सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/परिशिष्टः/महानाम्न्यार्चिकः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
महानाम्नी1

महानाम्नी१.

विदा मघवन्विदा गातुमनुशंसिषो दिशः।
शिक्षा शचीनां पते पूर्वीणां पुरूवसो॥ ६४१
आभिष्ट्वमभिष्टिभिः स्वाऽ३ न्नांशुः।
प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे॥ ६४२
एवा हि शक्रो राये वाजाय वज्रिवः।
शविष्ठ वज्रिन्नृञ्जसे मंहिष्ठ वज्रिन्नृञ्जस।
आ याहि पिब मत्स्व॥ ६४३





( १) ।। महानाम्नी साम । इन्द्रो विराडिन्द्रः, इन्द्रः शक्वरीन्द्रः ।।

एऽ२। । विदामघवन्विदाः । । गातुमनुशꣳसिषः । दाइशाऽ३१उवाऽ२३ ।
ईऽ३४डा ।। एऽ२ । शिक्षाशचीनाम्पताइ ।। पूर्वीणाम्पूरूऽ२ । वसाऽ३१उवाऽ२३ ।
ईऽ३४डा । आभिष्ट्वमभाऽ२इ । ष्टिभिराऽ३१उवाऽ२३ । ईऽ३४डा ।
स्वर्न्नाꣳशूऽ२ः । हाऽ३१उवाऽ२३ । ईऽ३४डा । प्रा । चेतनप्रचेतया ।।
ईन्द्रा ।। द्युम्नायनाऽ२इषाइ । इडा । । ईन्द्रा ।। द्युम्नायनाऽ२इषाइ ।
अथा ।। ईन्द्रा ।। द्युम्नायनाऽ२इषाइ । इडा । एवाहिशक्रोरायेवाजायवाऽ१ज्रीऽ३वाः ।
शविष्ठवज्रिन्नाऽ३ । जासाइ ।। मꣳहिष्ठवज्रिन्नाऽ२३हो ।। जासाऽ३१उवाऽ२३ ।।
इट्स्थिइडाऽ२३४५ ।। आया ।। हिपिबमाऽ२त्सुवा ।। इडाऽ२३४५ ।।
( दी० २२ । प० ३६ । मा० २०)१ (चौ । १)

महानाम्नी २

महानाम्नीसाम २

विदा राये सुवीर्यं भवो वाजानां पतिर्वशां अनु।
मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम्॥ ६४४
यो मंहिष्ठो मघोनाम्ंशुर्न्न शोचिः।
चिकित्वो अभि नो नयेंद्रो विदे तमु स्तुहि॥ ६४५
ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितम्।
स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत्॥ ६४६



( २)
एऽ२ । विदारायेसुवीरियाम् ।। भुवोवाजानाम्पतिर्वशाऽ२ꣳ । अनुआऽ३१उवाऽ२३ ।
ईऽ३४डा ।। एऽ२ । मꣳहिष्ठवज्रिन्नृञ्जसाइ । यःशविष्ठःशूराऽ२ । णाऽ३१उवाऽ२३ ।
ईऽ३४डा।। योमꣳहिष्ठोमघोऽ२ । नाऽ३१उवाऽ२३ । ईऽ३४डा ।
अꣳशुर्नशोचाऽ२इः । हाऽ३१उवाऽ२३ । ।ईऽ३४डा । चाइ । कित्वोअभिनोनया ।।
ईन्द्रो ।। विदेतमूऽ२स्तुहाइ । इडा ।। ईन्द्रो ।। विदेतमूऽ२स्तुहाइ।
अथा ।। ईन्द्रो । विदेतमूऽ२स्तुहाइ।। । इडा ।
ईशेहिशक्रस्तमूतयेहवाऽ१माऽ३हाइ । जेतारमपराऽ३। जाइताम्।।
सनःस्वर्षदताऽ२३होइ ।। द्वाइषाऽ३१उवाऽ२३ ।। इट्स्थिइडाऽ२३४५ ।।
क्रातूः ।। छन्दऋताऽ२म्बृहात् ।। इडाऽ२३४५ ।। ( दी. २३। प० ३५ । मा. २४)२ ( टी । २)

