शुक्लयजुर्वेदः/अध्यायः १८

विकिस्रोतः तः
< शुक्लयजुर्वेदः(शुक्‍लयजुर्वेदः/अध्यायः १८ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← अध्यायः १७ शुक्लयजुर्वेदः
अध्यायः १८
[[लेखकः :|]]
अध्यायः १९ →

अध्यायः 18
वसोर्धारादि मन्त्राः

18.1
वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसितिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रवश् च मे श्रुतिश् च मे ज्योतिश् च मे स्वश् च मे यज्ञेन कल्पन्ताम् ॥

18.2
प्राणश् च मे ऽपानश् च मे व्यानश् च मे ऽसुश् च मे चित्तं च म ऽ आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च मे यज्ञेन कल्पन्ताम् ॥

18.3
ओजस् च मे सहश् च म ऽ आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थीनि च मे परूꣳषि च मे शरीराणि च म ऽ आयुश् च मे जरा च मे यज्ञेन कल्पन्ताम् ॥

18.4
ज्यैष्ठ्यं च मे ऽ आधिपत्यं च मे मन्युश् च मे भामश् च मे ऽमश् च मे ऽम्भश् च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्षिमा च मे द्राघिमा च मे वृद्धं च मे वृद्धिश् च मे यज्ञेन कल्पन्ताम् ॥

18.5
सत्यं च मे श्रद्धा च मे जगच् च मे धनं च मे विश्वं च मे महश् च मे क्रीडा च मे मोदश् च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे यज्ञेन कल्पन्ताम् ॥

18.6
ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुखं च मे शयनं च मे सूषाश् च मे सुदिनं च मे यज्ञेन कल्पन्ताम् ॥

18.7
यन्ता च मे धर्ता च मे क्षेमश् च मे धृतिश् च मे विश्वं च मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयश् च मे यज्ञेन कल्पन्ताम् ॥

18.8
शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भगश् च मे द्रविणं च मे भद्रं च मे श्रेयश् च मे वसीयश् च मे यशश् च मे यज्ञेन कल्पन्ताम् ॥

18.9
ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च म ऽ औद्भिद्यं च मे यज्ञेन कल्पन्ताम् ॥

18.10
रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवं च मे ऽक्षितं च मे ऽन्नं च मे ऽक्षुच् च मे यज्ञेन कल्पन्ताम् ॥

18.11
वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच् च मे सुगं च मे सुपथ्यं च म ऽ ऋद्धं च म ऽ ऋद्धिश् च मे क्लृप्तं च मे क्लृप्तिश् च मे मतिश् च मे सुमतिश् च मे यज्ञेन कल्पन्ताम् ॥

18.12
व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे प्रियङ्गवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे गोधूमाश् च मे मसूराश् च मे यज्ञेन कल्पन्ताम् ॥

18.13
अश्मा च मे मृत्तिका च मे गिरयश् च मे पर्वताश् च मे सिकताश् च मे वनस्पतयश् च मे हिरण्यं च मे यश् च मे श्यामं च मे लोहं च मे सीसं च मे त्रपु च मे यज्ञेन कल्पन्ताम् ॥

18.14
अग्निश् च म ऽ आपश् च मे वीरुधश् च म ऽ ओषधयश् च मे कृष्टपच्याश् च मे ऽकृष्टपच्याश् च मे ग्राम्याश् च मे पशव ऽ आरण्याश् च मे वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे यज्ञेन कल्पन्ताम् ॥

18.15
वसु च मे वसतिश् च मे कर्म च मे शक्तिश् च मे ऽर्थश् च म ऽ एमश् च म ऽ इत्या च मे गतिश् च मे यज्ञेन कल्पन्ताम् ॥

18.16
अग्निश् च म ऽ इन्द्रश् च मे सोमश् च म ऽ इन्द्रश् च मे सविता च म इन्द्रश् च मे सरस्वती च म ऽ इन्द्रश् च मे पूषा च म ऽ इन्द्रश् च मे बृहस्पतिश् च म इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥

18.17
मित्रश् च म ऽ इन्द्रश् च मे वरुणश् च म ऽ इन्द्रश् च मे धाता च म ऽ इन्द्रश् च मे त्वष्टा च म ऽ इन्द्रश् च मे मरुतश् च म ऽ इन्द्रश् च मे विश्वे च मे देवा ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥

18.18
पृथिवी च म ऽ इन्द्रश् च मे ऽन्तरिक्षं च म ऽइन्द्रश् च मे द्यौश् च ऽ म इन्द्रश् च मे समाश् च म ऽ इन्द्रश् च मे नक्षत्राणि च म ऽ इन्द्रश् च मे दिशश् च म ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥

18.19
अꣳशुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म उपाꣳशुश् च मे ऽन्तर्यामश् च म ऽ ऐन्द्रवायवश् च मे मैत्रावरुणश् च म ऽ आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च मे यज्ञेन कल्पन्ताम् ॥

18.20
आग्रयणश् च मे वैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च म ऽ ऐन्द्राग्नश् च मे महावैश्वदेवश् च मे मरुत्वतीयाश् च मे निष्केवल्यश् च मे सावित्रश् च मे सारस्वतश् च मे पत्नीवतश् च मे हारियोजनश् च मे यज्ञेन कल्पन्ताम् ॥

18.21
स्रुचश् च मे चमसाश् च मे वायव्यानि च मे द्रोणकलशश् च मे ग्रावाणश् च मे ऽधिषवणे च मे पूतभृच् च म ऽ आधवनीयश् च मे वेदिश् च मे बर्हिश् च मे ऽवभृथश् च मे स्वगाकारश् च मे यज्ञेन कल्पन्ताम् ॥

18.22
अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश् च मे ऽश्वमेधश् च मे पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे ऽङ्गुलयः शक्वरयो दिशश् च मे यज्ञेन कल्पन्ताम् ॥

18.23
व्रतं च म ऽ ऋतवश् च मे तपश् च मे संवत्सरश् च मे ऽहोरात्रे ऊर्वष्ठीवे बृहद्रथन्तरे च मे यज्ञेन कल्पन्ताम् ॥

18.24
एका च मे तिस्रश् च मे तिस्रश् च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च मे नव च म ऽ एकादश च म ऽ एकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च म ऽ एकविꣳशतिश् च म ऽ एकविꣳशतिश् च मे त्रयोविꣳशतिश् च मे त्रयोविꣳशतिश् च मे पञ्चविꣳशतिश् च मे पञ्चविꣳशतिश् च मे सप्तविꣳशतिश् च मे सप्तविꣳशतिश् च मे नवविꣳशतिश् च मे नवविꣳशतिश् च म ऽ एकत्रिꣳशच् च म ऽ एकत्रिꣳशच् च मे त्रयस्त्रिꣳशच् च मे त्रयस्त्रिꣳशच् च मे यज्ञेन कल्पन्ताम् ॥

18.25
चतस्रश् च मे ऽष्टौ च मे ऽष्टौ च मे द्वादश च मे द्वादश च मे षोडश च मे षोडश च मे विꣳशतिश् च मे विꣳशतिश् च मे चतुर्विꣳशतिश् च मे चतुर्विꣳशतिश् च मे ऽष्टाविꣳशतिश् च मे ऽष्टाविꣳशतिश् च मे द्वात्रिꣳशच् च मे द्वात्रिꣳशच् च मे षट्त्रिꣳशच् च मे षट्त्रिꣳशच् च मे चत्वारिꣳशच् च मे चत्वारिꣳशच् च मे चतुश्चत्वारिꣳशच् च मे चतुश्चत्वारिꣳशच् च मे ष्टाचत्वारिꣳशच् च मे ष्टाचत्वारिꣳशच् च मे यज्ञेन कल्पन्ताम् ॥

18.26
त्र्यविश् च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश् च मे पञ्चावी च मे त्रिवत्सश् च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे यज्ञेन कल्पन्ताम् ॥

18.27
पष्ठवाट् च मे पष्ठौही च म ऽ उक्षा च मे वशा च म ऽ ऋषभश् च मे वेहच् च मे ऽनड्वाꣳश् च मे धेनुश् च मे यज्ञेन कल्पन्ताम् ॥

18.28
वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहा वसवे स्वाहा ऽहर्पतये स्वाहाह्ने स्वाहा मुग्धाय स्वाहा मुग्धाय वैनꣳशिनाय स्वाहा विनꣳशिन ऽ आन्त्यायनाय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा । इयं ते राण् मित्राय यन्तासि यमन ऽ ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्याय ॥

18.29
आयुर् यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर् यज्ञेन कल्पताꣳ श्रोत्रं यज्ञेन कल्पतां वाग् यज्ञेन कल्पतां मनो यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां ब्रह्मा यज्ञेन कल्पतां ज्योतिर् यज्ञेन कल्पताꣳ स्वर् यज्ञेन कल्पतां पृष्ठं यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् । स्तोमश् च यजुश् च ऽ ऋक् च साम च बृहच् च रथन्तरं च । स्वर् देवा ऽ अगन्मामृता ऽ अभूम प्रजापतेः प्रजा ऽ अभूम वेट् स्वाहा ॥

18.30
वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे ।
यस्याम् इदं विश्वं भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् ॥

18.31
विश्वे ऽ अद्य मरुतो विश्व ऽ ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः ।
विश्वे नो देवा ऽ अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो ऽ अस्मे ॥

18.32
वाजो नः सप्त प्रदिशश् चतस्रो वा परावतः ।
वाजो नो विश्वैर् देवैर् धनसाताव् इहावतु ॥

18.33
वाजो नो ऽ अद्य प्र सुवाति दानं वाजो देवाꣳऽ ऋतुभिः कल्पयाति ।
वाजो हि मा सर्ववीरं जजान विश्वा ऽ आशा वाजपतिर् जयेयम् ॥

18.34
वाजः पुरस्ताद् उत मध्यतो नो वाजो देवान् हविषा वर्धयाति ।
वाजो हि मा सर्ववीरं चकार सर्वा ऽ आशा वाजपतिर् भवेयम् ॥

18.35
सं मा सृजामि पयसा पृथिव्याः सं मा सृजाम्य् अद्भिर् ओषधीभिः ।
सो ऽहं वाजꣳ सनेयम् अग्ने ॥

18.36
पयः पृथिव्यां पय ऽ ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥

18.37
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
सरस्वत्यै वाचो यन्तुर् यन्त्रेणाग्नेः साम्राज्येनाभि षिञ्चामि ॥

18.38
ऋताषाड् ऋतधामाग्निर् गन्धर्वस् तस्यौऽषधयोप्सरसो मुदो नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥

18.39
सꣳहितो विश्वसामा सूर्यो गन्धर्वस् तस्य मरीचयो ऽप्सरस आयुवो नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥

18.40
सुषुम्णः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो भेकुरयो नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥

18.41
इषिरो विश्वव्यचा वातो गन्धर्वस् तस्यापो ऽ अप्सरस ऽ ऊर्जो नाम ।
स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥

18.42
भुज्युः सुपर्णो यज्ञो गन्धर्वस् तस्य दक्षिणा ऽ अप्सरस स्तावा नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥

18.43
प्रजापतिर् विश्वकर्मा मनो गन्धर्वस् तस्य ऽ ऋक्सामान्य् अप्सरस ऽ एष्टयो नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥

18.44
स नो भुवनस्य पते प्रजापते यस्य त ऽ उपरि गृहा यस्य वेह ।
अस्मै ब्रह्मणे ऽस्मै क्षत्राय महि शर्म यच्छ स्वाहा ॥

18.45
समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा ।
मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा ।
अवस्यूर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा ॥

18.46
यास् ते ऽ अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः ।
ताभिर् नो ऽ अद्य सर्वाभी रुचे जनाय नस् कृधि ॥

18.47
या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः ।
इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥

18.48
रुचं नो धेहि ब्राह्मणेषु रुचꣳ राजसु नस् कृधि ।
रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ॥

18.49
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्य् उरुशꣳस मा न ऽ आयुः प्र मोषीः ॥

18.50
स्वर् ण घर्मः स्वाहा ।
स्वर् णार्कः स्वाहा ।
स्वर् ण शुक्रः स्वाहा ।
स्वर् ण ज्योतिः स्वाहा ।
स्वर् ण सूर्यः स्वाहा ॥

18.51
अग्निं युनज्मि शवसा घृतेन दिव्यꣳ सुपर्णं वयसा बृहन्तम् ।
तेन वयं गमेम ब्रध्नस्य विष्टपꣳ स्वो रुहाणा ऽ अधि नाकम् उत्तमम् ॥

18.52
इमौ ते पक्षाव् अजरौ पतत्रिणौ याभ्याꣳ रक्षाꣳस्य् अपहꣳस्य् अग्ने ।
ताभ्यां पतेम सुकृताम् उ लोकं यत्र ऽ ऋषयो जग्मुः प्रथमजाः पुराणाः ॥

18.53
इन्दुर् दक्षः श्येन ऽ ऋतावा हिरण्यपक्षः शकुनो भुरण्युः ।
महान्त् सधस्थे ध्रुव ऽ आ निषत्तो नमस् ते अस्तु मा मा हिꣳसीः ॥

18.54
दिवो मूर्धासि पृथिव्या नाभिर् ऊर्ग् अपाम् ओषधीनाम् ।
विश्वायुः शर्म सप्रथा नमस् पथे ॥

18.55
विश्वस्य मूर्धन्न् अधि तिष्ठसि श्रितः समुद्रे ते हृदयम् अप्स्व् आयुर् अपो दत्तोदधिं भिन्त्त ।
दिवस् पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्याव ॥

18.56
इष्टो यज्ञो भृगुभिर् आशीर्दा वसुभिः ।
तस्य न ऽ इष्टस्य प्रीतस्य द्रविणेहागमेः ॥

18.57
इष्टो ऽ अग्निर् आहुतः पिपर्तु न ऽ इष्टꣳ हविः ।
स्वगेदं देवेभ्यो नमः ॥

18.58
यद् आकूतात् समसुस्रोद् हृदो वा मनसो वा सम्भृतं चक्षुषो वा ।
तद् अनु प्रेत सुकृताम् उ लोकं यत्र ऽ ऋषयो जग्मुः प्रथमजाः पुराणाः ॥

18.59
एतꣳ सधस्थ परि ते ददामि यम् आवहाच् शेवधिं जातवेदाः ।
अन्वागन्ता यज्ञपतिर् वो ऽ अत्र तꣳ स्म जानीत परमे व्योमन् ॥

18.60
एतं जानाथ परमे व्योमन् देवाः सधस्था विद रूपम् अस्य ।
यद् आगच्छात् पथिभिर् देवयानैर् इष्टापूर्ते कृणवाथाविर् अस्मै ॥

18.61
उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सꣳ सृजेथाम् अयं च ।
अस्मिन्त् सधस्थे ऽ अध्य् उत्तरस्मिन् विश्वे देवा यजमानाश् च सीदत ॥

18.62
येन वहसि सहस्रं येनाग्ने सर्ववेदसम् ।
तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥

18. 63
प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा ।
ऋचेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥

18.64
यद् दत्तं यत् परादानं यत् पूर्तं याश् च दक्षिणाः ।
तद् अग्निर् वैश्वकर्मणः स्वर् देवेषु नो दधत् ॥

18.65
यत्र धारा ऽ अनपेता मधोर् घृतस्य च याः ।
तद् अग्निर् वैश्वकर्मणः स्वर् देवेषु नो दधत् ॥

18.66
अग्निर् अस्मि जन्मना जातवेदा घृतं मे चक्षुर् अमृतं म ऽ आसन् ।
अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ॥

18.67
ऋचो नामास्मि यजूꣳषि नामास्मि सामानि नामास्मि ।
ये ऽ अग्नयः प्राञ्चजन्या ऽ अस्यां पृथिव्याम् अधि ।
तेषाम् असि त्वम् उत्तमः प्र नो जीवतवे सुव ॥

18.68
वार्त्रहत्याय शवसे पृतनाषाह्याय च ।
इन्द्र त्वा वर्तयामसि ॥

18.69
सहदानुं पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सं पिणक् कुणारुम् ।
अभि वृत्रं वर्धमानं पियारुम् अपादम् इन्द्र तवसा जघन्थ ॥

18.70
वि न ऽ इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
यो ऽ अस्माꣳऽ अभिदासत्य् अधरं गमया तमः ॥

18.71
मृगो न भीमः कुचरो गिरिष्ठाः परावत ऽ आ जगन्था परस्याः ।
सृकꣳ सꣳशाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥

18.72
वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः ।
अग्निर् नः सुष्टुतीर् उप ॥

18.73
पृष्टो दिवि पृष्टो ऽ अग्निः पृथिव्यां पृष्टो विश्वा ऽ ओषधीर् आ विवेश ।
वैश्वानरः सहसा पृष्टो ऽ अग्निः स नो दिवा स रिषस् पातु नक्तम् ॥

18.74
अश्याम तं कामम् अग्ने तवोती ऽ अश्याम रयिꣳ रयिवः सुवीरम् ।
अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥

18.75
वयं ते ऽ अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य ।
यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो ऽ अग्ने ॥

18.76
धामच्छद् अग्निर् इन्द्रो ब्रह्मा देवो बृहस्पतिः ।
सचेतसो विश्वे देवा यज्ञं प्रावन्तु नः शुभे ॥

18.77
त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः ।
रक्षा तोकम् उत त्मना ॥


भाष्यम्(उवट-महीधर)

