सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ४/वाचःव्रतपर्व/इन्द्रस्य राजनम्(इन्द्रंनरो)

विकिस्रोतः तः
रौहिणम् - इन्द्रस्य राजनम्
रौहिण-उत्तरम्.
इन्द्रस्य राजनम् रौहिणे द्वे.

इन्द्रं नरो नेमधिता हवन्ति यत्पार्या युनजते धियस्ताः ।
शूरो नृषाता श्रवसश्च काम आ गोमति व्रजे भजा त्वं नः ॥ ३१८ ॥ ऋ. ७.२७.१


 


(१२३।१) ॥ इन्द्रस्य राजनम् रोहिणे द्वे, (राजनम्) । इन्द्रस्त्रिष्टुबिन्द्रः ॥
हिम् । (त्रिः)। हो । (त्रिः) । हꣳ। (त्रिः)। ओहा । (त्रिः) । औहोइ । ( त्रिः) । इन्द्रन्नरो । नेऽ३मधि । ताहवन्ताइ । (त्रीणि त्रिः) । वयोबृहत् । (त्रिः) । विभ्राष्टयेविधर्मणे । (त्रिः) ॥ यत्पारियाः । युनज । ताइधियस्ताः । ( त्रीणि त्रिः) । सत्यमोजः । (त्रिः)। रजस्सुवः । (त्रिः)। शूरोनृषा । ताऽ३श्रव । सश्चकामाइ । (त्रीणित्रिः) । भद्रꣳ सुधा । (द्विः) । भद्रꣳ सुधे । षमूर्जम् । इषमूर्जम् । (द्विः) । आगोमताइ । व्रजेभ । जातुवन्नाः। ( त्रीणि त्रिः) । बृहद्यशः । (त्रिः) । दिविदधेऽहस् । ( द्विः) । दिविदधेऽ३ । हाउवा ॥ वागीडासूवोबृहद्भाऽ२३४५: ॥
( दी० ६६ । प० ७७ । मा० ४६ )१९( खू । २०५)



(१२३।२)
॥ रौहिणम् । इन्द्रस्त्रिष्टुबिन्द्रः ॥
हाउ(३)। आइही । (त्रिः) । आइहिया । (त्रिः)। आसाउ । ( त्रिः)। . आयाम् । (त्रिः) । नामाः । (त्रिः) । किट् । (द्विः)। इन्द्रन्नरोनेमधिताहवाऽ२न्ताइ ।। यत्पार्यायुनजतेधियाऽ२स्ताः॥ शूरोनृषाताश्रवसश्चकाऽ२माइ ॥ आगोमतिव्रजेभजातुवाऽ२न्नाः। मनाऽ२३होइ । प्राणाऽ२३होइ । चक्षूऽ२३र्होइ । श्रोत्राऽ२३ꣳहोइ।। घोषाऽ२३होइ । व्रताऽ२३ꣳहोइ । भूताऽ२३ꣳहोइ । पानाऽ२३ꣳहोइ । चित्ताऽ२३ꣳहोइ । धीताऽ२३ꣳहोइ । सुवाऽ२३र्होइ । ज्योताऽ२३इर्होऽ२ । वाऽ२३४औहोवा ॥ ऊ२३४५॥
(दी० २६ । प० ३६ । मा० ३७ )२०( र्के । २०६)




टिप्पणी

पूर्वरौहिणपुरोडाशाचरणकाले हिम् इन्द्रन्नर (आ० गा० २०५) इति राजनम् । - आर्षेयकल्पः उपोद्घातः पृ. १३

उत्तर० रौहिणाचरणकाले काइही इन्द्रन्नर (आ० गा० २०६) इति रौहिणम् । - आर्षेयकल्पः उपोद्घातः पृ. १३

अथ रौहिणकम्। एतेन वै प्रजापतिर् एकशफानां पशूनां कामम् आरोहत्। तद् यत् कामम् आरोहत् तद् रौहिणकस्य रौहिणकत्वम्। कामं पशूनां रोहति य एवं वेद। यथा ह वा इम आरण्याः पशवो मृगा एवम् एते ऽग्र एकशफाः पशव आसुः। तान् एतैर् एव रौहिणकस्य किटकिटाकारैर् ग्रामम् उपानयत्। तत् त्रयोदशनिधनं भवति त्रयोदशस्य मास उपाप्त्यै। - जैब्रा २.१४

सामवेदी श्री राम पाण्डेय अनुसारेणा, यदा संहितागानं करणीयमस्ति, तदा किटकिटाकारस्य उच्चारणं द्विवारमेव करणीयमस्ति। यदा प्रवर्ग्यादिषु गानं करणीयमस्ति, तदा अस्य उच्चारणं द्वादशवारं करणीयमस्ति। जैमिनीयब्राह्मणे कथनमस्ति यत् अस्मिन् साम्नि त्रयोदशनिधनाः सन्ति। सामवेदी श्री राम पाण्डेयानुसारेण एकः ऊ इति निधनः अस्ति, शेषाः अन्तर्निधनाः।