महानाम्नी साम ३

महानाम्नीसाम ३

इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम्।
स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः॥ ६४७
पूर्वस्य यत्ते अद्रिवोंऽशुर्मदाय।
सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते।
वशी हि शक्रो नूनं तन्नव्यं संन्यसे॥ ६४८
प्रभो जनस्य वृत्रहन्त्समर्येषु ब्रवावहै।
शूरो यो गोषु गच्छति सखा सुशेवो अद्वयुः॥ ६४९



एऽ२ । इन्द्रन्धनस्यसातयाइ ।। हवामहेजेतारमपराऽ२ । जितमाऽ३१उवाऽ२३ ।
ईऽ३४डा ।। एऽ२ । सनःस्वर्षदतिद्विषाः ।। सानःस्वर्षदताऽ२इ ।
द्विषआऽ३१उवाऽ२३ । ईऽ३४डा । पूर्वस्ययत्तआऽ२ । द्रिवआऽ३१उवाऽ२३ ।
ईऽ३४डा । अꣳशुर्मदायाऽ२ । हाऽ३१उवाऽ२३ । ईऽ३४डा ।।
सू । म्नआधेहिनोवसाउ ।। पूर्त्तीः ।। शविष्ठशाऽ२स्यताइ । इडा ।।
पूर्तीः ।। शविष्ठशाऽ२स्यताइ । अथा ।। पूर्त्तीः ।। शविष्ठशाऽ२ऽस्यताइ । इडा ।
वशीहिशक्रोनूनन्तन्नव्यꣳसाऽ१न्याऽ३साइ । प्रभोजनस्यवाऽ३ । त्राहान् ।।
संमर्येषुब्रवाऽ२३होइ।।। ।। वाहाऽ३१उवाऽ२३ ।। इट्स्थिइडाऽ२३४५ ।। शूरो ।।
योगोषुगाऽ२च्छताइ ।। इडा ।। साखा ।। सुशेवोऽ२द्वयूः ।। इडाऽ२३४५ ।।
( दी. १८ । प० ३९ । मा० २५) ३( ढु । ३)



पञ्च पुरीषपदानि

पञ्च पुरीषपदानि

आ꣡इवा꣢॥ हिये꣯वा꣡ऽ२३꣡४꣡५꣡ । हो꣡इ ।। हो । वा꣢꣯हाऽ३१उवाऽ२३ ॥ ई꣢ऽ३४डा꣥ ।। आ꣡इवा꣢॥ हियग्ना꣡ऽ२३꣡४꣡५꣡इ । हो꣡इ॥ हो । वा꣢꣯हाऽ३१उवाऽ२३ ॥ ई꣢ऽ३४डा꣥ ।। आ꣡इवा꣢॥ हिइन्द्रा꣡ऽ२३꣡४꣡५꣡ । हो꣡इ॥ हो । वा꣢꣯हाऽ३१उवाऽ२३ ॥ ई꣢ऽ३४डा꣥॥ आ꣡इवा꣢ ॥ हिपू꣯षा꣡ऽ२३꣡४꣡५꣡न् । हो꣡इ॥ हो । वा꣢꣯हाऽ३१उवाऽ२३ ॥ ई꣢ऽ३४डा꣥॥ आ꣡इवा꣢ ॥ हिदे꣯वा꣡ऽ२३꣡४꣡५꣡: । होइ॥ हो । वा꣢꣯हाऽ३१उवाऽ२३ ॥ ईऽ३४डा꣥॥
 (दी० ८ । प. ३० । मा० १९ ) ४ (णो।४)
॥ इति पञ्च पुरीषपदानि ॥

अथ पञ्च पुरीषपदानि
एवाह्योऽ३ऽ३ऽ३ आ। एवा ह्यग्ने। एवाहीन्द्र।
एवा हि पूषन्। एवा हि देवाः Oं एवाहि देवाः॥ ६५०

॥ इति पञ्च पुरीषपदानि॥


। ४
आइवा ।। हियेवाऽ२३४५ । होइ ।। हो । वाहाऽ३१उवाऽ२३ ।।
ईऽ३४डा ।। आइवा ।। हियाग्नाऽ२३४५इ । होइ ।। हो । वाहाऽ३१उवाऽ२३ ।।
ईऽ३४डा ।। आइवा ।। हिइन्द्राऽ२३४५ । होइ ।। हो । वाहाऽ३१उवाऽ२३ ।।
ईऽ३४डा ।। आइवा ।। हिपूषाऽ२३४५न् । होइ ।। हो । वाहाऽ३१उवाऽ२३ ।।
ईऽ३४डा ।। आइवा ।। हिदेवाऽ२३४५ः । होइ ।। हो । वाहाऽ३१उवाऽ२३ ।।
।।ईऽ३४डा ।।
( दी० ८ । प. ३०। मा १९ ।४( णो । ४)
।। इति पञ्च पुरीषपदानि ।।