अष्टादशोऽध्यायः।

तत्र प्रथमा ।
वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्र॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ स्व॒श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १ ।।
उ० इतउत्तरं वसोर्धारिकाणि यजूंषि सप्तविंशतिकण्डिकाः । वाजश्च मे वाजः अन्नं च मे । प्रसवः अन्नदानविषयाभ्यनुज्ञा दीयतां भुज्यतामिति । प्रयतिश्च मे प्रसितिश्च मे प्रयतनं प्रयतिः आज्ञा प्रसयनं प्रसितिः तन्तुर्वा जालं वा तेन चात्र बन्धनं स्नेह उपलक्ष्यते । धीतिश्च मे क्रतुश्च मे । "ध्यै चिन्तायाम् । तस्य धीतिः संप्रसारणं छान्दसम् । क्रतुः संकल्पः संस्कारो वा । स्वरश्च मे श्लोकश्च मे । साधुशब्दः स्वरः श्लोकः गद्यपद्यबन्धः । श्रवश्च मे श्रुतिश्च मे श्रवो वेदमन्त्राः । श्रुतिर्ब्राह्मणम् । ज्योतिश्च मे स्वश्च मे । ज्योतिरादित्यादिः स्वर्द्युलोकादि । द्वौ द्वौ कामौ संयुनक्ति अव्यवच्छेदाय । 'यथा व्योकसौ संयुज्यादेवम्' इति श्रुतिः । द्वौ द्वौ कामावभिरूपौ संयुनक्ति । चकारेण समुच्चिनोति अव्यवच्छेदाय अनुपक्षयाय । यथा कश्चिद्विजीतिर्व्योकसौ संयुज्यात् । ओक इति निवासनाम । विगत ओको गृहं ययोः कुमारीकुमारयोः तौ व्योकसौ नानागृहनिवासिनौ संयुज्यात् तयोर्विवाहं कुर्यात् । एवं चकारेण समुच्चिनोति । यज्ञेन कल्पन्ताम् वाजप्रभृतीनि चकारसमुच्चितानि मम यज्ञेन कल्पन्तां समर्था भवन्तु । यज्ञेऽग्निं तर्पयन्तु अभिषिञ्चन्तु वा । अनेन च त्वा प्रीणाम्यनेन च त्वा अभिषिञ्चाम्यनेन चेत्यस्याः श्रुतेरभिप्रायेण व्याख्यातम् । अथो इदं च मे देहीदं च म इत्यस्याः श्रुतेरभिप्रायेण व्याख्यास्यामः । वाजप्रभृतीनि चशब्दसमुच्चितानि मम यज्ञेनानेन क्लृप्तानि भवन्तु । यज्ञोऽस्मभ्यमेतेषां दाता भवत्वित्यर्थः । एवमस्माभिर्दिङ्मात्रप्रदर्शनं कृतं मन्त्रव्याख्यायाः ॥ १ ॥२॥ ३ ॥
म० सप्तदशेऽध्याये चित्यारोहणादिमन्त्रा उक्ताः । इदानीमष्टादशेऽध्याये वसोर्धारादिमन्त्रा उच्यन्ते । 'वसोर्धारां जुहोत्यौदुम्बर्या पञ्चगृहीतᳪं᳭सन्ततं यजमानोऽरण्येऽनूच्येऽग्निप्राप्ते वाजश्च म इत्यष्टानुवाकेन' ( का० १८ । ५। १)। अस्यार्थः । ततो यजमान आज्यं संस्कृत्यार्थपरिमाणया महत्यौदुम्बर्या स्रुचा महता स्रुवेण पञ्चवारं गृहीतमाज्यमरण्येऽनूच्ये पुरोडाशेऽधिकरणे तदुपरि संततमविच्छिन्नधारं यथा तथा वसोर्धारासंज्ञामाहुतिं जुहोति । घृतेऽग्निप्राप्ते सति वाजश्चेत्यादिहोममन्त्रारम्भः कार्योऽष्टाभिरनुवाकैर्वाजश्चेत्यादिवेट्स्वाहान्तैरेकोनत्रिंशत्कण्डिकात्मकैः । वाजश्च मे । चकाराः समुच्चयार्थाः । यज्ञेनानेन मया कृतेन वाजादयः पदार्थाः कल्पन्तां क्लृप्ताः संपन्ना भवन्तु । स यज्ञो वाजादीनां दातास्मभ्यं भवत्वित्यर्थः । 'अथो इदं च मे देहीदं च मे' (९।३।२।५) इति श्रुतेः । यद्वा वाजादयः पदार्था मे मम यज्ञेन कल्पन्ताम् । विभक्तिव्यत्ययः । यज्ञेऽग्निं तर्पयन्तु अभिषिञ्चन्तु वा । 'अनेन च त्वा प्रीणाम्यनेन च वाभिषिञ्चामि' (९ । ३ । ३ । ५) इत्यादिश्रुतिः । द्वौ द्वौ कामावनुपक्षयाय संयुञ्ज्याच्चकारेण कन्याकुमाराविव । तथाच श्रुतिः 'द्वौ द्वौ कामावभिरूपौ संयुनक्त्यव्यवच्छेदाय यथा व्योकसौ संयुञ्ज्यात्' (९ । ३ । २ । ६) इति । अथ पदार्था व्याख्यायन्ते। वाजश्चेत्यादियजुषां देवा ऋषयः । अग्निर्देवता । छन्दांसि पिङ्गलोक्तान्यक्षरसंख्यया ज्ञेयानि । एतैर्यजुर्भिर्यजमानोऽग्नेः कामान् याचते वाजो मेऽस्त्वित्यादि । तत्रैकाधिकानि चतुःशतं यजूंषि कामास्तु पञ्चदशोत्तरं शतम् । तद्यथा । वाजश्चेत्याद्यासु ज्यैष्ठ्यं च मे, वसु च मे ( १४।१५) इति कण्डिकाद्वयवर्जितासु एकोनविंशतिकण्डिकासु त्रयोदश त्रयोदश यजूंषि सन्ति ज्यैष्ठ्यं च म इत्यस्यां ( ४ ) पञ्चदश वसु च म इत्यस्यां (१५) नव । अग्निश्च मे घर्मश्च म इत्यस्यां ( २२ ) द्वादश कामास्तु त्रयोदश अङ्गुलयः शक्वरयो दिशश्च म इत्येकं यजुः कामास्त्वत्र त्रयः । व्रतं च म इत्यस्यां (२३) षट् कामास्तु दशअहोरात्रे ऊर्वष्ठीवे बृहद्रथन्तरे च म इत्येकं यजुः षट् कामाः ।। एका च म इत्यस्यां ( २४ ) त्रयस्त्रिंशत् । चतस्रश्च मे (२५) अत्र त्रयोविंशतिः । त्र्यविश्च मे ( २६ ) अत्रैकादश । पष्ठवाट् च मे (२७) इत्यत्र नव । वाजाय स्वाहेति ( २८ ) अत्र चतुर्दश । आयुर्यज्ञेनेति (२९) अत्रैकविंशतिः कल्पन्तामन्तानि १२ स्तोमश्चेति षट् १८ स्वर्देवाः १९ प्रजापतेः २० वेट्स्वाहा २१ । एवमेकाधिका चतुःशती । अथ यजुषामर्थाः । वाजोऽन्नम् । चशब्दाः समुच्चयार्थाः । प्रसवोऽन्नदानाभ्यनुज्ञा दीयतां भुज्यतामिति । प्रयतिः शुद्धिः । प्रसितिः बन्धनमन्नविषयौत्सुक्यम् । धीतिः ध्यानम् 'ध्यै चिन्तायाम्' छान्दसं संप्रसारणम् । क्रतुः संकल्पो यज्ञो वा । स्वरः साधुशब्दः । श्लोकः पद्यबन्धः स्तुतिर्वा । श्रवः वेदमन्त्राः श्रवणसामर्थ्यं वा । श्रुतिः ब्राह्मणं श्रवणसामर्थ्यं वा । ज्योतिः प्रकाशः । स्वः स्वर्गः एते मे मम यज्ञेन कल्पन्ताम् । कल्पन्तामिति कण्डिकान्तस्य समुदायापेक्षया बहुत्वम् । मेपदानामावृत्तिः प्रत्येकं प्राप्त्यर्था । एवं सर्वत्र ॥१॥

द्वितीया।
प्रा॒णश्च॑ मेऽपा॒नश्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक् च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।। २ ।।
म० प्राणः ऊर्ध्वसंचारी शरीरवायुः । अपानः अधोवृत्तिर्वायुः । व्यानः सर्वशरीरचरः । असुः प्रवृत्तिमान् वायुः । चित्तं मानसः संकल्पः । आधीतं बाह्यविषयज्ञानम् । वाक् वागिन्द्रियम् । मनः प्रसिद्धम् । चक्षुरिन्द्रियम् । श्रोत्रं श्रवणेन्द्रियम् । दक्षः ज्ञानेन्द्रियकौशलम् । बलं कर्मेन्द्रियकौशलम् । एतानि यज्ञेन मे कल्पन्ताम् ॥ २॥

तृतीया।
ओज॑श्च मे॒ सह॑श्च म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च॒ मेऽस्थी॑नि च मे॒ परू॑ᳪं᳭षि च मे॒ शरी॑राणि च म॒ आयु॑श्च मे ज॒रा च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। ३ ।।
म०. ओजो बलहेतुरष्टमो धातुः । सहः शारीरं बलं सपत्नाभिभवितृत्वं वा । आत्मा परमात्मा । तनू रम्यं वपुः । शर्म सुखम् । वर्म कवचम् । अङ्गानि हस्ताद्यवयवाः । अस्थीनि शरीरगतानि । परूंषि अङ्गुल्यादिपर्वाणि । शरीराणि पूर्वानुक्ताः शरीरावयवाः । आयुर्जीवनम् । जरा वार्धकान्तमायुः । एते यज्ञेन संपद्यन्ताम् ॥ ३॥

चतुर्थी।
ज्यै॑ष्ठ्यं च मे॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे वर्षि॒मा च॑ मे द्राघि॒मा च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। ४ ।।
उ० सुगमं व्याख्यानम् ॥ ४ ॥५॥
म० ज्येष्ठस्य भावो ज्यैष्ठ्यं प्रशस्तत्वम् । अधिपतेर्भाव आधिपत्यं स्वामित्वम् । मन्युः मानसः कोपः । भामोऽधिक्षेपादिलिङ्गको बाह्यः कोपः । न मीयत इत्यमः अपरिमेयत्वमन्यैरियत्तया परिच्छेत्तुमशक्यत्वम् । अम्भः शीतमधुरं जलम् । | जेमा जयस्य भावो जयसामर्थ्यम् । महतो भावो महिमा महत्त्वं संपत्त्यादिना । उरोर्भावो वरिमा प्रजादिविशालता । पृथोर्भावः प्रथिमा गृहक्षेत्रादिविस्तारः । वृद्धस्य भावो वर्षिमा दीर्घजीवित्वम् । दीर्घस्य भावो द्राघिमा अविच्छिन्नवंशत्वम् । वृद्धं प्रभूतमन्नधनादि । वृद्धिः विद्यादिगुणैरुत्कर्षः । एते मे कल्पन्ताम् ॥ ४ ॥

पञ्चमी।
स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ विश्वं॑ च मे॒ मह॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। ५ ।।
म० सत्यं यथार्थभाषितम् । श्रद्धा परलोकविश्वासः । जगत् जङ्गमं गवादि । धनं कनकादि । विश्वं स्थावरम् । महो दीप्तिः । क्रीडा अक्षद्यूतादिः । मोदः क्रीडादर्शनजो हर्षः । जातं पुत्रोत्पन्नमपत्यम् । जनिष्यमाणं भविष्यदपत्यम् । सूक्तमृक्समूहः । सुकृतमृक्पाठजन्यं शुभादृष्टम् । एते मे कल्पन्ताम् ॥ ५॥

षष्ठी।
ऋ॒तं च॑ मेऽमृतं॑ च मे ऽय॒क्ष्मं च॒ मे ऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मे ऽभ॑यं च मे सु॒खं च॑ मे॒ शय॑नं च मे सू॒षाश्च॑ मे सु॒दिनं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।। ६ ।।
उ० सुगमं व्याख्यानम् ॥ ६ ॥ ७ ॥
म० ऋतं यज्ञादिकर्म । अमृतं तत्फलभूतं स्वर्गादि । यक्ष्मणोऽभावोऽयक्ष्मं धातुक्षयादिरोगाभावः । अनामयत् आमयति पीडयतीत्यामयत् न आमयत् अनामयत् सामान्यव्याध्यादिराहित्यम् । जीवयतीति जीवातुः व्याधिनाशकमौषधम् । दीर्घायुषो भावो दीर्घायुत्वं बहुकालमायुः । पृषोदरादित्वात्सलोपः आयुरुदन्तो वा । अमित्राणामभावोऽनमित्रं
शत्रुराहित्यम् । भयाभावोऽभयं भीतिराहित्यम् । सुखमानन्दः । शयनं संस्कृता शय्या । सूषाः शोभन उषाः स्नानसन्ध्यादियुक्तः प्रातःकालः । सुदिनं यज्ञदानाध्ययनादियुक्तं सर्वं दिनम् । एते मे यज्ञेन सिध्यन्तु ॥ ६ ॥

सप्तमी।
य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूशच॒॑ मे॒ सीरं॑ च मे॒ लय॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। ७ ।।
म० यन्ताश्वादेर्नियन्ता । धर्ता पोषकः पित्रादिः । क्षेमः विद्यमानधनस्य रक्षणशक्तिः । धृतिः धैर्यमापत्स्वपि स्थिरचित्तत्वम् । विश्वं सर्वानुकूल्यम् । महः पूजा । संविद् वेदशास्त्रादिज्ञानम् । ज्ञातुर्भावो ज्ञात्रम् विज्ञानसामर्थ्यम् । सूः पुत्रादिप्रेरणसामर्थ्यम् । प्रसूः पुत्रोत्पत्त्यादिसामर्थ्यम् । सीरं हलादिकृषिकृतधान्यनिष्पत्तिः। लयः कृषिप्रतिबन्धनिवृत्तिः॥७॥

अष्टमी।
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे॒ भग॑श्च मे॒ द्रवि॑णं च मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वसी॑यश्च मे॒ यश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। ८ ।।
उ० सुगमं व्याख्यानम् ॥ ८॥९॥
म० शमैहिकं सुखम् । मयः आमुष्मिकं सुखम् । प्रियं प्रीत्युत्पादकं वस्तु । अनुकाम्यत इत्यनुकामः अनुकूलयत्नसाध्यः पदार्थः । कामः विषयभोगजनितं सुखम् । सुमनसो भावः सौमनसः मनःस्वास्थ्यकरो बन्धुवर्गः । भगः सौभाग्यम् । द्रविणं धनम् । भद्रमैहिकं कल्याणम् । श्रेयः पारलौकिकम् । वसतीति वस्तृ अतिशयेन वस्तृ वसीयः 'तुरिष्ठेमेयस्सु' (पा० ६ । ४ । १५४ ) इति तृचो लोपः । निवासयोग्यो वसुमान् गृहादिः । यशः कीर्तिः । एते कल्पन्ताम् ॥४॥

नवमी।
ऊर्क् च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे य॒ज्ञेन॑ कल्पन्ताम् ।। ९ ।।
म० ऊर्क् अन्नम् । सूनृता प्रिया सत्या वाक् । पयः दुग्धम् । रसः तत्रत्यः सारः । घृतमाज्यम् । मधु क्षौद्रम् । समाना ग्धिर्भोजनं सग्धिः । अदेः क्तिनि घस्लादेशः 'घसिभसोर्हलि' (पा० ६ । ४ । १००) इति घस उपधालोपे कृते 'झलो झलि' (पा० ८ । २ । २६ ) इति सलोपे कृते 'झषस्तथोर्धोऽधः' (पा० ८ । २ । ४० ) जश्त्वं । सग्धिः बन्धुभिः सह भोजनमित्यर्थः । सपीतिः बन्धुभिः सह पानम् । कृषिः तत्कृतधान्यसिद्धिः । वृष्टिः धान्यनिष्पादिकानुकूला । । जेतुर्भावो जैत्रम् जयसामर्थ्यम् । उद्भिदो भाव औद्भिद्यम् चूतादितरोरुत्पत्तिः । एते यज्ञेन कल्पन्ताम् ॥ ९॥

दशमी।
र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे पू॒र्णं च॑ मे पू॒र्णत॑रं च मे॒ कुय॑वं च॒ मेऽक्षि॑तं च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १० ।।
उ० सुगमं व्याख्यानम् ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ -
म० रयिः सुवर्णम् । रायो मुक्तादिमणयः । पुष्टं धनपोषः । पुष्टिः शरीरपोषकः । विभु व्याप्तिसामर्थ्यम् । प्रभु ऐश्वर्यम् । पूर्णं धनपुत्रादिबाहुल्यम् । अत्यन्तं पूर्णं पूर्णतरं गजतुरगादिबाहुल्यम् । कुयवं कुत्सितधान्यमपि । अक्षितं क्षयहीनं धान्यादि । अन्नमोदनादि । क्षुत् भुक्तान्नपरिपाकः । एते कल्पन्ताम् ॥ १०॥

एकादशी। ।
वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सुप॒थ्यं॒ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे क्लृ॒प्तं च॑ म॒॒ क्लृप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। ११ ।।
म० 'विद्लृ लाभे' पूर्वलब्धं वित्तम् । वेद्यं लब्धव्यम् । भूतं पूर्वसिद्धं क्षेत्रादि । भविष्यत् संपत्स्यमानं क्षेत्रादि । सुखेन गम्यते यत्र तत् सुगम् 'सुदुरोरधिकरणे' (पा० ३ । २ । ४८) इति गमेर्डः । सुखगम्यो देशः । सुपथ्यं शोभनं हितम् । ऋद्धं समृद्धं यज्ञफलम् । ऋद्धिः यज्ञादिसमृद्धिः । क्लृप्तं कार्यक्षेमं द्रव्यादि । क्लृप्तिः स्वकार्यसामर्थ्यम् । मतिः पदार्थमात्रनिश्चयः । सुमतिः दुर्घटकार्यादिषु निश्चयः । एते यज्ञेन कल्पन्ताम् ॥ ११॥

द्वादशी।
व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्गाश्च॑ मे॒ खल्वा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒माका॑श्च मे नी॒वारा॑श्च मे गो॒धूमा॑श्च मे म॒सूरा॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १२ ।।
म० व्रीहियवमाषतिलमुद्गगोधूममसूराः प्रसिद्धाः । खल्वाः चणकाः लङ्गाश्च । प्रियङ्गवः कङ्गवः प्रसिद्धाः । अणवश्चीनकाः । श्यामाकास्तृणधान्यानि ग्राम्याणि कोद्रवत्वेन प्रसिद्धानि । नीवारास्तृणधान्यान्यारण्यानि । एते धान्यविशेषा मे यज्ञेन कल्पन्ताम् ॥ १२ ॥

त्रयोदशी।
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ सीसं॑ च मे॒ त्रपु॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १३ ।।
म० अश्मा पाषाणः । मृत्तिका प्रशस्ता मृत् 'मृदस्तिकन्' । गिरया क्षुद्रपर्वताः गोवर्धनार्बुदरैवतिकादयः । पर्वताः महान्तो मन्दरहिमाचलादयः। सिकताः शर्कराः। वनस्पतयः पुष्पं विना फलवन्तः पनसोदुम्बरादयः । हिरण्यं सुवर्णं रजतं वा 'द्रविणाकुप्ययोश्च' इत्यभिधानात् । अयो लोहम् । श्यामं ताम्रलोहं कांस्यं रजतं कनकं वा । 'लोहं कालायसे सर्वतैजसे जोङ्गकेऽपि च' इत्यभिधानात् । सीसं प्रसिद्धम् । त्रपु रङ्गम् । एते कार्यविशेषेषु मे कल्पन्ताम् ॥ १३ ॥

चतुर्दशी।
अ॒ग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्याश्च॑ मेऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ मे वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १४ ।।
उ० सुगमं व्याख्यानम् ॥ १४ ॥ १५॥
म० अग्निः पृथिवीस्थो वह्निः । आपोन्तरिक्षस्थानि जलानि । वीरुधः गुल्माः । ओषधयः फलपाकान्ताः । कृष्टपच्याः कृष्टे पच्यन्त इति कृष्टपच्याः 'राजसूयसूर्य-' (पा. ३।१।११४ ) इत्यादिना क्यबन्तो निपातः । भूमिकर्षणबीजवापादिकर्मनिष्पाद्या ओषधयः । तद्विपरीता अकृष्टपच्याः स्वयमेवोत्पद्यमाना नीवारगवेधुकादयः । ग्राम्या ग्रामे भवाः पशवः गोऽश्वमहिषाजाविगर्दभोष्ट्रादयः । आरण्याः अरण्ये भवाः पशवः हस्तिसिंहशरभमृगगवयमर्कटादयः । वित्तं पूर्वलब्धम् । वित्तिः भाविलाभः । भूतं जातपुत्रादिकम् । भूतिरैश्वर्यं स्वार्जितम् । एतानि यज्ञेन मम संपद्यन्ताम् १४ ॥

