सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ६/शुक्रियपर्व/अग्नेर्व्रतम्(अग्निर्मूर्धा)

विकिस्रोतः तः
अग्नेर्व्रतम्
अग्नेर्व्रतम्.

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं ।
अपां रेतांसि जिन्वति ॥ २७ ॥ ऋ. ८.४४.१६


 

(१४८।१ ) ॥ अग्नेर्व्रतम् । अग्निर्गायत्र्यग्निः ॥
हाउहाउहाउ । भ्राजाओवा । (त्रिः)। अग्निर्मूर्द्धादिऽ३वाःकाऽ१कूऽ२त् ॥ पतिःपृथीवीऽ३य3आऽ१याऽ२म् ॥ अपाꣳरेताꣳ सिऽ३जाइन्वाऽ१तीऽ२३ ॥ हाउ(३) । भ्राजाओवा । (द्विः) । भ्राजाऽओऽ५वाऽ६५६॥ ए। विश्वस्यजगतोज्योतीऽ२३४५:॥
( दी० ३६ । प० १३ । मा० १७ )१(गे। २५१)


[सम्पाद्यताम्]

टिप्पणी

अथाग्निप्रणयने अग्निमनुगच्छन् कभ्राजा अग्निर्मूर्द्धा ( आ० गा० २५१) इति अग्नेर्व्रतं त्रिर्गायेत् । अग्निर्गायत्र्यग्निः ।।- आर्षेयकल्पः उपोद्घातः पृ. १३

आर्षेयम्