सायणभाष्यम् -- ऐतरेयारण्यकम् ४.१

[सम्पाद्यताम्]

टिप्पणी

द्र. वराहपुराणे १७४ महानामब्राह्मणस्य पंचप्रेतैः सह संवादः, प्रेतानां उद्धारः।

पुरीषोपरि पौराणिक-वैदिक संदर्भाः

महानाम्नी ( ऋच्-)
१. अथो इमे वै लोका महानाम्न्य इमे महान्तः । ऐ ५,७
२. आपो वै महानाम्नयः .. इम उ लोका महानाम्नयः । जै ३, ११४
३ महानाम्नीष्वत्र स्तुवते शाक्वरेण साम्ना राथंतरेऽहनि पञ्चमेऽहनि पञ्चमस्याह्नो रूपमिन्द्रो वा एताभिर्महानात्मानं निरमिमीत तस्मान्महानाम्न्योऽथो इमे वै लोका महानाम्न्य इमे महान्त इमान्वै लोकान्प्रजापतिः सृष्ट्वेदं सर्वमशक्नोद्यदिदं किंच यदिमाँ ल्लोकान्प्रजापतिः सृष्ट्वेदं सर्वमशक्नोद्यदिदं किंच तच्छक्वर्योऽभवंस्तच्छक्वरीणां शक्वरीत्वं ता ऊर्ध्वाः सीम्नोऽभ्यसृजत यदूर्ध्वाः सीम्नोऽभ्यसृजत तत्सिमा अभवंस्तत्सिमानां सिमात्वं। ऐ ५,७ ।
४. तानि सर्वाणि छन्दांसि संभृत्य तैर् इन्द्रो वृत्रम् अहन्। यन् महान्तम् अहंस् तस्मान् महानाम्नयः। यद् अशक्नोत् तस्माच् छक्वर्यः। यन्मट्वियम् अकरोत् तस्मान् मट्वीः। यत् सीमानम् अभिनत् तस्मात् सिमाः। अथो हैनास् सीमत एव ससृजे। सिम इति वै श्रेष्ठम् आचक्षते। सिम श्रेष्ठ स्वानां भवति य एवं वेद। ता ह वा एता इन्द्रा एव नाम। इन्द्रो वै यत्र महानाम्नीषु मिथुनत्वम् ऐच्छत, ता एनम् अब्रुवन् - स वै नः प्रयच्छेति। किम् इति। यत् त एतम् नामेति। ताभ्यस् तत् प्रायच्छत्। तस्माद् एता इन्द्रा नाम। एतद् ध वा आसां प्रियं गुह्यं नाम यद् इन्द्राः। जै ३,१११
इयं वै प्रथमा महानाम्नी, तस्या अग्निर् उपशः। इयं द्वितीया, तस्यै वायुर् उपशः। असौ तृतीया, तस्यै सूर्याचन्द्रमसाव् उपशौ। तासां यो हृदावकिनो वेद त्रिर् विला हास्य गृहा भवन्ति तृप्ता इवारूक्षा अन्तरतः। एकारा ह वा आसां हृदावकिनः। तस्माद् धृद एकारम् उपावसेधं पशूंस् तर्पयन्ति। अथ य आसाम् अलंकारान् वेदालंकुर्वन्तो ऽस्यासते गृहेष्व् अंशुं रुक्मं निष्कं हस्तिनम् अश्वतरीरथम् अश्वरथम्। स्तोभा ह वा आसाम् अलंकाराः। ता अलंकुर्वन्न् इव शोभयन्न् इव गायेत्। - जै ३.११३
आपो वै महानाम्नयः। तासाम् आदित्य एव वत्सः। तद् या ह वै प्राचीर् आपो धावन्त्य् एतम् एव ता उद्यन्तम् अभीप्सन्तीर् धावन्ति। अथ याः प्रतीचीर् धावन्त्य् एतम् एव ता अस्तं यन्तम् अभीप्सन्तीर् धावन्ति। तद् यत् पृच्छेयुर् या इमा आपो ऽहरहर् धावन्ति कम् एता अभीप्सन्तीर् धावन्तीति। एतम् इत्य् एव तत्र प्रतिवचनम्। अथो आहुर् वायुर् वै महानाम्नीनां वत्सः। एष हीमान् लोकान् इमा दिशः प्रतापयत इति। इम उ लोका महानाम्नयः। तस्मात् पुरोवाते वाति, वृष्ट्याम् आशासन्ते। यथा ह प्रत्ता न दुहीत