पञ्चदशी।
वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे ऽर्थ॑श्च म॒ एम॑श्च म इ॒त्या च॑ मे॒ गति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १५ ।।
म०. वसु धनं गवादिकम् । वसतिर्वासस्थानं गृहम् । कर्माग्निहोत्रादि । शक्तिस्तदनुष्ठानसामर्थ्यम् । अर्थोऽभिलषितः पदार्थः । एमः ईयत इत्येमः एतेर्मप्रत्ययः प्राप्तव्योऽर्थः । इत्या भावे क्यप् । अयनमिष्टप्राप्त्युपायः । गतिरिष्टप्राप्तिः । एते कल्पन्ताम् ॥ १५ ॥

षोडशी।
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १६ ।।
उ० अथार्धेन्द्राणि जुहोति । अर्धे इन्द्रः अर्धे अन्ये देवाः । अग्निश्च म इन्द्रश्च म इति ॥ १६ ॥ १७ ॥
म० 'अथार्धेन्द्राणि जुहोति' (९।३।२।९) अर्धस्येन्द्रदेवत्यत्वादर्धस्य नानादेवत्यत्वात् । अग्निसोमसवितृसरस्वतीपूषबृहस्पतयः प्रसिद्धाः । तैः समानभागत्वादिन्द्र एकैकया सह पठ्यते । यास्कोक्ता इन्द्रशब्दस्य नानार्थाः कार्याः । एवमग्रेऽपि कण्डिकाद्वये । एते कल्पन्ताम् ॥ १६ ॥

सप्तदशी।
मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १७ ।।
म० मित्रवरुणधातृत्वष्टृमरुद्विश्वेदेवाः प्रसिद्धाः । प्रत्येकमिन्द्रः । एते कल्पन्ताम् ॥ १७ ॥

अष्टादशी।
पृ॒थि॒वी च॑ म॒ इन्द्र॑श्च॒ मेऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ समा॑श्च म॒ इन्द्र॑श्च मे॒ नक्ष॑त्राणि च म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १८ ।।
उ० अथ ग्रहान् जुहोति । अᳪं᳭ं᳭ शुश्च म इति ॥१८॥१९॥
म० पृथिव्यन्तरिक्षादिवस्त्रैलोक्यम् । समा वर्षाधिष्ठात्र्यो देवताः । नक्षत्राणि अश्विन्यादीनि । दिशः प्रागाद्याः । एते कल्पन्ताम् ॥ १८ ॥

एकोनविंशी।
अ॒ᳪं᳭शुश्च॑ मे र॒श्मिश्च॒ मेऽदा॑भ्यश्च॒ मेऽधि॑पतिश्च म उपा॒ᳪं᳭शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। १९ ।।
म० 'अथ ग्रहान् जुहोति' ( ९ । ३ । २ । १० ) कण्डिकात्रये ग्रहहोममन्त्राः । अश्वादयः सोमग्रहविशेषाः सोमप्रकरणे प्रसिद्धाः । अदाभ्यस्यैव गृह्यमाणत्वदशायां पृथक्कृत्य ग्रहणे रश्मिशब्देन निर्देशः । रश्मीनां तदग्रहणे साधनत्वात् | 'अह्नो रूपे सूर्यस्य रश्मिषु' ( ८ । ४८) इति मन्त्रलिङ्गात् । अधिपतिशब्देन निग्राह्यो विवक्षितः तस्य ज्येष्ठत्वादाधिपत्यम् 'ज्येष्ठो वा एष ग्रहाणाम्' इति श्रुतेः । प्रतिप्रस्थानशब्देन निग्राह्यो विवक्षितः द्विदेवत्यैः सह पाठात् । अन्ये प्रसिद्धाः ॥ १९ ॥

विंशी।
आ॒ग्र॒य॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऐन्द्रा॒ग्नश्च॑ मे म॒हावै॑श्वदेश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २० ।।
उ० सुगमं व्याख्यानम् ॥ २० ॥ २१ ॥
म० आद्यो वैश्वदेवः प्रातःसवनगतः । महावैश्वदेवस्तु तृतीयसवनगतः । ध्रुवाख्यस्यैव ग्रहस्य श्रवणदशायां वैश्वानरसूक्तपाठात्तद्दशापन्नो ध्रुवो वैश्वानरशब्देनोच्यते । मरुत्वतीया इति बहुवचनं त्रित्वात् मरुत्वतीयो महामरुत्वतीयः कुण्ठमरुत्वतीयश्चेति । अभिषेचनीये सारस्वतीनामपां ग्रहणमेव सारस्वतो ग्रहः सारस्वतं ग्रहं गृह्णातीति तत्राम्नानात् ॥ २० ॥

एकविंशी।
स्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्या॒नि च मे द्रोणकल॒शश्च॑ मे॒ ग्रावा॑णश्च मेऽधि॒षव॑णे च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च मे॒ वेदि॑श्च मे ब॒र्हिश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २१ ।।
म०. स्रुचो जुह्वादयः । चमसानि ग्रहपात्राणि । वायव्यानि पात्रविशेषाः । अधिषवणे काष्ठफलके । पूतभृदाधवनीयौ सोमपात्रविशेषौ । स्वगाकारः शम्युवाकः तेन यथास्वं देवतानां हविरङ्गीकारात् । प्रसिद्धमन्यत् । एते मम यज्ञेन निमित्तेन कल्पन्ताम् ॥ २१ ॥

द्वाविंशी।
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ऽङ्गुल॑य॒: शक्व॑रयो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। २२ ।।
म०. कण्डिकाद्वयेन यज्ञक्रतुहोमः । 'अथैतान् यज्ञक्रतून जुहोत्यग्निश्च म इति' ( ९ । ३ । ३ । १) इति श्रुतेः । अग्निः चीयमानो वह्निरग्निष्टोमो वा । घर्मः प्रवर्ग्यः । 'इन्द्रायार्कवते पुरोडाशम्' इति विहितो यागोऽर्कः । 'सौर्यं चरुम्' इति विहितः सूर्यः । प्राणो गवामयनम् । अश्वमेधः प्रसिद्धः। पृथिव्यदितिदिवो देवताविशेषाः । अङ्गुलयः विराट्पुरुषावयवाः शक्वरयः शक्तयः दिशः प्राच्याद्याः । एते यज्ञेन | कल्पन्ताम् ॥ २२ ॥

त्रयोविंशी।
व्र॒तं च॑ म ऋ॒तव॑श्च मे॒ तप॑श्च मे संवत्स॒रश्च॑ मेऽहोरा॒त्रे ऊ॑र्वष्ठी॒वे बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २३ ।।
म० व्रतं नियमः । ऋतवो वसन्तादयः । तपः कृच्छ्रचान्द्रायणादि । संवत्सरः प्रभवादि । अहश्च रात्रिश्चाहोरात्रे दिननिशे । ऊरू चाष्ठीवन्तौ जानुनी च ऊर्वष्ठीवे अवयवविशेषौ 'अचतुर-'(पा० ५। ४ । ७७ ) इति निपातः । बृहद्रथन्तरे एतन्नामके सामनी । एतानि कल्पन्ताम् ॥ २३ ॥

चतुर्विंशी।
एका॑ च मे ति॒स्रश्च॑ मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे॒ पञ्च॑ च मे स॒प्त च॑ मे स॒प्त च॑ मे॒ नव॑ च मे॒ नव॑ च म॒ एका॑दश च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे स॒प्तद॑श च मे॒ नव॑दश च मे॒ नव॑दश च म॒ एक॑विᳪं᳭शतिश्च म॒ एक॑विᳪं᳭शतिश्च मे॒ त्रयो॑विᳪं᳭शतिश्च मे॒ त्रयो॑विᳪं᳭शतिश्च मे॒ पञ्च॑विᳪं᳭शतिश्च मे॒ पञ्च॑विᳪं᳭शतिश्च मे स॒प्तवि॑ᳪं᳭शतिश्च मे स॒प्तवि॑ᳪं᳭शतिश्च मे॒ नव॑विᳪं᳭शतिश्च मे॒ नव॑विᳪं᳭शतिश्च म॒ एक॑त्रिᳪं᳭शच्च म॒ एक॑त्रिᳪं᳭शच्च मे॒ त्रय॑स्त्रिᳪं᳭शच्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। २४ ।।
उ० अथैतान् । यज्ञक्रतून् जुहोति । एका च मे तिस्रश्च म इति ॥ २४ ॥
म० अयुग्मस्तोमहोमार्था मन्त्राः । 'अथायुजस्तोमान् जुहोति' (९ । ३ । २) इति श्रुतेः । एकामादाय द्वितीयां विहाय तृतीयामादाय चतुर्थं विहाय परित्यक्तसमसंख्याकेनात्तविषमसंख्याकेन मन्त्रेणायुग्मान्स्तोमाञ्जहुयादित्यर्थः । आदरातिशयद्योतनार्था सर्वत्र पुनरुक्तिः । अयुग्मस्तोमहोमैः सर्वकामावाप्तिः । तथाच श्रुतिः 'एतद्वै देवाः सर्वान् कामानाप्त्वायुग्भिः स्तोमैः स्वर्गं लोकमायंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वायुग्भिः स्तोमैः स्वर्गं लोकमेति' ( ९ । ३ । ३ । २) इत्यादि ॥ २४ ॥

पञ्चविंशी।
चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे॒ षोड॑श च मे॒ षोड॑श च मे विᳪं᳭श॒तिश्च॑ मे विᳪं᳭शतिश्च॑ मे॒ चतु॑र्विᳪं᳭शतिश्च मे॒ चतु॑र्विᳪं᳭श॒तिश्च॑ मे॒ऽष्टावि॑ᳪं᳭शतिश्च मे॒ऽष्टावि॑ᳪं᳭शतिश्च मे॒ द्वात्रि॑ᳪं᳭शच्च मे॒ द्वात्रि॑ᳪं᳭शच्च मे॒ षट्त्रि॑ᳪं᳭शच्च मे॒ षट्त्रि॑ᳪं᳭शच्च मे चत्वारि॒ᳪं᳭शच्च॑ मे चत्वारि॒ᳪं᳭शच्च॑ मे॒ चतु॑श्चत्वारिᳪं᳭शच्च मे॒ चतु॑श्चत्वारिᳪं᳭शच्च मे॒ऽष्टाच॑त्वारिᳪं᳭शच्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। २५ ।।
उ० युग्मतो जुहोति । चतस्रश्च मेऽष्टौ च म इति । पूर्वं पूर्वमुत्तरेण संबध्नाति । यथा वृक्षं रोहन्नुत्तरां शाखां समालम्भं रोहेत्तादृक् । द्विरुक्त्याः प्रयोजनमाह श्रुतिः॥२५॥
म० एककण्डिकया युग्मस्तोमाञ्जुहोति । 'अथ युग्मतो जुहोति चतस्रश्च म (९।३।३ । ४) इति । प्रथमं चतस्र इत्येतां संख्यामादाय चतुरुत्तरत्वेन स्थितान्युग्मान्स्तोमानष्टाचत्वारिंशत्पर्यन्ताञ्जुहुयादित्यर्थः । तत्फलं स्वर्गप्राप्तिः । एतद्वैछन्दाᳪं᳭ं᳭ स्यब्रुवन्यातयामा वा अयुजः स्तोमा युग्मभिर्वयᳪं᳭ं᳭ स्तोमैः स्वर्गं लोकमयामेति तथैतद्यजमानो युग्मभिः स्तोमैः स्वर्गं लोकमेति' (९ । ३ । ३ । ५) इति श्रुतेः । पूर्वं पूर्वमुत्तरेण संबध्नाति वृक्षारोहणवत् । तथाच श्रुतिः 'पूर्वंपूर्वमुत्तरेणोत्तरेण संयुनक्ति यथा वृक्षं रोहन्नुत्तरामुत्तराᳪं᳭ं᳭ शाखाᳪं᳭ं᳭ समालम्भयᳪं᳭ं᳭ रोहेत्तादृक्तत्' (९।३।३ । ६) इति । अत्रोक्ता संख्या संख्येयनिष्ठा । एते यज्ञेन कल्पन्ताम् ॥२५॥

षड्विंशी।
त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे पञ्चा॒विश्च॑ मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २६ ।।
उ० अथ वयांसि जुहोति । त्र्यविश्च म इति ॥२६॥२७॥
म० कण्डिकाद्वयं वयोहोमे विनियुक्तम् । तथाच श्रुतिः 'अथ वयाᳪं᳭ं᳭ सि जुहोति त्र्यविश्च म इति पशवो वै वयाᳪं᳭ं᳭ सि पशुभिरेवैनमेतदन्नेन प्रीणात्यथो पशुभिरेवैनमेतदन्नेनाभिषिञ्चति' (९।३ । ३ । ७) इति । अविः षण्मासात्मकः काल: त्रयोऽवयो यस्य स त्र्यविः सार्धसंवत्सरो वृषः तादृशी गौस्त्र्यवी । द्विसंवत्सरो वृषा दित्यवाट् तादृशी गौर्दित्यौही। पञ्चावयो यस्य स पञ्चाविः सार्धद्विसंवत्सरो वृषः तादृशी गौः पञ्चावी। वत्सो वत्सरः त्रयो वत्सा यस्य स त्रिवत्सः त्रिवर्षो वृषः तादृशी गौस्त्रिवत्सा । तुर्यं वर्षं वहतीति तुर्यवाट् सार्धत्रिवर्षो वृषः तादृशी गौस्तुर्यौही । एते यज्ञेन कल्पन्ताम् ॥ २६ ॥

सप्तविंशी।
प॒ष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे वे॒हच्च॑ मेऽन॒ड्वाँश्च॑ मे धे॒नुश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २७ ।।
म० पष्ठं वर्षचतुष्कं वहतीति पष्ठवाट् चतुर्वर्षो वृषः तादृशी गौः पष्ठौही । उक्षा सेचनक्षमो वृषः । वशा वन्ध्या गौः । अतियुवा वृष ऋषभः । वेहद्गर्भघातिनी गौः । अनः शकटं वहतीत्यनड्वान् शकटवहनक्षमो वृषः । वहेः क्विपि | संप्रसारणमनसो डकारः 'चतुरनडुहोरामुदात्तः' (पा. ७ । | १।९०) इति आमागमः । धेनुर्नवप्रसूता गौः । एते मम यज्ञेन निमित्तेन कल्पन्तां स्वस्वव्यापारसमर्था भवन्तु । यद्वा एते यज्ञेन मम कल्पन्तां मह्यमुपभोगक्षमा भवन्त्वित्यर्थः । एवं पूर्वत्र ॥ २७ ॥

अष्टाविंशी।
वाजा॑य॒ स्वाहा॑ प्रस॒वाय॒ स्वाहा॑ऽपि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ऽह॒र्पत॑ये॒ स्वाहाऽह्ने॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनᳪं᳭शि॒नाय॒ स्वाहा॑ विन॒ᳪं᳭शिन॑ आन्त्याय॒नाय॒ स्वाहाऽऽन्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाऽधि॑पतये॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ ।
इ॒यं ते॒ राण्मि॒त्राय॑ य॒न्ताऽसि॒ यम॑न ऊ॒र्जे त्वा॒ वृष्ट्यै॑ त्वा प्र॒जानां॒ त्वाऽऽधि॑पत्याय ।। २८ ।।
उ० अथ नामग्राहं जुहोति । वाजाय स्वाहा इति ॥२४॥ ।
म० अथ नामग्राहहोमः । तथाच श्रुतिः 'अथ नामग्राहं जुहोति वाजाय स्वाहेत्येतद्वै देवाः सर्वान्कामानाप्त्वाथैतमेव प्रत्यक्षमप्रीणंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वाथैतमेव प्रत्यक्षं प्रीणाति' (९।३।३।८) इति । वाजोऽन्नं तस्मै स्वाहेति होममन्त्रः । वाजादीनि चैत्रादिमासानां नामानि तन्नाम गृहीत्वा होतव्यमित्यर्थः । अन्नप्राचुर्याच्चैत्रोऽन्नरूपः। प्रसवायानुज्ञारूपाय जलक्रीडादौ अभ्यनुज्ञादानात्प्रसवो वैशाखः । अपिजाय अप्सु जायत इत्यपिजः सप्तम्या अलुक् । जलक्रीडारतत्वादपिजो ज्यैष्ठः । क्रतवे यागरूपाय चातुर्मास्यादियागप्राचुर्यात्क्रतुराषाढः । वसवे वासयति वसुः चातुर्मास्ये यात्रानिषेधाद्वसुः श्रावणः । अहर्पतये दिनस्वामिने सूर्यरूपाय तापकरत्वाद्भाद्रपदस्याहर्पतिवम् । मुग्धायाह्ने तुषारादिना मोहरूपाय दिवसाय तुषारबाहुल्यान्मुग्धमह आश्विनः । अमुग्धाय वैनशिनाय विनश्यतीति विनंशी 'मस्जिनशोर्झलि' (पा. ७।१।६०) इति बाहुलकादझल्यपि नशेर्नुमागमः । विनंश्येव वैनंशिनः स्वार्थे अण् । अल्पघटिकावत्त्वेन विनाशशीलाय कार्तिकाय स्नाननियमादिना पापनाशकत्वादमुग्धाय मोहनिवर्तकाय कार्तिकाय । अविंशिने आन्त्यायनाय न विनश्यतीत्यविनंशी तस्मै विनाशरहिताय । अन्ते सर्वेषां नाशे भवमन्त्यं तदयनं चेत्यन्त्यायनं सत्र भव आन्त्यायनस्तस्मै सर्वनाशेऽप्यवशिष्टाय । अतएवाविनंशिने विष्णुरूपाय मार्गशीर्षाय । 'मासानां मार्गशीर्षोऽहं' (गीता० १० । ३५) इति स्मृतेः आन्त्याय भौवनाय । भुवनानामयं भौवनः अन्ते स्वरूपे भव आन्त्यस्तस्मै । लोकस्वरूपपुष्टिकरत्वात्तत्रभवत्वम् । जाठराग्नेर्दीप्तिकरत्वेन पुष्टिकरत्वं पौषस्य । भुवनस्य भूतजातस्य पतये पालकाय माघाय । स्नानादिना पुण्यजनकत्वेन पालकत्वं माघस्य । अधिपतये अधिकपालकाय फाल्गुनाय वर्षान्तत्वात् प्रजापतये। एवं द्वादशमासाधिष्ठात्रे प्रजापतिनामकाय देवाय । स्वाहेति होमार्थं सर्वत्र । हे अग्ने, इयं ते तव राट् इदं राज्यं यत्र यत्र यागाः क्रियन्ते तत्तवैव राज्यम् । किंच हे अग्ने, त्वं मित्रस्य सख्युर्यजमानस्य यन्ता नियामकोऽसि । षष्ठ्यर्थे चतुर्थी मित्रायेति । कीदृशस्त्वम् । यमनो यमयतीति यमनः अग्निष्टोमादिकर्मसु सर्वान्नियमयन् । अत ऊर्जे विशिष्टान्नरसाय त्वा त्वामभिषिच्चामीति शेषः । तथा वृष्ट्यै वर्षणाय त्वामभिषिञ्चामि । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः' इति स्मृतेः । ततः प्रजानामाधिपत्याय प्रजास्वामित्वाप्त्यै त्वामभिषिञ्चामि वसोर्धारया । तथा च श्रुतिः 'प्रजानामाधिपत्यायेत्यन्नं वा ऊर्गन्नं वृष्टिरन्नेनैवैनमेतत्प्रीणाति यद्वेवाहेयं ते राण्मित्राय यन्तासि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्यायेतीदं ते राज्यमभिषिक्तोऽसीत्येतन्मित्रस्य त्वं यन्तासि' (९ । ३ । ३ । १०-११) इति ॥ २८॥

