सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ५/वाचःव्रतपर्व/कश्यपव्रतं(यस्येदं)
( १४१।१ ) ॥ कश्यपव्रतं दशानुगानम् । कश्यपो गायत्रीन्द्रः ॥
हा꣢꣯उ(३) । हाऽ᳒२᳒इ । ऊऽ᳒२᳒ । (द्वेत्रिः) । का꣡ह्वह्व꣢ह्वह्वह्व । (त्रिः) । हाऽ᳒२᳒इ । ऊऽ᳒२᳒ । ऊ꣡ऽ᳒२᳒ । * ऊ꣡꣡ऽ᳒२᳒ । (चत्वारित्रिः) । का꣡ह्वह्व꣢ह्वह्वह्व । ऊ꣡ऽ२ । (द्वेत्रिः) । हा꣢꣯उ(३)। य꣡स्ये꣯दमा꣯रजो꣯यूऽ᳒२᳒जा꣡:॥ तु꣢जे꣡꣯जने꣯वनꣳसूऽ᳒२᳒वा꣡:॥ हा꣢꣯उ(३) । हाऽ᳒२᳒इ । ऊ꣡ऽ᳒२᳒ । (द्वेत्रिः) । का꣡ह्वह्व꣢ह्वह्वह्व । (त्रिः) । हाऽ᳒२᳒इ । ऊऽ᳒२᳒ । ऊ꣡ऽ᳒२᳒ । ऊ꣡꣡ऽ᳒२᳒ । (चत्वारित्रिः) । का꣡ह्वह्व꣢ह्वह्वह्व । ऊ꣡ऽ᳐२᳐ । (द्वेत्रिः) । हा꣯उ(३) । आइन्द्रस्यर ।। ति꣣या꣢ऽ३म्बृऽ꣤५हाऽ६५६त् ।। न꣡मःसुवरिडाऽ२३꣡४꣡५꣡त् ॥
(दी० १७ । प० ६३ । मा० २८ )११( जै । २३० )
(१) ॥ कश्यपग्रीवा (द्वितीयं) । कश्यपोऽनुष्टुबिन्द्रः॥
हा꣢उ(३)॥ अ꣡हो꣢ऽऽअ꣡हो꣢ऽऽ। अ꣡हो꣢ । आ꣡हो꣢ऽआ꣡हो꣢ऽ। आ꣡हो꣢ ॥ ए꣡ऽहो꣢ए꣡ऽहो꣢ ॥ ए꣡हो꣢ । वाऽ३ । हा꣢उवाऽ३॥ प्र꣢जा꣡꣯भू꣯तमजी꣢꣯जनेऽ३ । इ꣡ट्स्थिइडाऽ२३꣡४꣡५꣡ ॥ ( दी० ६ । प० ११ । मा० ८ )१२(कै। २४०)
( १४१।१ ) ॥ कश्यपव्रतं दशानुगानम् । कश्यपो गायत्रीन्द्रः ॥
हाउ(३) । हाऽ२इ । ऊऽ२ । (द्वेत्रिः । काह्वह्वह्वह्वह्व । (त्रिः) । हाऽ२इ । ऊऽ२ । ऊऽ२ । * ऊऽ२ । (चत्वारित्रिः) । काह्वह्वह्वह्वह्व । ऊऽ२ । (द्वेत्रिः) । हाउ(३)। यस्येदमारजोयूऽ२जाः॥ तुजेजनेवन99सूऽ२वाः॥ हाउ(३) । हाऽ२इ । ऊऽ२ । (द्वेत्रिः) । काह्वह्वह्वह्वह्व । (त्रिः) । हाऽ२इ । ऊऽ२ । ऊऽ२ । ऊऽ२ । चत्वारित्रिः) । काह्वह्वह्वह्वह्व । ऊऽ२ । (द्वेत्रिः) । हाउ(३) । आइन्द्रस्यर ।। तियाऽ३म्बृऽ५हाऽ६५६त् ।। नमःसुवरिडाऽ२३४५त् ॥
(दी० १७ । प० ६३ । मा० २८ )११( जै । २३० )
(१) ॥ कश्यपग्रीवा (द्वितीयं) । कश्यपोऽनुष्टुबिन्द्रः॥
हाउ(३)॥ अहोऽऽअहोऽऽ। अहो । आहोऽआहोऽ। आहो ॥ एऽहोएऽहो ॥ एहो । वाऽ३ । हाउवाऽ३॥ प्रजाभूतमजीजनेऽ३ । इट्स्थिइडाऽ२३४५ ॥
( दी० ६ । प० ११ । मा० ८ )१२(कै। २४०)
टिप्पणी