तादृक् तद् यत् पुरोवाते वात्य् अथ न वर्षति। पशवो वै महानाम्नयः। गोष्ठ एव पुरीषम्। तद् आहुः पुरीषेणाग्रे स्तोतव्यम् अथ महानाम्नीभिः। आयतनं वा अग्रे ऽथ पशवः। आयतनं हि पशवो ऽभिसमायन्तीति। तद् उ वा आहुः पशूनां वै पुरीषं भवति। यद् वै पशवो न स्युर् न पुरीषं स्यात्। यदो वै पुरुषः पशून् विन्दते ऽथ स गोष्ठं पर्यस्यते गुप्त्यै। तस्मान् महानाम्नीभिर् एव पूर्वाभि स्तोतव्यम् इति – जै ३.११४
ता अब्रुवन् सृजध्वम् एवेति। ताश् शाक्वरं पञ्चमे ऽहन्न् असृजन्त। तद् अपां घोषो ऽन्वसृज्यत। तस्माच् छाक्वरस्य स्तोत्रे ऽप उपनिधाय स्तुवन्ति। - जै ३.११८
इमे वै लोकास् सन्तनय, इम उ लोका महानाम्नयः। तद् यत् सन्तनि भवत्य् एषाम् एव लोकानां सन्तत्यै।– जै ३.११९
५. ताभ्य (महानाम्नीभ्यः) एतदेकं नाम प्रायच्छद् इन्द्रा इति । जै ३,१०८ ।
६. तस्य महानाम्न्यः पृष्ठं भवन्ति। नो ह्य् एतान् अन्यन् महानाम्नीभ्यः पृष्ठं पशून् उद्यन्तुम् अर्हति। तास् सप्तपदा भवन्ति - सप्त वै ग्राम्याः पशवो - ग्राम्याणाम् एवं पशूनाम् अवरुद्धयै। अति सप्तमं पदं भवत्य् आरण्यानाम् एव पशूनाम् अवरुद्धयै। जै २,२७४
७. अधुक्षत प्रियं मध्व् इति यद् वै महानाम्नीनां दुग्धं पयस् ता रेवतयो ऽभवन्। महानाम्नीनां वा एतद् दुग्धं पयो यद् रेवतयः। महान्तं त्वा महीर् अन्व् इति त्रयस्त्रिंशो वै स्तोमो महान्। तम् एवैतद् रेवतयः।। जै ३, १३७
८. इन्द्रः प्रजापतिमुपाधावद्वृत्रं हनानीति तस्मा एतच्छन्दोभ्य इन्द्रियं वीर्यं निर्माय प्रायच्छदेतेन शक्नुहीति तच्छक्वरीणां शक्वरीत्वं सीमानमभिनत् तत् सिमा मह्न्यमकरोत् तन्मह्न्या महान् घोष आसीत् तन्महानाम्न्यः। तां १३,४,१
९. ते देवाः प्रजापतिम् उपाधावंस् - तन् नश् छन्दः प्रयच्छायातयाम येनासुरान् अभिभवामेति। स तपो ऽतप्यत। स तपस् तप्त्वात्मन् सिंसिमायद् अवापश्यत्। यद् आत्मन् सिंसिमायद् अवापश्यत् तत् सिमानां सिमात्वम्। ता अब्रवीत् - सृज्यध्वम् इति। केनेति। येन कामयध्व इति। तास् सिमानम् एवोर्ध्वा उदीर्यासृज्यन्त। तद् व् एवासां सिमात्वम्। ता अमिमीत। तासु त्रयं वेदम् अध्यादधात्। ता एवायच्छत्। तास्व् इमांस् त्रीन् लोकान् अभ्यादधात्। ता एवायच्छत्। सो ऽब्रवीन् महद् बतासाम् इदं मानम् अभूद् इति। यद् अब्रवीन् महद् बतासाम् इदं मानम् अभूद् इति, तन् महामानीनां महामानित्वम्। महामानयो ह वै नामैताः। ता महानाम्नय इति परोक्षम् आख्यायन्ते। ता देवेभ्यः प्रायच्छत्। ताभिर् अद्य देवा अस्तुवत। श्वो ऽशक्नुवन्। तद्यद् अद्य स्तुत्वा श्वो ऽशक्नुवंस् तच् छक्वरीणां शक्वरीत्वम्। शक्नोति यच् छिक्षते य एवं वेद। जै ३,१०४