एकोनत्रिंशी।
आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ᳪं᳭ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां ब्र॒ह्मा य॒ज्ञेन॑ कल्पतां॒ ज्योति॑र्य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्व॒र्य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ।
स्तोम॑श्च यजु॑श्च॒ ऋक् च॒ साम॑ च बृ॒हच्च॑ रथन्त॒रं च॑ ।
स्व॑र्देवा अगन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ वेट् स्वाहा॑ ।। २९ ।।
उ० अथ कल्पाञ्जुहोति । आयुर्यज्ञेन कल्पतामिति । आयुरादीनि मम यज्ञक्लृप्तानि भवन्तु । यज्ञश्च मम यज्ञेनैव क्लृप्तो भवतु । नाहं यज्ञक्लृप्तौ समर्थः । स्तोमश्च यजुश्च ऋक् च साम च बृहच्च रथन्तरं च यज्ञेन क्लृप्तानि भवन्त्वित्यनुषङ्गः । स्वर्देवा अगन्म हे देवाः, स्वर्गलोकं वयमगन्म । अमृताश्च भूताः प्रजापतेश्च प्रजा अभूमेति फलवचनम् । वेद स्वाहेति होममन्त्रः ॥ २९ ॥
म० कल्पहोमः कल्पतामिति लिङ्गात् । 'अथ कल्पाञ्जुहोति' (९।३ । ३ । १२) इति श्रुतेः । यज्ञेन निमित्तेनायुर्जीवनकालः कल्पतां साध्यतां प्राप्यताम् । प्राणचक्षुःश्रोत्रवाङ्मनांसि मम यज्ञेन क्लृप्तानि भवन्तु । आत्मा देहः 'आत्मेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः' इति स्मृतेः । ब्रह्मा वेदो यज्ञेन कल्पताम् । ज्योतिः स्वयंप्रकाशः परमात्मा यज्ञेन साध्यताम् । पुण्यकर्मानुष्ठानं परमात्मज्ञाने करणम् । 'ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' (१४ । ७।२। २४ ) इति श्रुतेः । 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' (गीता० ३ । २०) इति स्मृतेश्च । स्वः स्वर्गः । पृष्ठं स्तोत्रं स्वर्गस्थानं वा कल्पताम् । यज्ञो यज्ञेनैव क्लृप्तो भवतु नाहं यज्ञक्लृप्तौ समर्थः । 'यज्ञेन यज्ञमयजन्त' देवाः (अ० १३ क. १६) इति श्रुतेः । किंच स्तोमयजुर्ऋक्सामबृहद्रथन्तराणि च यज्ञेन क्लृप्तानि भवन्त्वित्यनुषङ्गः । स्तोमस्त्रिवृत्पञ्चदशादिः यजुरनियतपादो मन्त्रः । ऋक् नियतपादा। साम गीतिप्रधानम् । बृहद्रथन्तरे तद्विशेषौ । वसोर्धारयैवमग्निमभिषिच्यात्मानं यजमानः प्रशंसति । वयं यजमाना देवा भूत्वा स्वः स्वर्गमगन्म गतवन्तः । गमेर्लङि शब्लोपे मस्य नत्वे रूपम् । गत्वा चामृता अमरणधर्मिणोऽभूम भूताः । भवतेर्लुङि रूपम् । ततः प्रजापतेर्हिरण्यगर्भस्य प्रजा अभूमेति फलवचनम् । अनेन वसोर्धारायाः सर्वकामप्राप्तिहेतुत्वमुक्तम् । वेट्स्वाहेति वसोर्धाराहोमार्थो मन्त्रः । वेडिति वषट्कारः । 'वषट्कारो हैष परोऽक्षं यद्वेट्कारो वषट्कारेण वा वै स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयते' (९ । ३ । ३ । १४ ) इति श्रुतेः ॥ २९ ॥
इति वसोर्धाराहोममन्त्राः समाप्ताः ॥

त्रिंशी।
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे ।
यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ।। ३० ।।
उ० वाजप्रसवीयं जुहोति सप्तभिर्ऋग्भिः वाजस्य नु व्याख्यातम् ॥ ३०॥
म० 'वपावत्संभृत्य चमसवत्स्रुवेण वाजपेयिकानि वाजस्येममिति आग्निकानि च वाजस्य न्विति' (का० १८ । ५। ४।५)। क्षेत्रवपनवत्सर्वोषधमौदुम्बरे चमसे संभृत्य तस्मात्सर्वोषधाच्चमसवत्स्रुवेणेत्यौदुम्बरेण चतुष्कोणपुष्करेण स्रुवेण वाजस्येमं प्रसव इति सप्तमन्त्रैः ( ९ । २३-३०) सप्त वाजपेयसंबन्धीनि वाजप्रसवीयानि हुत्वा वाजस्य नु प्रसवे इत्यादिसप्तमन्त्रैः प्रतिमन्त्रमाग्निकानि सप्त वाजप्रसवीयानि । तस्मादेव सर्वोषधात्तेनैव स्रुवेण जुहोतीति सूत्रार्थः ॥ व्याख्याता ( अ० ९ । क० ५) ॥ ३० ॥

एकत्रिंशी।
विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नय॒: समि॑द्धाः ।
विश्वे॑ नो दे॒वा अव॒साऽऽग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ।। ३१ ।।
उ० विश्वे अद्य वैश्वदेवी त्रिष्टुप् व्यवहितपदप्रायः । विश्वे अद्य मरुतः अद्य अस्मिन्द्यवि आगमन्त्वित्यनुषङ्गः । विश्वऊती । विश्व इति सर्वनाम सामान्यदेवतागणप्रतिपत्तिजनकमतस्तन्निराकाङ्क्षीकरणाय विशिष्टो देवतागण इहाध्याह्रियते। विश्वे च देवगणा वसवो रुद्रा आदित्या अद्य ऊती ऊत्या अवनेन तर्पणेन निमित्तभूतेन आगमन्तु । तदागमनेन च विश्वे भवन्तु अग्नयः गार्हपत्यप्रभृतयः समिद्धाः सम्यग्दीप्ताः। विश्वेदेवाश्च नोऽस्माकम् अवसान्नेन हविर्लक्षणेन निमित्तभूतेन आगमन्तु आगच्छन्तु । तेषां च तुष्ट्या विश्वं सर्वं वसु द्रविणं भूमिहिरण्यादिधनं वाजश्चान्नं च अस्मे अस्माकमस्तु ॥ यद्वान्यथा संबन्धः। विश्वे मरुतः अद्य आगच्छन्तु । विश्वे च देवगणाः ऊत्या निमित्तभूतया आगमन्तु । विश्वे च देवा अवसा निमित्तभूतेन आगमन्तु । तदागमनेन च विश्वे भवन्तु अग्नयः समिद्धाः । होमार्थं हि अग्नयः प्रज्वाल्यन्ते । ततो यागोत्तरकालम् । विश्वमस्तु द्रविणं वाजो अस्मे ॥ ३.१ ॥
म० लुशोधानाकदृष्टा वैश्वदेवी त्रिष्टुप् । अद्यास्मिन् दिने विश्वे सर्वे मरुतः सप्तकगणा आगमन्तु आगच्छन्तु । छत्वाभावे रूपम् । विश्वे अन्ये च सर्वे गणदेवता वसवो रुद्रा आदित्याश्च ऊती ऊत्या पूर्वसवर्णः । अनेन तर्पणेन निमित्तेनागमन्तु तृप्त्यर्थमागच्छन्त्वित्यर्थः । विश्वेदेवाः च गणदेवता नोऽस्माकमवसान्नेन हविषा निमित्तेन हविर्ग्रहणायागमन्तु । तदागमनेन च विश्वे सर्वेऽग्नयः गार्हपत्यादयः समिद्धाः सम्यग्दीप्ता भवन्तु तदर्थं होमेनेत्यर्थः । तेषां देवानां तुष्ट्या विश्वं सर्वं द्रविणं धनं गोभूहिरण्यादि वाजोऽन्नं चास्मेऽस्माकमस्तु । विभक्तेः शेआदेशः ॥ ३१ ॥

द्वात्रिंशी।
वाजो॑ नः स॒प्त प्र॒दिश॒श्चत॑स्रो वा परा॒वत॑: । वाजो॑ नो॒ विश्वै॑र्दे॒वैर्धन॑सातावि॒हाव॑तु ।। ३२ ।।
उ० वाजो नः । अनुष्टुप् वाजो देवता । वाजोऽन्नं नोऽस्माकं सप्त प्रदिशः चतस्रो दिशः प्रकृष्टाश्च त्रयो लोकाः सप्त प्रदिशः उक्ताः । चतस्रो वा परावतः । वाशब्दः समुच्चयार्थीयः । चतस्रश्च परावतः । परावच्छब्दो दूरवचनः । महः जनः तपः सत्यमित्येते लोका उच्यन्ते । ते हि तान् लोकानतीत्य वर्तन्ते । आपूरयन्त्विति शेषः । किंच वाजः नः अस्मान् विश्वैर्देवैः सह धनसातौ धनसंभजनकाले प्राप्ते इह यज्ञे इह वा लोके अवतु पालयतु ॥ ३२ ॥
म० तिस्रोऽन्नदेवत्याः तत्राद्यानुष्टुप् द्वे त्रिष्टुभौ । नोऽस्माकं वाजोऽन्नं सप्त प्रदिशः भूरादिलोकत्रयं प्राच्यादिदिक्चतुष्कम् परावतः दूरस्थाश्चतस्रश्च महर्जनतपःसत्याख्याश्चापूरयत्विति शेषः । वाशब्दश्चार्थः । यद्वा अस्माकं वाजोऽन्नं सप्त प्रदिशश्चतस्रो महराद्याश्चावतु प्रीणातु । प्रशब्देन प्रकृष्टं लोकत्रयम् । दिशः प्राच्याद्याः । परावच्छब्दो दूरार्थः । महरादयो हि लोकत्रयमतीत्य वर्तन्ते । अस्मद्दत्तान्नेन सप्तलोका दिक्चतुष्कं च तृप्यत्वित्यर्थः । किंच धनसातौ 'षण संभक्तौ क्तिन्नन्तो निपातः । धनस्य सातौ संभजनकाले प्राप्ते वाजोऽन्नं नोऽस्मान् विश्वैर्देवैः सहावतु पालयतु । इहास्मिन् लोके यज्ञे वा यदास्माकं धनेच्छा जायते तदा देवतर्पणक्षमं बह्वन्नमस्त्विति वाक्यार्थः ॥ ३२ ॥

त्रयस्त्रिंशी।
वाजो॑ नो अ॒द्य प्र सु॑वाति॒ दानं॒ वाजो॑ दे॒वाँ२।। ऋ॒तुभि॑: कल्पयाति ।
वाजो॒ हि मा॒ सर्व॑वीरं ज॒जान॒ विश्वा॒ आशा॒ वाज॑पतिर्जयेयम् ।। ३३ ।।
उ० वाजो नः । द्वे अनुष्टुभौ वाजदेवत्ये । वाजः नः अस्माकम् अद्य प्रसुवाति अभ्यनुजानातु दानम् वाजश्च देवान् ऋतुभिः कालैः सह कल्पयतु यथास्थानम् । वाजो हि मा सर्ववीरं जजान । हिशब्दः समुच्चयार्थीयः । वाजश्च मां सर्ववीरं जनयतु । ततो विश्वा आशाः वाजपतिः सन् जयेयमित्याशीः ॥ ३३ ॥
म० अद्यास्मिन्दिने वाजोऽन्नमन्नाधिष्ठात्री देवता नोऽस्मान् प्रसुवाति प्रेरयतु अनुजानातु । दानार्थमिति शेषः। अन्नदानेच्छास्माकं भवत्वित्यर्थः । वाजः ऋतुभिः कालैः सह देवान् कल्पयाति यथास्थानं कल्पयतु । 'लेटोऽडाटौ' यस्मिन् काले यो देवो यष्टव्यस्तं तत्र यजत्वित्यर्थः । हि चकारार्थः । वाजश्व मा मां सर्ववीरं सर्वे वीराः पुत्रपौत्रादयो यस्य स सर्ववीरस्तादृशं जजान जनयतु । 'छन्दसि लुङ्लङ्लिटः' पुत्रादियुतं मां करोत्वित्यर्थः । ततो वाजपतिः समृद्धान्नः सन्नहं विश्वा आशाः सर्वा दिशो जयेयम् । अन्नदानेन सर्वा दिशो वशीकुर्यामित्यर्थः ॥ ३३ ॥

चतुस्त्रिंशी।
वाज॑: पु॒रस्ता॑दु॒त म॑ध्य॒तो नो॒ वाजो॑ दे॒वान् ह॒विषा॑ वर्धयाति ।
वाजो॒ हि मा॒ सर्व॑वीरं च॒कार॒ सर्वा॒ आशा॒ वाज॑पतिर्भवेयम् ।। ३४ ।।
 उ० वाजः पुरस्तात् । वाजः अन्नं पुरस्तात् अस्त्विति वाक्यशेषः । उत मध्यतो नः अस्माकमस्तु वाजः । वाजश्च देवान्हविषा वर्धयाति वर्धयतु । अस्माकम् वाजश्च मां सर्ववीरं च करोतु । ततः सर्वा आशा दिशः वाजपतिः सन् भवेयम् । दिग्रूपतया व्यापकता प्रार्थ्यते ॥ ३४ ॥
म० वाजोऽन्नं नोऽस्माकं पुरस्तादस्तु । उतापि च नोऽस्माकं मध्यतो गृहमध्ये च वाजोऽस्तु । नोऽस्माकं वाजो हविषां कृत्वा देवान्वर्धयाति वर्धयतु पुष्णातु । हि चार्थे । वाजो मा सर्ववीरं पुत्रादियुतं चकार करोतु । वाजपतिरन्नपालकः सन्नहं विश्वा आशाः सर्वा दिशो भवेयम् । दिग्रूपतया व्यापकता प्रार्थ्यते । यद्वा विश्वा आशा भवेयं प्राप्नुयाम् । वशीकुर्यामित्यर्थः । । भू प्राप्तौ ॥ ३४ ॥

पञ्चत्रिंशी।
सं मा॑ सृजामि॒ पय॑सा पृथि॒व्याः सं मा॑ सृजाम्य॒द्भिरोष॑धीभिः ।
सो॒ऽहं वाज॑ᳪं᳭ सनेयमग्ने ।। ३५ ।।
उ० सं मा । विराजौ आग्नेयौ वा । सोऽहं वाजमिति तच्छब्दयोगाद्यदोऽध्याहारः । सं मा सृजामि मा माम् आत्मानं पयसा रसेन पृथिव्याः संबन्धिना संसृजामि । संसृजामि च मा माम् । आत्मानं अद्भिः ओषधीभिश्च । सोऽहं संसृष्टपयःप्रभृतिशरीरः । वाजं सनेयं संभजेयम् । हे अग्ने, त्वत्प्रसादात् । यद्वा अग्निरेवोच्यते । अस्मदादेशस्य माशब्दस्य त्वाशब्दं कृत्वा युक्ततरमेतद्व्याख्यानम् । योऽहं हे अग्ने, संसृजामि त्वां पयसा पृथिव्याः संसृजामि च त्वामद्भिरोषधीभिश्च । होमाभिप्रायः संसर्गः। सोहं वाजं सनेयमिति॥३५॥
म०. द्वे विराजौ । दशकास्त्रयो विराडेकादशका वेत्युक्तेरेकादशाक्षरत्रिपादा विराट् । तृतीयो व्यूहेन दशकस्तेनैकोना। सोऽहमिति तच्छब्दश्रवणाद्यदोऽध्याहारः । हे अग्ने, योऽहं पृथिव्याः पयसा पृथिवीसंबन्धिरसेन मामात्मानं संसृजामि संयोजयामि । अद्भिरोषधीभिश्च मां संसृजामि । सोऽहं संसृष्टपयोऽबोषधिशरीरः सन् । वाजमन्नं सनेयं संभजेयम् । यद्वा व्यत्ययेनास्मच्छब्दस्य युष्मदादेशः । हे अग्ने, योऽहं त्वं पृथिव्याः पयसाद्भिरोषधीभिश्च त्वां संसृजामि होमेन सोऽहं वाजं सनेयम् ॥ ३५॥

षट्त्रिंशी।
पय॑: पृथि॒व्यां पय॒ ओष॑धीषु॒ पयो॑ दि॒व्यन्तरि॑क्षे॒ पयो॑ धाः ।
पय॑स्वतीः प्र॒दिश॑: सन्तु॒ मह्य॑म् ।। ३६ ।।
उ० पयः पृथिव्याम् । विराट् अग्निरुच्यते हविर्वा । पयः पृथिव्यां धाः निधेहि । पयश्च ओषधीषु धाः । पयो दिवि धाः । अन्तरिक्षे पयो धाः । आहुतिपरिणामाभिप्रायमेतत् । किंच पयस्वतीः पयःसंयुक्ताः प्रदिशः दिशो विदिशश्च सन्तु भवन्तु मह्यम् ॥ ३६ ॥
म० हे अग्ने, त्वं पृथिव्यां पयो रसं धाः धेहि स्थापय । दधातेर्लुङि मध्यमैकवचने रूपम् । 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । ओषधीषु च पयो धाः। दिवि स्वर्गे च पयो धाः। अन्तरिक्षे च पयो धाः । किंच मह्यं मदर्थे प्रदिशः दिशो विदिशश्च पयस्वतीः पयस्वत्यो रसयुताः सन्तु । आहुतिपरिणामेन पृथिव्यादयो ममाभीष्टदा भवन्त्वित्यर्थः ॥ ३६ ॥

