्

विकिस्रोतः तः
गौरीवितम्
गौरीवितम्.


प्रत्यस्मै पिपीषते विश्वानि विदुषे भर |
अरङ्गमाय जग्मयेऽपश्चादध्वने नरः || १४४० || ऋ. ६.४२.१
एमेनं प्रत्येतन सोमेभिः सोमपातमं |
अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः || १४४१ ||
यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ |
वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते || १४४२ ||
अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतं |
कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् ||१४४३ ||



१२. गौरीवितम् ।। गौरीवितिः । अनुष्टुप् । इन्द्रः ।।

प्रति । अस्माऽ३इ । पिपीषताइ ।। विश्वानिविदुषेभराऽ२३ । आरङ्गमाऽ३१२३ । यजाऽ५ग्मयाइ ।। आपश्चादाऽ३१२३ ।। ध्वनोवा ।। नाऽ५रोऽ६”हाइ ।। श्रीः ।। एमे । नंप्राऽ३ । तियेतना ।। सोमेभिस्सोमपातमाऽ२३म् । आमत्रेभाऽ३१२३इः । ऋजाऽ५इषिणाम् ।। आइन्द्रꣲसुताऽ३१२३इ ।। भिरोवा । दूऽ५भोऽ६"हाइ ।। श्रीः ।। यदी । सुताऽ३इ । भिरिन्दुभाइः ।। सोमेभिᳲ प्रतिभूषथाऽ२३ । वाइदाविश्वाऽ३१२३ । स्यमाऽ५इधिराः ।। धार्षत्तन्ताऽ३१२३म् ।। इदोवा । षाऽ५तोऽ६"हाइ ।।

दी १७. उ. न. मा. २० यौ. ।।६२५।।