ता अब्रुवन्न् ऐन्द्रान् ह नो घोषान् वेत्थ। तान् नः प्रयच्छ, यैर् वयं घोषिणीर् असाम। घोषी स ब्राह्मणो ऽसद् यो ऽस्मान् वेदेति। ताभ्य एतान् ऐन्द्रान् घोषान् प्रायच्छत्। यो ऽग्नेर् घोषो यो रथस्य, तम् अस्यै प्रायच्छत्। यो वायोर् घोषो य वयसां, तम् एतस्यै प्रायच्छत्। यः पर्जन्यस्य घोषो यो दुन्दुभेस् तम् अमुष्यै प्रायच्छत्। एतं ह वा आसाम् ऐन्द्रा घोषाः। - जै ३.१०५
ता अब्रुवन्न् ऐन्द्रान् ह नो निक्रिळान् वेत्थ। तान् नः प्रयच्छ, यैर् वयं क्रीळाम। क्रीळात् स ब्राह्मणः प्रजया पशुभिर् यो ऽस्मा वेदेति। ताभ्य एतान् ऐन्द्रान् निक्रीळान् प्रायच्छद् - इन्द्रा इन्द्रा इन्द्रा इति। एत ह वा आसाम् ऐन्द्रा निक्रीळाः।जै ३.१०५
ता अब्रुवन् रूपाणि ह नो वेत्थ। तानि नः प्रयच्छ, यैर् वयं रूपिणीर् असाम। रूपी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो रूपाणि प्रायच्छत्। यत् प्रावृषि निहतरजस्कायै प्रथमं संजायमानाया अस्यै रूपं भवति, तद् अस्यै प्रायच्छत्। यद् व् एव प्रावृषि निहतरजस्कस्यान्तरिक्षस्य रूपं भवति, तद् एतस्यै प्रायच्छत्। अथ यद् आग्रहायणे ऽपेते मेघे ऽपेते नीहारे ऽमुष्यै रूपं भवति, तद् अमुष्यै प्रायच्छत्। एतानि ह वा आसां रूपाणि। - जै ३.१०६
ता अब्रुवन् नामानि ह नो वेत्थ। तानि नः प्रयच्छ, यैर्वयं नामिनीर् असाम्। नामी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो नामानि प्रायच्छत्। भूस् त्वम् असीतीमाम् अब्रवीद्, भुवस् त्वम् इत्य् एतां, स्वस् त्वम् इत्य् अमूम्। एतान ह वा आसां नामानि। - जै ३.१०६
ता अब्रुवन् वत्सान् ह नो वेत्थ। तान् नः प्रयच्छ, यैर् वयं वत्सिनीर् असाम। वत्सी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो वत्सान् प्रायच्छत्। अग्निम् एवास्यै प्रायच्छद्, वायुम् अन्तरिक्षायादित्यम् अमुष्यै। एते ह वा आसां वत्साः। - जै ३.१०७
ता अब्रुवन्न् ऋषभान् ह नो वेत्थ। तान् नः प्रयच्छ, यैर् वयम् ऋषभिणीर् असाम। ऋषभी स ब्राह्मणो ऽसद् यो ऽस्मान् वेदेति। ताभ्य ऋषभान् प्रायच्छद् एतान् अथकारान्। एते ह वा आसाम् ऋषभाः। - जै ३.१०७
ता अब्रुवन्न् एकं ह नो रूपं वेत्थ। तन्नः प्रयच्छ, येन वयं रूपिणीर् असाम। रूपी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्य एतद् एकं रूपं प्रायच्छद् आप इति। एतद् ध वा आसाम् एकं रूपं यद् आपः। - जै ३.१०८
ता अब्रुवन्न् एकं ह नो नाम वेत्थ। तन् नः प्रयच्छ, येन वयं नामिनीर् असाम। नामी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्य एतद् एकं नाम प्रायच्छद् इन्द्रा इति। एतद् ध वा आसाम् एकं नाम यद् इन्द्राः। - जै ३.१०८