सप्तत्रिंशी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेः साम्रा॑ज्येना॒भिषि॑ञ्चामि ।। ३७ ।।
उ० अभिषिञ्चति यजमानम् । देवस्य त्वेति व्याख्यातम् । सरस्वत्यै वाचो यन्तुर्यन्त्रेण यमनेन अग्नेश्च साम्राज्येन अभिषिञ्चामि ॥३७॥
म० 'स्रुवं प्रास्य परिश्रित्स्पृक् कृष्णाजिनमास्तीर्य पुच्छादुत्तरᳪं᳭ शेषेऽपः कृत्वाभिषेकसामर्थ्यात् क्षीरोदके वा वाजपेयिकानीति श्रुतेस्तत्राभिषिच्यते ब्रह्मवर्चसकामश्चित्यन्वारब्धो देवस्य त्वेति' (का. १८।५।६-९) । अस्यार्थः । कर्मापवर्गे औदुम्बरं चतुष्कोणं स्रुवमाहवनीये प्रक्षिप्याग्निपुच्छादुत्तरदिशि परिश्रित्संलग्नं प्राग्ग्रीवमुत्तरलोम कृष्णाजिनमास्तीर्य तत्र स्थितो ब्रह्मवर्चसकामो यजमानश्चयनकृतान्वारम्भोऽध्वर्युणा सर्वोषधशेषेणाभिषिच्यते । किं कृत्वा । सर्वौषधशेषेऽपो जलानि कृत्वा । अभिषेकस्यैव द्रव्यसाध्यत्वात् अयं पूर्वपक्षः । सिद्धान्तमाह क्षीरोदके वेति । वा पूर्वपक्षनिरासे । 'शेषे जलसेको न यतस्तत्र क्षीरोदके विद्येते वाजपेयिकानि' (९।३ । ४ । ७।) इति श्रुतेः । अत्र वाजपेयसंबन्धीनि वाजप्रसवीयानि श्रूयन्ते तत्रोदकक्षीरे स्त एव । औदुम्बरे पात्रेऽप आसिच्य पयश्चेत्युक्तेः (कात्या० १४ । ५। १६)। अतस्तस्मिन्मिश्रेणैवाभिषेको न जलसेक इत्यर्थः । देवस्य त्वा । व्याख्यातम् । सरस्वत्यै लिङ्गोक्तदेवतं यजुः । सरस्वत्यै षष्ठ्यर्थे | चतुर्थी । सरस्वतीसंबन्धिन्या वाचो वाण्या यन्तुर्नियन्तुः प्रजापतेः यन्त्रेण नियमेन अग्नेश्च साम्राज्येन चक्रवर्तित्वेन हे यजमान, त्वामभिषिञ्चामि । मत्कृताभिषेकेण वाक्सिद्धिरैश्वर्यं साम्राज्यं च तव संपद्यन्तामित्यर्थः ॥ ३७॥

अष्टत्रिंशी।
ऋ॒ता॒षाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्तस्यौ॑षधयोऽप्स॒रसो॒ मुदो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ३८ ।।
उ० राष्ट्रभृतो जुहोति । द्वादश यजूंषि स नो भुवनस्य पत इत्येतस्याः प्राक् ऋताषाडित्यादीनि । अग्निरुच्यते ऋताषाट् । ऋतं सत्यं सहतीति ऋताषाट् । ऋतं सत्यं धाम स्थानं यस्य स तथोक्तः । अग्निर्गन्धर्वः तस्य चाग्नेर्गन्धर्वस्य ओषधयोऽप्सरसः । तासां च मुदः नाम । ओषधीभिहींदं सर्वं मोदत इति मुदः । सोऽग्निर्गन्धर्वः नः अस्माकम् इदं ब्रह्म इदं च क्षत्रं पातु । तस्मै स्वाहावाट् । ताभ्यश्च ओषधीभ्यः स्वाहा ॥३८॥
म० 'द्वादशगृहीतं विग्राहं जुहोत्यृताषाडिति' (का. १८ । ५ । १६) प्रतिस्वाहाकारᳪं᳭ राष्ट्रभृतो वाट्कारान्तः पूर्वः पूर्वो मन्त्रः । आज्याद्द्वादशगृहीतं गृहीत्वा विभज्य द्वादशांशं कृत्वा ऋतेत्यादिद्वादशमन्त्रैः प्रतिस्वाहाकारं राष्ट्रभृत्संज्ञा आहुतीर्जुहोति । व्यतिषक्तेषु द्वादशमन्त्रेषु पूर्वो मन्त्रः स्वाहावाडित्यन्तः उत्तरस्ताभ्यः स्वाहेत्यन्तः । ततो मन्त्रे यानि पुंलिङ्गानि स न इदं ब्रह्मेत्यादीनि तानि व्यवहितपठितान्यप्यपकृष्य पठित्वा पूर्वो मन्त्रः संपाद्यः । यानि च स्त्रीलिङ्गानि तस्यौषधयोऽप्सरस इत्यादीनि तान्युत्कृष्योत्तरो मन्त्रः संपाद्य इत्यर्थः । द्वादश यजूंषि गन्धर्वाप्सरोदेवत्यानि । तत्रायं विभागः । ऋताषाडृतधामाग्निर्गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाडिति वाडन्तः पूर्वः पूर्वो मन्त्रः। तस्यौषधयोऽप्सरसो मुदो नाम ताभ्यः स्वाहेति स्वाहान्त उत्तर उत्तरो मन्त्रः । पूर्वो गन्धर्वदेवत्यः उत्तरोऽप्सरोदेवत्यः । एवं पञ्चकण्डिकास्वप्यग्रे मन्त्रविभागो ज्ञेयः । तथाच श्रुतिः 'पुᳪं᳭से पूर्वस्मै जुहोत्यथ स्त्रीभ्यः पुमाᳪं᳭सं वद्वीर्येणादधात्येकस्मा इव पुᳪं᳭से जुहोति बह्वीभ्य इव स्त्रीभ्यस्तस्मादप्येकस्य पुᳪं᳭सो बह्व्यो जाया भवन्त्युभाभ्यां वाट्कारेण च स्वाहाकारेण च पुᳪं᳭से जुहोति स्वाहाकारेणैव स्त्रीभ्यः पुमाᳪं᳭समेव तद्वीर्येणादधाति' (९।४।१।६) इति । तथा चैवमृताषाट् संहितः सुषुम्णः इषिरः भुज्युः प्रजापतिरिति षण्णां पूर्वमन्त्राणामृताषाडित्यादिनामका गन्धर्वा देवताः । तस्यौषधयः तस्य मरीचयः तस्य नक्षत्राणि तस्यापः तस्य दक्षिणाः तस्य ऋक्सामानीति षष्णामुत्तरमन्त्राणामोषध्यादिनामका अप्सरसो देवताः । अथ मन्त्रार्थः । योऽग्निर्गन्धर्वः स नोऽस्माकमिदं ब्रह्म ब्राह्मणजातिमिदं क्षत्रं क्षत्रजातिं च पातु रक्षतु । कीदृशो गन्धर्वः । ऋताषाट् ऋतं सत्यं सहत इति ऋतषाट् सत्यं सहते असत्ये कुपितो भवतीत्यर्थः । 'सहेः साडः सः' (पा० ८।३। ५६) इति षत्वम् । पूर्वपदस्य छान्दसो दीर्घः । तथा ऋतधामा ऋतं सत्यमविनश्वरं धाम स्थानं यस्य ऋतधामा । य ईदृशोऽग्निः तस्मै अग्नये गन्धर्वाय स्वाहा वाट् वषट्कारेण सुहुतमस्त्वित्येको मन्त्रः । तस्याग्नेर्गन्धर्वस्यौषधयो व्रीह्याद्या नाम नाम्ना अप्सरसः स्त्रीत्वेन भोग्याः । कीदृश्य ओषधयः । मुदः मोदन्ते जना याभिस्ता मुदः 'ओषधयो वै मुद ओषधीभिहींदᳪं᳭ सर्वं मोदते' (९।४।१।७) इति श्रुतेः ओषधयोऽग्नेर्भोग्याः । तथाच श्रुतिः 'अग्निर्ह गन्धर्व ओषधीभिरप्सरोभिर्मिथुनेन सहोच्चक्राम' (९ । ४।१।७) इति । ताभ्य ओषधीभ्यः स्वाहा सुहुतमस्तु ॥ ३८ ॥

एकोनचत्वारिंशी।
स॒ᳪं᳭हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒युवो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ३९ ।।
उ० सᳪं᳭हितो विश्वसामा यः सूर्यः संहितः एष ह्यहोरात्रे संदधातीति संहितः सूर्यः । विश्वसामा एष ह्येव सर्वं साम । तस्य मरीचयोऽप्सरसः मरीचयस्त्रसरेणवः । आयुवो नाम आयुव इव हि मरीचयः प्लवन्त इत्यायुवः मिश्रयन्त इत्यर्थः । तुल्यव्याख्यानमन्यत् ॥ ३९ ॥
म० यः सूर्यो गन्धर्वः स नोऽस्माकमिदं ब्रह्म क्षत्रं च पातु । कीदृशः । संहितः संदधात्यहोरात्रे इति संहितः 'असौ वा आदित्यः सᳪं᳭हितः एष ह्यहोरात्रे संदधाति' (९।४। १।८) इति श्रुतेः । विश्वसामा विश्वानि सर्वाणि सामानि प्रतिपादकत्वेन यस्य स विश्वसामा सर्वसामरूपो वा । 'विश्वसामेत्येष ह्येव सर्वᳪं᳭साम' (९ । ४ । १।८) इति श्रुतेः । 'यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानी' ति च । तस्मै सूर्याय स्वाहा वाट् । तस्य सूर्यस्य मरीचयो नामाप्सरसः तेजस्त्रसरेणवः 'सूर्यो ह गन्धर्वो मरीचिभिरप्सरोभिर्मिथुनेन सहोच्चक्राम' (९। ४ । १।८) इति श्रुतेः। कीदृश्यो मरीचयः । आयुवः आ समन्ताद्युवन्ति मिश्रीभवन्त्यायुवः । 'आयुवाना इव हि मरीचयः प्लवन्ते' (९।४।१।८) इति श्रुतेः। | ताभ्यो मरीचिभ्यः स्वाहा ॥ ३९ ॥

चत्वारिंशी।
सु॒षु॒म्णः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यप्स॒रसो॑ भे॒कुर॑यो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ४० ।।
उ० सुषुम्णः सूर्यरश्मिः । यः सुषुम्णः सुयज्ञियः। सूर्यस्येव हि चन्द्रमसो रश्मयः । चन्द्रमा गन्धर्वः तस्य नक्षत्राणि अप्सरसः । भेकुरयो नाम भाः हि नक्षत्राणि कुर्वन्तीति भेकुरयो नक्षत्राणि । तुल्यमन्यत् ॥ ४० ॥
म० यश्चन्द्रमा गन्धर्वः स नोऽस्माकमिदं ब्रह्म क्षत्रं च पातु । कीदृशः । सुषुम्णः शोभनं सुम्नं सुखं यस्मात् सुयज्ञियः | यज्ञद्वारा सुखप्रदः । याज्ञिकानां चन्द्रलोकाप्तेरुक्तत्वात् । तथाच सूर्यरश्मिः सूर्यस्येव रश्मयः किरणा यस्य । 'सुषुम्ण इति सुयज्ञिय इत्येतत् सूर्यरश्मिरिति सूर्यस्येव हि चन्द्रमसो रश्मयः' (९। ४ । १ । ९) इति श्रुतेः । तस्मै चन्द्रमसे स्वाहा वाट् । तस्य चन्द्रमसः नक्षत्राणि नाम अप्सरसः । कीदृश्यः । भेकुरयः भां कान्तिं कुर्वन्तीति भेकुरयः । पृषोदरादित्वात् साधुः । 'चन्द्रमा ह गन्धर्वो नक्षत्रैरप्सरोभिर्मिथुनेन सहोच्चक्राम भेकुरयो नामेति भाकुरयो ह नामैते भाᳪं᳭ हि नक्षत्राणि कुर्वन्ति' ( ९ । ४ । १।९) इति श्रुतेः । ताभ्यो नक्षत्राप्सरोभ्यः स्वाहा ॥ ४० ॥

एकचत्वारिंशी।
इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो॑ अप्स॒रस॒ ऊर्जो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ४ १ ।।
उ० इषिरो विश्वव्यचाः । य इषिरः क्षिप्रः । 'इषु गतौ' तस्य इषिरः । विश्वव्यचाः सर्वतोगमनः । वातो गन्धर्वः तस्यापो अप्सरस ऊर्जोनाम । आपो वा ऊर्जः अद्भ्यो ह्यग्निर्जायते । तुल्यव्याख्यानमन्यत् ॥ ४१ ॥
म० यो वातो वायुर्गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् सुहुतमस्तु । कीदृशो वातः । इषिरः 'इष गतौ' दिवादिः । इष्यति गच्छतीति इषिरः । औणादिक इरप्रत्ययः । शीघ्रगमनः । विश्वव्यचाः विश्वस्मिन् व्यचो गमनं यस्य स विश्वव्यचाः सर्वतोगमनः । 'इषिर इति क्षिप्र इत्येतद्विश्वव्यचा इत्येष हीदᳪं᳭ सर्वं व्यचः करोति' (९ । ४ । १। १०) इति श्रुतेः । तस्यापो नामाप्सरसः वातो ह गन्धर्वोऽद्भिरप्सरोभिर्मिथुनेन सहोच्चक्राम' (९ । ४ । १ । १०) इति श्रुतेः । कीदृश्यः । ऊर्जः ऊर्जयन्ति जीवयन्ति धान्योत्पादनेनेत्यूर्जः । 'आपो वा ऊर्जाऽद्भ्यो ह्यूर्ग् जायते' (९ । ४ । १ । १०) इति श्रुतेः । ताभ्योऽद्भ्योऽप्सरोभ्यः स्वाहा ॥ ४१ ॥

द्विचत्वारिंशी।
भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णा अप्स॒रस॑स्ता॒वा नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ४२ ।।
उ० भुज्युः सुपर्णः । यज्ञो वै भुज्युः यज्ञो हि सर्वाणि भूतानि भुनक्ति पालयति । सुपर्णः शोभनपतनः । यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसस्स्तावा नाम । दक्षिणा वै स्तावा दक्षिणाभिर्हि यज्ञः स्तूयते । यथा यो वै कश्चन दक्षिणां ददाति स्तूयत एव सः । तुल्यमन्यत् ॥ ४२ ॥
म० यो यज्ञो गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् । कीदृशो यज्ञः । भुज्युः भुनक्ति पालयति भूतानीति भुज्युः । 'यज्ञो हि सर्वाणि भूतानि भुनक्ति' ( ९ । ४ । १। ११) इति श्रुतेः । सुपर्णः शोभनं पर्णं पतनं स्वर्गगमनं यस्य सः यज्ञे स्वर्गे गते यजमानो गच्छति । तस्य यज्ञस्य दक्षिणा नाम अप्सरसः । यज्ञो ह गन्धर्वो दक्षिणाभिरप्सरोभिर्मिथुनेन सहोच्चक्राम' ( ९ । ४ । १ । ११) इति श्रुतेः। कीदृश्यः । स्तावाः स्तूयते यज्ञो यजमानश्च याभिस्ताः स्तावाः 'दक्षिणाभिर्हि यज्ञः स्तूयतेऽथो यो वै कश्चन दक्षिणां ददाति स्तूयत एव सः' (९। ४ । १ । ११) इति श्रुतेः । ताभ्यो दक्षिणाभ्यः स्वाहा ॥ ४२ ॥

त्रिचत्वारिंशी।
प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑ ऋक्सा॒मान्य॑प्स॒रस॒ एष्ट॑यो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ४३ ।।
उ० प्रजापतिरिति । प्रजापतिर्विश्वकर्मा सहीदं सर्वमकरोत् स नो गन्धर्वस्तस्य ऋक्सामानि अप्सरसः एष्टयो नाम । ऋक्सामानि वा एष्टयः । ऋक्सामैर्ह्याशासते इति नः अस्तु इत्थं नः अस्त्विति । तुल्यमन्यत् ॥ ४३ ॥
म० यो मनोरूपो गन्धर्वः स न इदं ब्रह्म क्षत्रं च पातु तस्मै मनसे गन्धर्वाय स्वाहा वाट् हविर्दत्तम् । कीदृशो गन्धर्वः । प्रजापतिः प्रजायाः पालकः । विश्वकर्मा विश्वं सर्वं करोतीति 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५) इति | करोतेर्मनिन् । 'स हीदᳪं᳭ सर्वमकरोत्' (९ । ४।१।१२) इति श्रुतेः । तस्य मनसो गन्धर्वस्य ऋक्सामान्यपसरसः । नाम प्रसिद्धम् । कीदृश्यः । एष्टयः इष्यते काङ्क्ष्यतेऽभीष्टं याभिस्ता एष्टयः । 'मनो ह गन्धर्व ऋक्सामैरप्सरोभिर्मिथुनेन सहोच्चक्रामेष्टयो नामेत्यृक्सामानि वा एष्टय ऋक्सामैर्ह्याशासत इति नोऽस्त्वित्थं नोऽस्तु' (९ । ४ । १ । १२) इति श्रुतेः । ताभ्योऽप्सरोभ्यः स्वाहा सुहुतमस्तु ॥ ४३ ॥

चतुश्चत्वारिंशी।।
स नो॑ भुवनस्य पते प्रजापते॒ यस्य॑ त उ॒परि॑ गृ॒हा यस्य॑ वे॒ह ।
अस्मै॒ ब्रह्म॑णेऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा॑ ।। ४४ ।।
उ० रथशिरसि जुहोति । स नो भुवनस्य प्राजापत्या प्रस्तारपङ्क्तिः । हे भुवनस्य पते प्रजापते, यस्य ते तव उपरि अमुष्मिँल्लोके गृहा यस्य वा इह अस्मिन् लोके । स त्वं नः अस्माकम् । व्यवहितोयं संबन्धः । अस्मै ब्रह्मणे अस्मै क्षत्राय महि महत् । शर्म शरणम् यच्छ देहि स्वाहा ॥ ४४ ॥
म० 'पञ्चगृहीतं च रथशिरस्यध्याहवनीयं ध्रियमाणे पञ्चकृत्वः स नो भुवनस्येति' (का० १८ । ५। १७)। राष्ट्रभृद्धोमानन्तरं पूर्वसंस्कृतादेवाज्यात्पञ्च गृहीत्वाहवनीयोपरि प्रतिप्रस्थात्रादिना धार्यमाणे रथशिरसि तदाज्यं पञ्चधा विभज्य पञ्चकृत्वो जुहोति पञ्चवारं मन्त्र इति सूत्रार्थः । प्रजापतिदेवत्या प्रस्तारपङ्क्तिः । आद्यौ द्वादशकावन्त्यावष्टकौ सा प्रस्तारपङ्क्तिः । तृतीयोऽत्र नवकः । हे भुवनस्य पते पालक, हे प्रजापते, यस्य ते तवोपरि स्वर्गे गृहाः सन्ति । वाथवा यस्य त इह भूलोके गृहाः सन्ति स त्वं नोऽस्माकमस्मै ब्रह्मणे ब्राह्मणायास्मै क्षत्राय क्षत्रियाय च महि महत् शर्म सुखं यच्छ देहि । स्वाहा सुहुतमस्तु ॥ ४४ ॥