यस्येदमा रजोयुजः[१](सा. ५८८) इत्यादिषु दश सामान्युत्पन्नानि । तेषां सामरूपाणामनुगानं नाम कश्यपव्रतम् इति । हाउ (त्रिः) हाइऊ इत्यादि यस्येदमारजोयुजाः (आ. गा. ५.८. २३९) इति द्वितीयक्रुष्टादिकं आद्यम् । हाउ (त्रिः) अहोअहो इत्यादि प्रजाभूतमजीजने इट्[स्थि] इडा (आ. गा. ५.८.२४०) इत्यन्तं स्तोभमात्रोत्पन्नं द्वितीयमनुगानं काश्यपग्रीव [1] नामकम् । हाउ (त्रिः) फाल् फल् इत्यादि इन्द्रन्नरोने- मधिताहवान्ताइ (आ. गा. ५.८.२४१) इति द्वितीयक्रुष्टादिकं तृतीयम् । हाउ (त्रिः) । हाउहौहौहौहौ इत्यादि योनोवनुष्यन्नमिदातिमार्ताः (आ. गा. ५.८.२४२) इति द्वितीयक्रुष्टादिकं तुरीयम। प्रजापतेर्हृदयं पञ्चममिति । हाउ (त्रिः) इमा इत्यादि प्रजारूपमजीजने । इट् [स्थि] इडा (आ. गा. ५. ८. २४३) इत्यन्तं स्तोभमात्रोत्पन्नं पञ्चमं प्रजापतेर्हृदयम् । प्रजापते ए हृदयम् इति साम्नि विद्यमानत्वात् एतन्नामकमित्यभिधीयते । इडानां संक्षारः षष्ठ इति । हाउ (त्रिः) इडा इत्यादि सुवर्ज्योतिः (आ. गा. ५.८.२४४) इत्यन्तं षष्ठमनुगानं स्तोभमात्रोत्पन्नम् इडानां संक्षारः इत्युच्यते । [सहस्तन्नइन्द्रदध्योजः (सा. ६२५) इत्यत्रैकं साम ।] हाउ (त्रिः) आइही इत्यादि सहस्तन्नइन्द्रदध्योजाः (आ. गा. ५. ८. २४५) इति द्वितीयक्रुष्टादिकं सप्तममनुगानम् । प्राग् दशमाद्गवां व्रत इति। ते मन्वत प्रथमं नाम गोनाम् (सा. ७०७) इत्यत्रैकं साम । हाउ (त्रिः) तेमन्वतप्रथमंनामगो (आ. गा. ५. ८. २४६) इति मन्द्र (द्वितीय)- क्रुष्टादिकम् । सहर्षभाः सहवत्साः उदेत (सा. ६२५) इत्यत्रैकं साम । हाउ (त्रिः) वा सहर्षभास्सहवत्साउदेत (आ. गा. ५.८.२४७) इति द्वितीयक्रुष्टादिकम् । एते सामनी दशमात् दशसंख्यापूरकात् अनुगानात् प्राक् पूर्वं गवां व्रते एतन्नामधेये। द्विवचनसामर्थ्यात् गवां व्रते इत्यभिधीयते । अरुणिर्यशसा गावः (सा. ६०६) इति सहर्षभा सहवत्सा (६२६) इति गोवत्सशब्दयोर्विद्यमानत्वात् गवांव्रतनामके। कश्यपपुच्छं दशममिति । अग्निरस्मि जन्मना जातवेदाः (सा. ६१३) इत्यत्रैकं साम । हाउ (त्रिः) वाग्घहहहह इत्यादि अग्निरस्मिजन्मना औहो (आ. गा. ५. ८. २४८) इति द्वितीयादिकं दशमं साम कश्यपपुच्छनामधेयम् । एतत्साम- जानां दशानां सामरूपाणाम् अनुगानानां सामान्येन कश्यपव्रतमिति नामधेयम् । संज्ञाविशेषस्तु तत्रैवोक्तः ॥ २ ॥ - आर्षेयब्राह्मणम् ६.३.७.२ भाष्यम्