ता अब्रुवंस् तृप्तीर् ह नो वेत्थ। ता नः प्रयच्छ, याभिर् वयं तृप्याम। तृप्यात् स ब्राह्मणः प्रजया पशुभिर् यो ऽस्मा वेदेति। ताभ्य एतास् तृप्तीः प्रायच्छद् एतान् एकारान्। एते ह वा आसां तृप्तयः। - जै ३.१०९
ता अब्रुवन् आवपनान् ह नो वेत्थ, पल्यान् ह नो वेत्थ, गोष्ठान् ह नो वेत्थ। तान् नः प्रयच्छ, यैर् वयम् आवपनवतीः पल्यवतीर् गोष्ठिनीर् असाम। आवपनवान् पल्यवान् गोष्ठी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो वाचं प्रायच्छत्। वाचं वावेदं सर्वं नातिरिच्यते। एवा ह्य् एवा इत्य् एषां वाग्, एवा ह्य् अग्ना इति गव्याः पशव, एवा हीन्द्रा इत्य् अश्व्याः पशवः। एवा हि पूषन्न् इत्य् अजाविकम् एवैतत्। एवा हि देवा इति परिग्राह एवैषः॥जै ३.१०९
अथ महानाम्नयः। प्राणा वा अग्रे सप्त। तेभ्य एतां सप्तपदां शक्वरीं निरमिमीत। प्राणान् एव सर्वम् आयुर् एति य एवं वेद। सप्तपदायै षट्पदाम् ऋतून् संवत्सरम्। ऋतुभ्य आत्मानं परिदत्ते य एवं वेद। षट्पदायै पञ्चपदां पशून् पंक्तिम्। पशुमान् भवति य एवं वेद। पञ्चपदायै चतुष्पदां वाचम् अनुष्टुभं प्रतिष्ठितिम्। वाचा वदति य एवं वेद। चतुष्पदायै त्रिपदां तेजो ब्रह्मवर्चसं गायत्रीम्। तेजस्वी ब्रह्मवर्चसी भवति य एवं वेद। त्रिपदायै द्विपदां पुरुषम्। नैनं पौरुषो वधो हन्ति य एवं वेद। द्विपदाया एकपदां पुरुषम् एव। अन्वञ्चाव् इव वै पुरुषौ। तस्मात् पुरुषः पुरुषं परिवेवेष्टि, पुरुषः पुरुषस्यानुचरो भवति, विन्दते ऽनुचरितॄन्। बहवो ऽस्यानुचरा भवन्ति, नैनं पौरुष्येवावृत्तिर् विन्दति य एवं वेद॥जै ३.११०
१०. यन् (इन्द्रः) महान्तम् ( वृत्रम् ) अहंस्तस्मान् महानाम्नयः । जै ३,१११
११. वज्रो वै महानाम्न्यः । ष ३,११ ।
१२. पवमान विधर्मणि। क्रन्दं देवो न सूर्यः॥ इति सौर्यं रूपं महानाम्नीनाम् उपगच्छन्ति। सौर्या हि महानाम्नयः। जै ३,८५
तम् प्रजापतिः पप्रच्छ अशको हन्तुम् इति । एवा ह्य् एव इति प्रत्युवाच अनिरुक्तम् । अनिरुक्त उ वै प्रजापतिः । तत् प्राजापत्यम् रूपम् । तम् अग्निः पप्रच्छ अशको हन्तुम् इति । एवा ह्य् अग्न इति प्रत्युवाच । तम् स्वो महिमा पप्रच्छ अशको हन्तुम् इति । स ह अस्माद् अग्रे अपक्रान्तो बिभ्यत् तस्थौ । एवा हि इन्द्र इति प्रत्युवाच । तम् पूषा पप्रच्छ अशको हन्तुम् इति । एवा हि पूषन्न् इति प्रत्युवाच । तम् देवाः पप्रच्छुर् अशको हन्तुम् इति । एवा हि देवा इति प्रत्युवाच । तानि वा एतानि पञ्च पदानि पुरीषम् इति शस्यन्ते । कौ २३.२
आ पवस्व सहस्रिणम् इति सहस्ररूपं महानाम्नीनाम् उपगच्छन्ति। पशवो हि महानाम्नयः। ....... एतद् विषुवत्को वै द्वादशाहो यत् पञ्चमम् अहः। - जै ३.९१

गोविन्दोपरि टिप्पणी

पुरीष उपरि संदर्भाः