पञ्चचत्वारिंशी ।
स॒मु॒द्रो॒ऽसि॒ नभ॑स्वाना॒र्द्रदा॑नुः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ ।
मारु॒तो॒ऽसि म॒रुतां॑ ग॒णः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ऽव॒स्यूर॑सि॒ दुव॑स्वाञ्छ॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ ।। ४५ ।।
उ० वातहोमाञ्जुहोति । समुद्रोऽसीति त्रीणि यजूंषि त्रिलोकस्थानं वायुं लोकद्वारेण स्तुवन्ति । यस्त्वं हे वायो, समुद्रोऽसि समुन्दोऽसि । नभस्वांश्च नभस् इति नक्षत्राण्युच्यन्ते । तानि हि नितरां भान्ति तैः संयुक्तो नभस्वान् । आर्द्रदानुश्च एष ह्यार्द्रं ददाति वृष्ट्यवश्यायादि । तं त्वां प्रार्थये शंभूः मयोभूश्च शं भावयतीति शंभूः । मयः सुखं भावयतीति मयोभूः । अभि मा वाहि अभि मां वाहि स्वाहा । मारुतोऽसि यस्त्वं मारुतोऽसि मरुतां पुरोवातप्रभृतीनां वातानां प्रकृतिभूतोऽसि । मरुतां शुक्रज्योतिःप्रभृतीनां गणोऽसि तं त्वां ब्रवीमि । शंभूश्च मयोभूश्च भूत्वा अभि मां वाहि स्वाहा । अवस्यूरसि यस्त्वमवस्यूरसि । अवनं तर्पणं रक्षणं वा तत्सीव्यतीत्यवस्यूः । 'षिवु तन्तुसंताने' इत्यस्य 'च्छ्वोः शूडनुनासिके च' इति क्विपि कृते संप्रसारणे च अवस्यूः । दुवस्वांश्च दुवश्च हविर्लक्षणमन्नमुच्यते । हविर्लक्षणेनान्नेन युक्तश्च आर्द्रदानुश्च । तं त्वां याचे । शंभूर्मयोभूरित्यादि ॥ ४५ ॥
म० 'वातहोमाञ्जुहोत्यञ्जलिनाहृत्य बहिर्वेदेरधो दक्षिणतो धुर्युत्तरत उत्तरस्यां दक्षिणतो दक्षिणाप्रष्ठे समुद्रोऽसीति प्रतिमन्त्रम्' ( का० १८।६।१)। रथहोमानन्तरं तं रथमग्नेरुत्तरतो वेदौ प्राङ्मुखमवस्थाप्य तस्य स्थानत्रये त्रीन् वायुहोमान् जुहोति प्रतिमन्त्रं मन्त्रत्रयेण । रथयुगदक्षिणधुरोऽधो प्रथमम् उत्तरधुरोऽधो द्वितीयम् युगमध्याधस्तृतीयम् । किं कृत्वा बहिर्वेदेरञ्जलिना वा तमानीयेति सूत्रार्थः । वायव्यानि त्रीणि यजूंषि । त्रिलोकस्थो वायुः स्तूयते । हे वायो, यस्त्वमीदृशोऽसि स त्वं मा मामभिवाहि मदभिमुखमागच्छ स्वाहा सुहुतं तेऽस्तु । 'वा गतिगन्धनयोः' लोट् मध्यमैकवचनम् । कीदृशः। समुद्रः सम्यक् उन्दति जलैः क्लिन्नो भवतीति समुद्रः । 'उन्दी क्लेदे' रक्प्रत्ययः । नभस्वान् नभांसि नक्षत्राणि विद्यन्ते यत्र सः । आर्द्रदानुः आर्द्रं वृष्ट्यवश्यायादिकं ददातीत्यार्द्रदानुः । शंभूः शमैहिकं सुखं भावयति प्रापयतीति शंभूः । मयोभूः मयः पारलौकिकं सुखं भावयतीति मयोभूः स्वर्लोकरूपोऽसि । 'असौ वै लोकः समुद्रः' ( ९ । ४ । २।५) इति श्रुतेः । स मामभिवाहि । मरुतां वातानामयं मारुतः । मरुतां शुक्रज्योतिःप्रभृतीनां गणः तन्निवासत्वात् । 'अन्तरिक्षलोको वै मारुतः' (९।४ । २।६) इति श्रुतेः । शंभूः मयोभूः त्वं मामभिवाहि पूर्ववत् । अव अवनं रक्षणं सीव्यतीत्यवस्यूः 'षिवु तन्तुसन्ताने' क्विप् 'छ्वोः शूडनुनासिके च' (पा० ६। ४ । १९ ) ऊठि कृते यणादेशः । 'अयं वै लोकोऽवस्यूः' ( ९ । ४ । २ । ७) इति श्रुतेः भूलोकरूपोऽसि । दुवस्वान्दुवोऽन्नं हविर्लक्षणं विद्यते यस्य सः शंभूरित्यादि पूर्ववत् ॥ ४५ ॥

षट्चत्वारिंशी।
यास्ते॑ अग्ने॒ सूर्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभि॑: ।
ताभि॑र्नो अ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि ।। ४६ ।।
उ० रुक्मवतीर्जुहोति । यास्ते द्वे व्याख्याते ॥४६॥४७॥
म० 'नव जुहोति यास्त इति प्रतिमन्त्रम्' ( का० १८ । ६। ६) । अस्यार्थः । पूर्वसंस्कृताज्यात्सकृत्सकृदादाय नवाहुतीर्जुहोति यास्ते अग्ने, या वो देवाः रुचं नः तत्त्वा यामि एताश्चतस्रः स्वर्णेति कण्डिकायां पञ्चयजुर्भिः पञ्चेति नव । द्वे व्याख्याते ( १३ । २२-२३ ) ॥ ४६ ॥ ४७ ॥

सप्तचत्वारिंशी।
या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुच॑: ।
इन्द्रा॑ग्नी॒ ताभि॒: सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ।। ४७ ।।
अष्टचत्वारिंशी।
रुचं॑ नो धेहि ब्राह्म॒णेषु॒ रुच॒ᳪं᳭ राज॑सु नस्कृधि । रुचं॒ विश्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच॑म् ।। ४८ ।।
उ० रुचं नः अनुष्टुबाग्नेयी । रुचं दीप्तिम् नः अस्माकं ये ब्राह्मणाः तेषु धेहि । रुचं च राजसु नः संबन्धिषु कृधि कुरु । रुचं विश्येषु शूद्रेषु च नः संबन्धिषु कृधि कुरु । मयि च धेहि रुचा दीप्त्या सह रुचं दीप्तिम् । अनुत्सन्नधर्माणो यथा वयं दीप्त्या भवेम तथा कुर्वित्याशयः । यद्वा ब्रह्मप्रभृतिषु या रुक् तामस्माकं धेहि सर्वथा । किं बहुनोक्तेन मय्येव धेहि रुचा सङ्गता रुचम् ॥ ४८॥ ।
म० अग्निदेवत्यानुष्टुप् प्रथमो नवकः । हे अग्ने, नोऽस्माकं ब्राह्मणेषु अस्मत्संबन्धिषु विप्रेषु रुचं दीप्तिं धेहि आरोपय । नोऽस्माकं राजसु क्षत्रियेषु रुचं कृधि कुरु 'श्रुशृणु-' (पा० ६ । ४ । १०२) इत्यादिना हेर्धित्वम् शपो लुक् । विश्येषु वैश्येषु शूद्रेषु चास्माकीनेषु रुचं कुरु । किंच मयि विषये रुचा सह रुचं धेहि । अविच्छिन्नां रुचं घेहीत्यर्थः । | यद्वा ब्राह्मणराजविट्शूद्रेषु या रुक् तां नोऽस्माकं धेहि देहि । शिष्टं पूर्ववत् ॥ ४८ ॥

एकोनपञ्चाशी।
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भि॑: ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शᳪं᳭स॒ मा न॒ आयु॒: प्र मो॑षीः ।। ४९ ।।
उ० वारुण्या त्रिष्टुभा जुहोति । तत्त्वा । तदाशास्त इति तदः श्रवणादिह यदः प्रयोगः । यत्प्रयोजनं त्वां यामि याचामि ब्रह्मणा त्रयीलक्षणेन वन्दमानः स्तुवन् । तदीयं यजमान आशीस्ते हविर्भिरभ्युद्यतैः । अतः अहेडमानः अक्रुध्यन् हे वरुण, इह कर्मणि वर्तमान । अस्माकं कं प्रयोजनं यज्ञसमाप्तिलक्षणम् । बोधि बुध्यस्व । बुद्ध्वा च हे उरुशंस बहुसंस्तव्यमान । आयुः मा प्रमोषीः मा अस्माकमायुः खण्डय ॥ ४९॥
म० वरुणदेवत्या त्रिष्टुप् शुनःशेपदृष्टा । अत्र द्वौ तच्छन्दौ वर्तेते तत्रैकस्य यच्छब्दपरिणामः कार्यः । हे वरुण, यजमानः हविर्भिः दत्तैः यद्धनपुत्रादिकमाशास्ते इच्छति यत्कामस्तुभ्यं हविर्दत्ते तत् यजमानेष्टं त्वा त्वामहं यामि याचामि । तत् त्वया यजमानाय दीयतामित्यर्थः । यामीति यञ्चाकर्मसु पठितः । अथापि वर्णलोपो भवति तत्त्वा यामीति यास्कोक्तेराकारलोपः । कीदृशोऽहम् । ब्रह्मणा त्रयीलक्षणेन वेदेन वन्दमानः त्वां स्तुवानः । किंच हे उरुशंस, शंसनं शंसः स्तुतिः 'शंसु स्तुतौ' उरुर्महान् शंसः स्तुतिर्यस्य स उरुशंसः तत्संबुद्धौ हे बहुस्तुते, इहास्मिन् स्थाने अहेडमानः हेडते क्रुध्यति हेडमानः न हेडमानोऽहेडमानः अक्रुध्यन् सन् त्वं बोधि बुध्यस्व त्वम् । मत्प्रार्थनां जानीहीत्यर्थः । 'हुझल्भ्यो हेर्धिः' 'वा छन्दसि' (पा० ३ । ४ । ८८ ) इति हेरपित्त्वाद्गुणः धलोपश्छान्दसः । किंच नोऽस्माकमायुर्जीवनं मा प्रमोषीः मा चोरय 'मुष स्तेये' लुङ् 'न माङयोगे' (पा० ६ । ४ । ७४) इत्यडभावः । पूर्णमायुश्च देहीत्यर्थः ॥ ४९ ॥

पञ्चाशी।
स्व॒र्ण घ॒र्मः स्वाहा॑ स्वर्णार्कः स्वाहा॑ स्वर्ण शु॒क्रः स्वाहा स्वर्ण ज्योति॒: स्वाहा॒ स्वर्ण सूर्य॒: स्वाहा॑ ।। ५०।।
उ० अथार्काश्वमेधयोः सन्तती जुहोति पञ्चभिर्यजुर्भिः। स्वर्ण यजुः सूर्याहर्देववचनः स्वःशब्दः । स्वरिव यो घर्म आदित्यस्तदग्नौ जुहोमि स्थापयामि स्वाहाकारेण स्वरिव योऽर्कस्तमादित्ये स्थापयामि । स्वर्ण स्वरिव यः शुक्रस्तमादित्य एवं जुहोमि । स्वरिव ज्योतिरग्निस्तमग्नावेव जुहोमि । स्वर्ण स्वरिव यः सूर्यस्तमुत्तमं करोमि ॥ ५० ॥
म० पञ्च यजूंष्यग्निदेवत्यानि । सूर्याहर्देववाची स्वःशब्दः । न इवार्थे । अर्काश्वमेधसंततिसंज्ञाः पञ्चाहुतयः । तथाच श्रुतिः 'अथार्काश्वमेधयोः सन्ततीर्जुहोति' (९ । ४ । ३ । ८) इति । अस्यार्थः । अर्कोऽग्निः अश्वमेधो रविस्तयोः सन्ततयः सन्तन्वन्ति संयोजयन्तीति संततयस्ताः अग्न्यादित्यैक्यकारिका आहुतय इत्यर्थः । तथाच श्रुतिः 'अग्निरर्कोऽसावादित्योऽश्वमेधस्तौ सृष्टौ नानैवास्तां तौ देवा एताभिराहुतिभिः समतन्वन्समदधुः' (९ । ४ । ३ । १८) इति । तदनुसारेण व्याख्या यथा । न इवार्थे । स्वः न स्वरिव अहरिव दिनकरत्वात्सूर्यस्याहरुपमानम् । स्वरिव दिनमिव यो घर्मः आदित्यः तं स्वाहा अग्नौ जुहोमि तमग्नाविति शेषः पूरणीयः । आदित्यमग्नौ स्थापयामि । 'असौ वा आदित्यो घर्मोऽमुं तदादित्यमस्मिन्नग्नौ प्रतिष्ठापयति' ( ९ । ४ । ३ । १९) इति श्रुतेः। स्वरिव सूर्य इव योऽर्कोऽग्निस्तमादित्ये जुहोमि स्थापयामि। 'अयमग्निरर्क इमं तदग्निममुष्मिन्नादित्ये प्रतिष्ठापयति' (९। ४ । ३ । २०) इति श्रुतेः । स्वरिव स्वर्देवः नकारो निश्चितार्थः । स्वर्न देव इव यः शुक्र आदित्यस्तमादित्ये एव जुहोमि स्थापयामि । 'असौ वा आदित्यः शुक्रस्तं पुनरमुत्र दधाति' (९। ४ । ३ । २१ ) इति श्रुतेः । स्वः स्वर्गः स इव ज्योतिरग्निः स्वर्गप्रदत्वादग्नेः स्वर्गोपमानम् । तमग्निमग्नावेव जुहोमि स्थापयामि । 'अयमग्निर्ज्योतिस्तं पुमरिह ददाति' (९।४।। ३ । २२) इति श्रुतेः । एवमग्निं सूर्ये सूर्यमग्नौ सूर्ये च सूर्यमग्नावग्निं च संधाय । किंबहुना तयोः संयोगं कृत्वा सूर्यमुत्तमं करोति स्वर्न सूर्यः स्वाहेति । स्वः न सर्वदेवरूप इव यः सूर्यस्तं स्वाहा उत्तमं करोमि । अव्ययानामनेकार्थत्वात् स्वाहाशब्द उत्तमार्थः । सर्वे देवाभिन्ना भ्रान्त्या भासन्ते वस्तुतः सूर्य एव नानारूपोऽस्तीतीवशब्दार्थः । 'असौ वा आदित्यः सूर्योऽमुं तदादित्यमस्य सर्वस्योत्तमं दधाति तस्मादेषोऽस्य सर्वस्योत्तमः' (९ । ४ । ३ । २३ ) इति श्रुतेः । एवं पञ्चाहुतिभिरग्न्यर्कयोरैक्यं विधाय सर्वदेवेष्वर्कस्योत्तमत्वं कृतमिति भावः ॥५०॥

एकपञ्चाशी।
अ॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्यᳪं᳭ सु॑प॒र्णं वय॑सा बृ॒हन्त॑म् ।
तेन॑ व॒यं ग॑मेम ब्र॒ध्नस्य॑ वि॒ष्टप॒ᳪं᳭ स्वो रुहा॑णा॒ अधि॒ नाक॑मुत्त॒मम् ।। ५१ ।।
उ० अग्निं युनज्मि तिसृभिराग्नेयीभिः द्वाभ्यां त्रिष्टुब्भ्यां तृतीयया पङ्क्याधा । यमग्निं युनज्मि शवसा बलेन घृतेन च । दिव्यं दिवि भवम् सुपर्णं सुपतनम् वयसा बृहन्तम् वयसा धूमेन बृहन्तं महान्तम् । धूमेन हि महानग्निर्भवति । | 'अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिः' इति श्रुतिः । तेनाग्निना युक्तेन वयं गमेम गच्छेम । ब्रध्नस्यादित्यस्य विष्टपं विगतसंतापम् । सर्वद्वन्द्वोपलक्षणस्तापः । ततोऽप्यधि स्वर्गलोकं रुहाणाः आरोहन्तः नाकमुत्तमं च गमेमेत्यनुवर्तते । यत्र गता न अकमसुखं प्राप्नुवन्ति स नाको लोकः ॥५१॥
म० 'अग्नियोजनं प्रातरनुवाकमुपाकरिष्यन् परिधीनालभ्य यथापूर्वमग्निं युनज्मीति प्रत्यृचम्' ( का. १८।६। १६) । अस्यार्थः । प्रातरनुवाकोपाकरणात्प्राक् यथापूर्वमित्युपधानक्रमेण ऋक्त्रयेण प्रत्येकं परिधीन् स्पृष्ट्वाग्नियोजनं करोतीति । अग्निदेवत्यास्तिस्रः द्वे त्रिष्टुभौ तृतीया पङ्क्तिः । शवसा बलेन घृतेनाज्येन चाहमग्निं युनज्मि संयोजयामि ‘युजिर्योगे' 'रुधादिभ्यः श्नम्' । कीदृशमग्निम् । दिव्यं दिवि भवो दिव्यस्तम् । सुपर्णं शोभनं पर्णं पतनं यस्य तं सुगमनम् । वयसा धूमेन बृहन्तं वह्निर्धूमेन महान् भवति । 'अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिः (५।३।५।१७) इति श्रुतेः। किंच तेन युक्तेनाग्निना ब्रध्नस्यादित्यस्य विष्टपं लोकं वयं गमेम गच्छेम । गमेराशीर्लिङि लिड्याशिष्यङ् (पा० ३।१। । ८६ ) इत्यङ्प्रत्यये उत्तमबहुचने रूपम् । विगतस्तापो दुःखं यस्य स विष्टपो लोकः । ततोऽधि उपरि ब्रध्नविष्टपोपरिष्टात् स्वो रुहाणाः स्वर्गं लोकमारोहन्तः सन्त उत्तमं नाकं दुःखरहितं श्रेष्ठं लोकं गमेमेत्यनुवर्तते । रोहतेः 'बहुलं छन्दसि' इति शपि लुप्ते शानचि रूपम् रुहाणा इति । नास्त्यकं दुःखं यत्र स नाकः ॥५१॥

द्विपञ्चाशी।
इ॒मौ ते॑ प॒क्षाव॒जरौ॑ पत॒त्रिणौ॒ याभ्या॒ᳪं᳭ रक्षा॑ᳪं᳭स्यप॒हᳪं᳭स्य॑ग्ने ।
ताभ्यां॑ पतेम सु॒कृता॑मु लो॒कं यत्र॒ ऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः ।। ५२ ।।
उ० इमौ ते । याविमौ ते तव पक्षौ अजरौ जरारहितौ । पतत्रिणावुत्पतनशीलौ । ताभ्यां च रक्षांसि अपहंसि । हे अग्ने, ताभ्यां पक्षाभ्यां पतेम उत्पतेम । सुकृतां लोके सुकृतिनामेव स्थानम् । यत्रान्येऽपि ऋषयः जग्मुः गताः। प्रथमजाः पुराणाः ॥ ५२ ॥
म० हे अग्ने, यौ ते तवेमौ पक्षौ उत्तरदक्षिणौ । कीदृशौ। अजरौ नास्ति जरा ययोस्तौ सदा नवौ । पतत्रिणौ पतत्रं पतनं ययोरस्ति तौ उत्पतनशीलौ । याभ्यां पक्षाभ्यां रक्षांसि राक्षसान् त्वमपहंसि । उ एवेत्यर्थे । ताभ्यां पक्षाभ्यां वयं सुकृतां पुण्यकृतामेव लोकं पतेम उत्पतेम । यत्र सुकृतलोके प्रथमजाः प्रथमोत्पन्नाः पुराणाः पुरातना ऋषयो मुनयो जग्मुः ॥ ५२॥

