सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ४/वाचःव्रतपर्व/यशस्साम(यशोमा)

विकिस्रोतः तः
यशस्साम

यशो मा द्यावापृथिवी यशो मेन्द्रबृहस्पती ।
यशो भगस्य विन्दतु यशो मा प्रतिमुच्यतां ।
यशस्व्या३स्याः सं सदोऽहं प्रवदिता स्यां ॥ ६११ ॥

[सम्पाद्यताम्]

टिप्पणी

प्रियङ्गुका वा पुष्येणाभिजुहुयाद्यशो मेति तदनुलेपनम् तेनानुलिम्पेत् संवत्सरम्। यशस्वी भवति यशस्वी भवति ॥सामविधानब्रा. २.६.१८