त्रिपञ्चाशी।
इन्दु॒र्दक्ष॑: श्ये॒न ऋ॒तावा॒ हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः ।
म॒हान्त्स॒धस्थे॑ ध्रु॒व आ निष॑त्तो॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪं᳭सीः ।। ५३ ।।
उ० इन्दुर्दक्षः । यस्त्वमिन्दुः । 'इदि परमैश्वर्ये' । परमेश्वरः इन्दनो वा । दक्षः उत्साहवान् श्येनः शंसनीयगतिः । ऋतावा यज्ञवान् उदकवान्वा । हिरण्यपक्षः शकुनः । आकृत्या भुरण्युः भर्ता । महान् प्रभावतः । सधस्थे ब्रह्मणा सह अविभक्तस्थाने ध्रुव आनिषत्तः स्थिर आनिषण्णः । तस्मै नमः ते तुभ्यमस्तु मां मा हिंसीः ॥ ५३ ॥
म० हे अग्ने, यस्त्वमेतादृशस्तस्मै ते तुभ्यं नमोऽस्तु । त्वं मां मा हिंसीः हिंसां मा कुरु । कीदृशस्त्वम् । इन्दुः इन्दति ईष्टे इन्दुः ईश्वरः 'इदि परमैश्वर्ये' चन्द्रवदाह्लादको वा । दक्षः उत्साहवान् श्येनः श्येनपक्षिवदाकाशचारित्वाच्छयेनः । यद्वा शंसनीयगतिः । ऋतावा ऋतं सत्यं यज्ञ उदकं वास्यास्ति ऋतवा । संहितायां दीर्घः । हिरण्यपक्षः सुवर्णशकलैर्हिरण्यरूपौ पक्षौ यस्य । शकुनः पक्ष्याकारः । भुरण्युः बिभर्तीति भुरण्युः । भृञ औणादिकः कन्युप्रत्ययः । पोषकः । महान् प्रभावेण । ध्रुवः स्थिरः । सधस्थे ब्रह्मणा सह स्थाने आनिषत्तः आसमन्तान्निषण्णः । सह तिष्ठन्ति यत्रेति सधस्थं 'सधमादस्थयोश्छन्दसि' (पा० ६ । ३ । ९६) इति सधादेशः । 'नसत्त-' (पा० ८।२।६१) इत्यादिना निष्ठायां निपातः॥५३॥

चतुःपञ्चाशी।
दि॒वो मू॒र्धाऽसि॑ पृथि॒व्या नाभि॒रूर्ग॒पामोष॑धीनाम् । वि॒श्वायु॒: शर्म॑ स॒प्रथा॒ नम॑स्प॒थे ।। ५४ ।।
उ० अश्वनामादियुञ्जानं विमुञ्चति द्वाभ्यामाग्नेयीभ्यां पुरोष्णिग्जगतीभ्याम् । दिवो मूर्धासि द्युलोकोत्तमाङ्गमसि । पृथिव्याः नाभिर्नहनम् । ऊर्क् रसः सारः अपाम् ओषधीनां च । विश्वायुश्च सर्वप्राणिनामायुर्जीवनम् । सप्रथाश्च सर्वतः पृथुः तिर्यगूर्ध्वमधश्चानवच्छिन्नविभवः । तस्मै ते नमः पथे । अग्निप्रमुखो हि देवयानः पन्थाः ॥ ५४ ॥
म० 'आग्निमारुतस्तोत्रस्य पुरस्ताद्विमोचनं परिधिसन्ध्योर्दिवो मूर्धेति प्रत्यृचम्' ( का० १८ । ६ । १७)। यज्ञायज्ञियस्तोत्रप्रकरणात्प्राक् दिवो मूर्धेति ऋग्द्वयेन दक्षिणोत्तरयोः परिधिसन्ध्योरुपस्पृश्याग्निविमोचनं करोतीति सूत्रार्थः । आग्नेयी परोष्णिक् आद्यावष्टकौ तृतीयो द्वादशकः सा त्रिपादा परोष्णिक् । अत्राद्यो दशकः द्वितीयः सप्तकः तृतीयो द्वादशकस्तेनैकाधिका । हे अग्ने, यस्त्वमीदृशोऽसि तस्मै पथे मार्गाय स्वर्गमार्गरूपाय नमो नमस्कारोऽस्तु । अग्निमुखो हि देवयानपन्थाः श्रुतावुक्तः । कीदृशस्त्वम् । दिवो मूर्धा स्वर्लोकस्योत्तमाङ्गस्थानीयः । पृथिव्या नामिः मध्यस्थानीयः । नह्यतेऽनया सा नाभिः । नहति बध्नाति जीवनेनेति नाभिः | 'नहो भश्च-' ( उणा० ४ । १२७) इतीन्प्रत्ययो णिश्च भान्तादेशः नित्त्वादाद्युदात्तः 'ञित्यादिर्नित्यम्' (पा० ६।१। १९७ ) इत्युक्तेः । पृथ्वी लोकानां जीवनमग्निनिबन्धनमिति भावः । अपां जलानामोषधीनां व्रीह्यादीनां च ऊर्क् रसः सारः। विश्वायुः विश्वं सर्वमायुर्यस्य सः बहुजीवनः । यद्वा विश्वेषां सर्वेषां प्राणिनामायुर्जीवनम् । तदधिजीवनत्वात्तेषामिति भावः । | शर्म शरणभूतः सर्वेषाम् । सप्रथाः प्रथनं प्रथो विस्तारः प्रथसा सह वर्तमानः सप्रथाः तिर्यगूर्ध्वमधश्चानवच्छिन्नप्रभावः । ईदृशायाग्नये नमः ॥ ५४ ॥

पञ्चपञ्चाशी।
विश्व॑स्य मू॒र्धन्नधि॑ तिष्ठसि श्रि॒तः स॑मु॒द्रे ते॒ हृद॑यम॒प्स्वायु॑र॒पो द॑त्तोद॒धिं भि॑न्त ।
दि॒वस्प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑व ।। ५५ ।।
उ० विश्वस्य मूर्धन् । यस्त्वं विश्वस्य सर्वप्राणिजातस्य मूर्धन् मूर्ध्नः अधि उपरि तिष्ठसि । श्रितः आश्रितः बुद्धीन्द्रियाणि सुषुम्णां वा नाडीम् । यस्य च समुद्रे समुन्दने अन्तरिक्षे ते तव हृदयम् । अप्सु च आयुर्जीवनम् । तं त्वां याचे । अपो दत्त अपो देहीति वचनव्यत्ययः । एकोऽग्निरिह देवता । कथमिति चेत् । उदधिं भिन्त । उदकं धत्त इत्युदधिः । उदकस्य उदादेशः । मेघ उच्यते । अत्रापि भिधीति प्राप्ते भिन्दतेर्विदरणार्थस्य बहुवचनं छान्दसम् । एवं दिवस्पर्जन्यात् अन्तरिक्षात् पृथिव्याः अन्यत्रापि यतोयतो कृष्टिरुपलभ्यते ततस्तत उपादाय नोऽस्मान् वृष्ट्या अव पालय हे अग्ने ॥ ५५ ॥
म०. आग्नेयी महापङ्क्तिर्जगती । आद्यो व्यूहेन षडक्षरः द्वितीयः सप्तकः तृतीयो दशकः चतुर्थोऽष्टकः पञ्चमो नवकः षष्ठो नवकः एवमष्टचत्वारिंशदर्णा महापङ्क्तिः । हे अग्ने, स त्वं नोऽस्मान् वृष्ट्या कृत्वा अव रक्ष । वृष्टिं कृत्वा पालयेत्यर्थः । किं कृत्वा । दिवो द्युलोकात् पर्जन्यात् मेघात् अन्तरिक्षादाकाशात् पृथिव्याः भूमेः सकाशाद्वान्यत्र वा यत्र जलं ततः प्रदेशाज्जलमादायेति शेषः । यस्त्वं श्रितः इन्द्रियाणि सुषुम्णां नाडीमाश्रितः सन् विश्वस्य मूर्धन् मूर्धनि शिरसि अधितिष्ठसि । मूर्धन्शब्दात् 'सुपां सुलुक्' (पा. ७ । १ । ३९ ) इति सप्तम्या लुक् । सर्वेषां मूर्ध्नि उपरि रविरूपेण दीप्यस इत्यर्थः । यस्य ते तव समुद्रे समुनत्त्याद्रींभवतीति समुद्रोऽन्तरिक्षं तत्र हृदयं मध्यभागः भुवि पादौ स्वर्लोके शिरोऽन्तरिक्षे मध्यभागः त्रिलोकव्यापीत्यर्थः । यस्य ते अप्सु जलेषु आयुः जीवनं जलाधीनं जीवनं तव जलायद्वृक्षा जायन्ते ततोऽग्निरित्यग्नेर्जलाधीनजीवनलम् । किं बहुना । हे अग्ने, अपो जलानि दत्त देहि । उदधिं भिन्त भिन्धि । उदकानि दधाति धीयन्ते वात्रेत्युदधिर्मेघः तं विदारय । मेघं भिन्धि जलं देहीत्यर्थः । 'पेषंवासवाहनधिषुच' (पा० ६ । ३ । ५८ ) इत्युदकस्योदादेशः। दत्त भिन्तेत्युभयत्र 'व्यत्ययो बहुलम्' ( पा० ३ । १।८५) इति वचनव्यत्ययः ॥ ५५॥

षट्पञ्चाशी।
इ॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भिः । तस्य॑ न इ॒ष्टस्य॑ प्री॒तस्य॒ द्रवि॑णे॒ हाग॑मेः ।। ५६ ।।
उ० इष्टो यज्ञः द्वे समिष्टयजुषी यज्ञाग्निदेवेत्ये उष्णिग्गायत्र्यौ । अध्वर्युर्यजमानविषयामाशिषं करोति । यस्यास्य सुवर्णदानस्य यजमानस्य इष्टः संपादितयज्ञः । भृगुभिः भृगुगोत्रैर्ब्राह्मणैः आशीर्दा आशिषां च दाता । वसुप्रभृतिभिर्देवताविशेषैः कृतः । तस्यास्य यजमानस्य । नः इष्टस्य अस्माकमभिप्रेतस्य । प्रीतस्य च अस्मान्प्रति । प्रीतः स्निग्ध उच्यते । याज्ययाजकयोः स्नेहख्यापनपरं वाक्यमिदमुक्त्वा अथेदानीं द्रविणमाह । त्वमपि हे द्रविण, इह यजमाने आगमेः आगमनं कृथाः । स्थानमिदं धनानामित्यभिप्रायः । यद्वा । इष्टो यज्ञो भृगुभिः आर्षेयैर्ब्राह्मणैः । आशीर्दा वसुभिश्च । विभक्तिव्यत्ययप्रायः परोऽर्धर्चः । सोऽस्माकमिष्टः प्रीतश्च द्रविणमिह आगमयत्विति ॥ ५६ ॥
म० 'अध्वरसमिष्टयजुरन्त इष्टो यज्ञ इति प्रत्यृचमपरे' (का० १८ । ६ । १९ ) । समिन्द्रेण इत्यादिनवानामध्वरसमिष्टयजुषा (८ । १५) होमान्त इष्टो यज्ञः इष्टो अग्निरिति द्वाभ्यामपरे आग्निके द्वे समिष्टयजुषी जुहोतीति सूत्रार्थः । यज्ञदेवत्या उष्णिग्गालवदृष्टा अष्टाविंशत्यक्षरत्वात् । अध्वर्युर्द्रव्यं प्रत्याह । हे द्रविण द्रव्य, तस्य यजमानस्य इह सदने त्वमागमेः आगच्छ । आङ्पूर्वाद्गमेश्छत्वाभावे लिङि मध्यमैकवचने रूपम् । कीदृशस्य यजमानस्य । नोऽस्माकमिष्टस्य वल्लभस्य प्रीतस्य अस्मासु स्निग्धस्य । तस्य कस्य । यस्य यजमानस्य यज्ञो भृगुभिः भृगुगोत्रैर्ब्राह्मणैः वसुभिर्वस्वादिदेवैश्च इष्टः संपादितः । कीदृक्षो यज्ञः । आशीर्दाः आशिषोऽभिलषितपदार्थान् ददातीत्याशीर्दाः क्विप् । विप्रैर्देवैर्यस्य यज्ञः कृतस्तस्य गृहे त्वं गमेः सर्वदा तिष्ठेत्यर्थः ॥ ५६ ॥

सप्तपञ्चाशी।
इ॒ष्टो अ॒ग्निराहु॑तः पिपर्तु न इ॒ष्टᳪं᳭ ह॒विः । स्व॒गेदं दे॒वेभ्यो॒ नम॑: ।। ५७ ।।
उ० इष्टो अग्निः । इष्टः कृतयागः अग्निः आहुतः अभिहुतः। पिपर्तु पूरयतु नः अस्मान् । इष्टं हविः कृतयागं च हविः अस्मान्पूरयतु । स्वगेदं देवेभ्यो नमः । स्वयं गामि च इदं समिष्टयजुर्लक्षणं देवेभ्यो नमः हविर्भवतु ॥ ५७ ॥
म० अग्निदेवत्या गायत्री गालवदृष्टा । अग्निर्नोऽस्माकमिष्टमभिलषितं पिपर्तु पूरयतु । ददात्वित्यर्थः । नोऽस्मान् पालयत्विति वा । 'पॄ पालनपूरणयोः' लोट् ह्वादिवाद्द्वित्वम् । 'अर्तिपिपर्त्योश्च' (पा. ७ । ४ । ७७ ) इत्यभ्यासस्येत्वम् । कीदृशोऽग्निः । इष्टः कृतयागः । हविः विभक्तिव्यत्ययः। हविषा आहुतः समन्तात्तर्पितः । किंच इदं नमः हविः समिष्टयजुर्लक्षणं देवेभ्योऽर्थायास्तु । कीदृशम् । स्वगा स्वयं गमनशीलम् । विभक्तेराकारः ॥ ५७ ॥

अष्टपञ्चाशी ।
यदाकू॑तात्स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ सम्भृ॑तं॒ चक्षु॑षो वा ।
तदनु॒ प्रेत॑ सु॒कृता॑मु लो॒कं यत्र॒ ऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः ।। ५८ ।।
उ० यदाकूतात् । अष्टौ वैश्वकर्मणानि जुहोति । विश्वकर्माग्निदेवता तृतीया दैवी वा । आद्या जगती तिस्रस्त्रिष्टुभश्चतस्रोऽनुष्टुभः । यदाकूतात् । यत्कर्म आकूतात् आकूतो नाम प्राङ्मनसः प्रवृत्तेरात्मनो धर्मो मनःप्रवृत्तिहेतुः । समसुस्रोत् समस्रवत् । हृदो वा बुद्धेश्च मनसो वा मनसश्च । समसुस्रोदित्यनुवर्तते । संभृतं चक्षुषो वा संभारैः संभृतं सत् यच्चक्षुरादिभ्य इन्द्रियेभ्यः समसुस्रोत्प्रजायते तदनुप्रेत तत्प्रजापतिना कृतं कर्म अनुगच्छत । सुकृतामु लोकं सुकृतामेव लोकं स्थानम् यत्र ऋषयो जग्मुः यत्रान्येऽपि ऋषयो गताः प्रथमजाः पुराणाः ॥ ५८ ॥
म० 'हृदयशूलान्ते स्रुवाहुतीर्जुहोति यदाकूतादिति प्रत्यृचमष्टौ' ( का० १८ । ६ । २२) । साग्निचित्ये मैत्रावरुण्यनूबन्ध्यावश्यमेका भवति तेन तस्या हृदयशूलसंबन्धिसमिधानान्ते कृते यदाकूतादिति प्रत्यृचमष्टौ स्रुवाहुतीर्जुहोतीति सूत्रार्थः । अष्टावृच अग्निदेवत्या विश्वकर्मदृष्टाः । आद्या जगती त्रयः पादा एकादशार्णाः चतुर्थश्चतुर्दशार्णः । हे ऋत्विजः, यूयं तदनु प्रेत प्रजापतिकृतं कर्मानुगच्छतानुसरत । प्रजापतिशरीरादुत्पन्नं यत्कर्म वैदिकं तत्कुरुतेत्यर्थः । तत्र कर्मणि कृते सति सुकृतां पुण्यवतां लोके । उ एवार्थे । स्वर्गमेव प्रेतेत्यनुषङ्गः । स्वर्गं गच्छत । प्रथमजाः पूर्वोत्पन्नाः पुराणाः पुरापि नवा अजरामरा ऋषयो यत्र लोके जग्मुः । तत्किं कर्म । यत्प्रजापतेराकूतादभिप्रायात् हृदो वा हृदश्च बुद्धेः मनसः संकल्पात्मकात् चक्षुषः । चक्षुरुपलक्षणम् । चक्षुरादीन्द्रियेभ्यश्च समसुस्रोत् संस्रुतं प्रसृतम् । ब्रह्मणा यत् सर्वात्मना सृष्टं कर्म तत् कृत्वा स्वर्लोकं गच्छतेत्यर्थः । कीदृशं कर्म । संभृतं संभारैः पुष्टं पूर्णसामग्रीकम् । मनःप्रवर्तक आत्मनो धर्म आकूतम् । समसुस्रोदिति 'स्रु गतौ' इत्यस्माल्लङ् 'बहुलं छन्दसि' (पा० २।४ । ७६) इति जुहोत्यादित्वाच्छ्लौ द्वित्वम् ॥ ५८ ॥

एकोनषष्टी।
ए॒तᳪं᳭ स॑धस्थं॒ परि॑ ते ददामि॒ यमा॒वहा॑च्छेव॒धिं जा॒तवे॑दाः ।
अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ अत्र॒ तᳪं᳭ स्म॑ जानीत पर॒मे व्यो॑मन् ।। ५९ ।।
उ० एतᳪं᳭ सधस्थं एतं यजमानं सधस्थं समास्थानम् । देवानां स्वर्गं परि ते ददामि परिददामि तव । दानं च रक्षणार्थम् । यं च आवहात् आनयेत् शेवधिं सुखनिधिमाहुतिपरिणामभूतम् । शेव इति सुखनाम । जातवेदा अग्निः तं च परिददामि । एवंच स्वर्गाख्यं स्थानमुक्त्वा अथेदानीं स्थानिनो देवानाह । अन्वागन्ता कर्मसमाप्त्यनुपदमेव आगन्ता । यज्ञपतिः वः युष्माकमत्र स्थितानां तं स्म जानीत । परमे व्योम्नि स्थाने अवस्थितं सन्तम् ॥ ५९ ॥
म०. तिस्रस्त्रिष्टुभः । सह तिष्ठन्ति देवा यत्रेति सधस्थः स्वर्गः तं प्रार्थयते । हे सधस्थ, एतं यजमानं ते तव परिददामि । जातवेदा अग्निर्यं शेवधिं सुखनिधिमाहुतिपरिणामभूतमावहात् आवहति प्रापयति तं यज्ञफलभूतं च सुखनिधिं तव परिददामि । उभयं रक्षणार्थं तुभ्यं ददामीत्यर्थः । एवं यजमानं यज्ञं च स्वर्गे समर्प्य तत्स्थान् देवानर्थयते अन्विति । हे देवाः, यज्ञपतिर्यजमानो वो युष्मानन्वागन्ता कर्मसमाप्तौ भवतः प्रत्यागमिष्यति लुट् । अत्रास्मिन् परमे व्योमन् उत्कृष्टे व्योम्नि आकाशे स्वर्गाख्ये आगतं तं यजमानं यूयं जानीत । स्मेति पादपूरणः । स्वर्गागतः स भवद्भिः संभावनीय इत्यर्थः । आवहात् वहतेर्लेट् 'इतश्च लोपः परस्मैपदेषु' (पा० ३।४। ९७) इति तिप इलोपः 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमः । शेव इति सुखनाम । शेवं धीयतेऽस्मिन्निति शेवधिः ॥ ५९॥

षष्टी।
ए॒तं जा॑नीथ पर॒मे व्यो॑म॒न् देवा॑: सधस्था वि॒द रू॒पम॑स्य ।
यदा॒गच्छा॑त्प॒थिभि॑र्देव॒यानै॑रिष्टापू॒र्ते कृ॑णवाथा॒विर॑स्मै ।। ६० ।।
उ० एतं जानीथ देवदेवत्या । एतं यजमानं जानीथ । परमे व्योमन् परमे स्थानेऽवस्थितं सन्तम् । हे देवाः, । सधस्थाः समानस्थानाः। किंच । विद जानीत रूपमस्य | यजमानस्य प्रत्यभिज्ञानाय । ततो विदितरूपः । यदागच्छात् आगच्छेत्पथिभिः देवयानैः । पूजार्थं बहुवचनमुपभोगस्थानभेदाद्वा । अथ इष्टापूर्ते कृणवाथ कुरुथ आविःप्रकाशफले अस्मै ॥ ६०॥ ।
म० सह तिष्ठन्ति सधस्थाः । परमे व्योमन् उत्कृष्टे स्वर्गभूते व्योम्नि सह स्थिता हे देवाः, एतं यजमानं जानीथ जानीत । लेटो मध्यमबहुवचने आडागमे रूपम् । किंच अस्य यजमानस्य रूपं विद वित्त जानीत प्रत्यभिज्ञानाय । वेत्तेर्विकरणव्यत्यये शः वचनव्यत्ययश्च । विदितरूपोऽयं यद्यदा देवयानैः पथिभिः स्वर्गमार्गैः आगच्छात् आगच्छति । इलोपाडागमौ । तदा इष्टापूर्ते श्रौतस्मातकर्मफले अस्मै यजमानायाविःकृणवाथ प्रकटीकुरुत दत्तेत्यर्थः । देवा यान्ति येषु ते देवयानाः 'करणाधिकरणयोश्च' (पा० ३ । ३ । ११७) इति | ल्युट । उपभोगस्थानभेदाद्बहुत्वं पूजार्थं वा । इष्टं च पूर्तं च इष्टापूर्ते देवसंबन्धिकर्मत्वात् देवताद्वन्द्वे च (पा० ६।३।२६) इति पूर्वपदस्यानङ् । आपूर्तं चेति वा । कृणवाथ 'कृञ् कृतौ' स्वादिः आडागमश्च ॥ ६० ॥

एकषष्टी।
उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्ते सᳪं᳭ सृ॑जेथाम॒यं च॑ ।
अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानाश्च सीदत ।। ६१ ।।
उ० उद्बुध्यस्वाग्ने येन वहसीति व्याख्याते ॥६१॥६२॥
म० उद्बुध्यस्व । त्रिष्टुप् । येन वहसि । अनुष्टुप् । एते द्वे व्याख्याते (अ० १५ । क० ५४-५५) ॥ ६१ ॥ ६२ ॥

द्विषष्टी।
येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ नय॒ स्व॒र्दे॒वेषु॒ गन्त॑वे ।। ६२ ।।

त्रिषष्टी।
प्र॒स्त॒रेण॑ परि॒धिना॑ स्रु॒चा वेद्या॑ च ब॒र्हिषा॑ ।
ऋ॒चेमं य॒ज्ञं नो॑ नय॒ स्व॒र्दे॒वेषु॒ गन्त॑वे ।। ६३ ।।
उ० प्रस्तरेण परिधिना च स्रुचा च वेद्या च बर्हिषा च ऋचा च ऋगादिभिर्मन्त्रैश्च । इमं यज्ञं नः अस्माकं संबन्धिनं नय । हे अग्ने, स्वर्गं लोकम् देवेषु गन्तवे देवान्प्रति गमनाय । यज्ञे हि गते यजमानो गत एव । स हि तस्य शरीरमित्यभिप्रायः ॥ ६३ ॥
म० तिस्रोऽनुष्टुभः । हे अग्ने, नोऽस्माकमिमं यज्ञं स्वः स्वर्गं नय । किं कर्तुम् । देवेषु गन्तवे देवान् प्रति गन्तुं प्राप्तुम् । तुमर्थे तवेन्प्रत्ययः नित्त्वादाद्युदात्तः । कीदृशम् । प्रस्तरेण स्रुगाधारभूतेन दर्भमुष्टिना परिधिना परिधिभिस्त्रिभिर्बाहुमात्रैः काष्ठैः स्रुचा जुह्वादिकया वेद्या मितया वेदेर्भूम्या वा बर्हिषा दर्भपूलकेन ऋचा ऋगादिभिर्मन्त्रैश्चोपलक्षितमिति शेषः ॥ ६३ ॥

चतुःषष्टी।
यद्द॒त्तं यत्प॑रा॒दानं॒ यत्पू॒र्तं याश्च॒ दक्षि॑णाः ।
तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑र्दे॒वेषु॑ नो दधत् ।। ६४ ।।
उ० यद्दत्तम् । भार्याजामातृपुत्रप्रभृतिभ्यः । यच्च परादानं दीनान्धकृपणेभ्यो दयया । यच्च पूर्तम् स्मृतिविहितं ब्राह्मणभोजनादि । याश्च दक्षिणाः यज्ञान्तर्गताः तत्सर्वम् अग्निः वैश्वकर्मणः विश्वकर्मैव वैश्वकर्मणः स्वार्थे तद्धितः । स्वर्गे लोके देवेषु मध्ये नः असदर्थमस्साकं वा । दधत् दधातु फलोपभोगार्थम् ॥ ६४ ॥
म. वैश्वकर्मणः विश्वकर्मा प्रजापतिस्तदीयः विश्वकर्मैव वैश्वकर्मणः स्वार्थे तद्धितो वा । विश्वकर्मा अग्निः नोऽस्माकं तद्दानं स्वः स्वर्लोके देवेषु मध्ये दधत् दधातु स्थापयतु । फलभोगायेत्यर्थः । तत्किम् । यद्दत्तं भार्यापुत्रजामातृभगिनीतत्पत्यादिभ्यो दत्तम् । यच्च परादानं परोपकाराय दयादिनान्धकृपणेभ्यो दत्तम् । यच्च पूर्तं स्मृतिविहितं विप्रभोजनकूपारामादि । याश्च दक्षिणाः यज्ञसंबन्धिन्यः । यज्ञे गते यज्ञाङ्गत्वाद्यजमानः स्वर्गत एव ॥ ६४ ॥

पञ्चषष्टी।
यत्र॒ धारा॒ अन॑पेता॒ मधो॑र्घृ॒तस्य॑ च॒ याः ।
तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑दे॒र्वेषु॑ नो दधत् ।। ६५ ।।
उ० यत्र धाराः । यत्र यस्मिन्देशे धाराः अनपेता अनुपक्षीणाः उपभुज्यमाना अपि क्षयं नयन्ति मधोः मधुनः घृतस्य च । याश्चान्याः सोमादीनाम् । तत् तव अग्निः वैश्वकर्मणः देवेषु स्वः स्वर्गे लोके मध्ये नः अस्मान्दधातु ॥६५॥
म० वैश्वकर्मणः विश्वकर्माग्निस्तत् तत्र स्वः स्वर्गे देवेषु मध्ये नोऽस्मान् दधत् दधातु स्थापयतु । तत्र यत्र देशे मधोर्मधुनो घृतस्य च याश्चान्याः पयोदध्यादीनां धाराः प्रवाहा अनपेता न अपेता उपभुज्यमाना अप्यक्षीणा वर्तन्ते ॥६५॥

षट्षष्टी।
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ म आ॒सन् ।
अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ।। ६६ ।।
उ० अविनियुक्तत्वादग्निप्रकरणाच्च यजमानदर्शनमेतत् । अग्निरस्मि त्रिष्टुबाग्नेयी । अग्निरहमस्मि जन्मना उत्पत्त्यैव जातवेदाः । अथ ह वै रेतः सिक्तं प्राणोऽन्ववरोहति । तद्विन्दते तद्यज्जातं जातं विन्दते तस्माज्जातवेदाः' इत्येतदभिप्रायम् । यतश्चाहमग्निरस्मि अतो घृतं मे मम चक्षुः 'घृतहोमिनमहं पश्यामी'त्येतदभिप्रायम् । अमृतं च मम आसन् आस्ये मुखे । यो हि मम मुखे हविर्जुहोति तमहममृतं करोमीति । किंच अर्कः अर्चनीयः यज्ञः अस्मि नाम्ना त्रिधातुः ऋग्यजुःसामभिः । रजसो विमानः उदकस्य निर्माता । किंच अजस्रः अनुपक्षीणः । घर्मः दीप्तः उदकरक्षणो वा आदित्यः अहमस्मि । किंच हविरप्यहमस्मि नाम नाम्ना । नामशब्दस्य कृतविभक्तिव्यत्ययस्य अस्मिशब्दस्य च सर्वत्र संबन्धः । एवमग्न्यद्वैतं मन्त्रार्थः ॥ ६६ ॥
म० अग्न्यद्वैतवादिनी त्रिष्टुप् देवश्रवोदेववातदृष्टा यज्ञेऽविनियुक्ता । अग्निप्रकरणत्वाद् यजमान आत्मानमग्नित्वेन ध्यायति। जन्मना उत्पत्त्यैवाहमग्निरस्मि अग्निरूपोऽस्मि । नाम विभक्तिलोपः । नाम्ना हविः पुरोडाशादिकमप्यहमस्मि । कीदृशोऽहम् । जातं जातं विन्दत इति जातवेदाः । उत्पन्नस्य सर्वस्य स्वामीत्यर्थः । अर्कः अर्चनीयो यज्ञोऽप्यहमेव । त्रिधातुः त्रयो धातव ऋग्यजुःसामलक्षणा यस्य । रजसो विमानः रज उदकं तस्य निर्माता । विमिमीत इति विमानः । नन्द्यादित्वात्कर्तरि ल्युट् । अजस्रः न जसति क्षीयत इत्यजस्रः अनुपक्षीणः 'जसु उपक्षये' 'नमिकम्पि-'(पा० ३।२।१६७) इत्यादिना रप्रत्ययः । घर्मः 'घृ क्षरणदीप्त्योः' जिघर्ति घर्मः औणादिको मप्रत्ययः । दीप्तः आदित्यरूपः क्षरणो मेघरूपो वा । एतादृशोऽग्निरहं यतस्ततो घृतं मे मम चक्षुर्नेत्रं । घृतहोमिनं पश्यामीति भावः । अमृतं हविर्मम आसन् आस्ये मुखे 'पद्दन्न(पा० ६।१ । ६३ ) इत्यादिना आस्यशब्दस्यासन्नादेशः सप्तम्या लुक् । मन्मुखे हविर्जुह्वन्तममृतं करोमीति भावः । एवमात्मन्यन्यग्न्यद्वैतं संपाद्यम् ॥ ६६ ॥

सप्तषष्टी।
ऋचो॒ नामा॑स्मि॒ यजू॑ᳪं᳭षि॒ नामा॑स्मि॒ सामा॑नि॒ नामा॑स्मि ।
ये अ॒ग्नय॒: पाञ्च॑जन्या अ॒स्यां पृ॑थि॒व्यामधि॑ ।
तेषा॑मसि॒ त्वमु॑त्त॒मः प्र नो॑ जी॒वात॑वे सुव ।। ६७ ।।
उ० ऋचो नामास्मि । अनेनात्मनि वेदत्रयात्मकत्वं संपादयति । ऋग्वेदनामास्मि यजुर्वेदनामास्मि सामवेदनामास्मि । चित्यमग्निमुपतिष्ठते । ये अग्नयः । आग्नेय्यनुष्टुप् । | 'ये अग्नयः पाञ्चजन्याः पञ्चचितिकाः' इति श्रुतिः । अस्यां पृथिव्याम् अधि उपरि स्थाः । तेषामग्नीनामुद्गततमोऽसि यतः अतः प्रार्थ्यसेऽस्माभिस्त्वम् । प्र नो जीवातवे सुव । प्रसुव अस्माकं जीवातवे चिरंजीवनाय ॥ ६७ ॥
म० ऋचः । आत्मदेवत्यं यजुः सप्तदशाक्षरम् । यज्ञेऽस्य विनियोगो नास्ति यजमानोऽनेनात्मनि वेदत्रयात्मकत्वं संपादयति । नाम नाम्नाहमृचोऽस्मि ऋग्वेदरूपोऽस्मि । यजूंषि नामास्मि यजुर्वेदरूपोऽस्मि । सामानि नामास्मि सामवेदो नाम्नास्मि। 'चित्रोऽसीति चित्यनाम कृत्वोपतिष्ठते ये अग्नय इति' ( का० १८ । २ । २३) । चित्यस्याग्नेः चित्रोऽसीति नाम विधाय तमुपतिष्ठते । कर्मशेषं समाप्येदमुपस्थानं कार्यमुपस्थानानन्तरं समारोपविधानादिति सूत्रार्थः । अग्निदेवत्यानुष्टुप् । अस्यां पृथिव्यामधि अस्याः पृथिव्याः उपरि ये अग्नयो वर्तन्ते । कीदृशाः । पाञ्चजन्याः पञ्चजना मनुष्यास्तेभ्यो हिताः पाञ्चजन्याः । यद्वा पञ्च जनाः समूहाः चितिरूपा येषां ते पञ्चजनास्त एव पाञ्चजन्याः । स्वार्थे तद्धितः । हे चित्याग्ने, तेषां पृथिवीस्थानाममीषां त्वमुत्तमोऽसि श्रेष्ठोऽसि । अतो नोऽस्मान् जीवातवे चिरंजीवनाय प्रसुव प्रेरय । चिरंजीवयेत्यर्थः । 'जीवेरातुः' ( उणा० १ । ७९) इत्यातुप्रत्ययः 'व्यवहिताश्च' (पा० १ । ४ । ८२) इति प्रेत्यस्य सुवेत्यनेन व्यवधानम् ॥ ६७॥

अष्टषष्टी।
वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च ।
इन्द्र॒ त्वाऽऽव॑र्तयामसि ।। ६८ ।।
उ० चित्यमग्निमुपतिष्ठते । वार्त्रहत्याय 'इन्द्र एतत्सप्तर्चमपश्य'दिति श्रुतिः । प्रथमे गायत्रीत्रिष्टुभौ । इन्द्रो वृत्रहादेवता । वार्त्रहत्याय वृत्रो येन शवसा बलेन हन्यते तत् वार्त्रहत्यं शवस्तस्मै वार्त्रहत्याय शवसे । पृतनाषाह्याय च पृतनाः संग्रामाः येन शवसा अभिभूयन्ते तत्पृतनासहं बलं तस्मै पृतनासहाय । सहतिरभिभवार्थः । इन्द्र, त्वा त्वाम् आवर्तयामसि आवर्तयामः ॥ ६८॥
म०. 'चितिं पुरीषवतीमुपतिष्ठते वार्त्रहत्यायेति सप्तभिरष्टाभिरेके दशभिर्वा' ( का० १७ । ७ । १-२) । मृत्पूरणानन्तरमेतां चितिमुपतिष्ठते सप्तभिरष्टाभिरेकेषां मते दशर्ग्भिर्वेति सूत्रार्थः । आग्नेय्यः सप्त ऋच इन्द्रदृष्टाः। आद्ये द्वे वृत्रहेन्द्रदेवत्ये गायत्रीत्रिष्टुभौ विश्वामित्रेणापि दृष्टे। हे इन्द्र, वयं त्वा त्वामावर्तयामसि आवर्तयामः 'इदन्तो मसि' उपतिष्ठामहे । किमर्थम् । शवसे बलाय । त्वद्बलवृद्धय इत्यर्थः । कीदृशाय शवसे । वार्त्रहत्याय वृत्रस्य दैत्यस्य हत्यायां हनने कुशलं वार्त्रहत्ये वृत्रघातसमर्थमित्यर्थः । च पुनः पृतनाषाह्याय पृतना शत्रुसेना सह्यतेऽभिभूयते येन तत्पृतनासाह्यं तस्मै शत्रुसेनापराभवसमर्थायेत्यर्थः ॥ ६८ ॥

एकोनसप्ततितमी ।
स॒हदा॑नुं पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सं पि॑ण॒क् कुणा॑रुम् ।
अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ।। ६९ ।।
उ० सहदानुम् । सहेति बलनाम । बलस्य दातारम् | युध्यस्वानेन सह त्वं संपूर्णबलः । अयं च तुच्छबल इत्येवं यः शत्रुमुपस्तोभयते स सहदानुः तं सहदानुम् । यद्वा सह एकीभूय यो दुर्मन्त्रान्ददाति स सहदानुः तं सहदानुं शत्रुम् । हे पुरुहूत बहुभिराहुत, क्षियन्तं निवसन्तम् इहैव अहस्तं कृत्वा युद्धेन निर्जित्य संपिणक् संपिण्डीकुरु । तं कुणारुम् क्वणन्तम् दुर्वचोभिधायिनम् । एवं तावदेनं कुरु । अथ पुनर्योऽयमपरो वृत्रस्तम् अभिभूय वृत्रं वर्धमानम् । पियारुम् पियतिर्हिंसाकर्मा । देवानां हिंसितारम् । अपादं कृत्वा गमनासमर्थं कृत्वा तवसा बलेन जघन्थ । जहि ॥ ६९॥
म० हे पुरुहूत, पुरुभिर्बहुभिर्हूतोऽभिहूतः पुरुहूतः हे बहुभिराहूत, हे इन्द्र, त्वं सहदानुं शत्रुमहस्तं हस्तहीनं कृत्वा संपिणक् संपिण्ढि चूर्णय । सह इति बलनाम । सहो बलं ददाति सहदानुः पृषोदरादित्वात्सहःशब्दान्त्यलोपः नुप्रत्ययो ददातेः । अयमसमर्थोऽस्ति त्वं तु समर्थ इति यः शत्रुं प्रेर्य बलं ददाति स सहदानुः । यद्वा सह एकीभूय योद्धुर्मन्त्रं ददाति स सहदानुः शत्रुः । कीदृशम् । क्षियन्तं क्षियति वसतीति क्षियन् तम् ‘क्षि निवासगत्योः' तुदादिः शतृप्रत्ययः । निकटे वसन्तम् । कुणारुं क्वणति दुर्वचो वदति कुणारुः तम् । 'क्वण शब्दे' औणादिक आरुप्रत्ययः धातोः संप्रसारणं च । 'पिष्लृ संचूर्णने' लङि मध्यमैकवचनं रुधादित्वात् श्नम् संपूर्वः अडभावस्त्वार्षः षस्य कुत्वमार्षम् । हे इन्द्र, वृत्रं दैत्यमपादं पादहीनं कृत्वा तवसा बलेन त्वमभिजघन्थ जहि सम्यक् मारय 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६ ) इति लोडर्थे लिट् । कीदृशं वृत्रम् । वर्धमानं जगद् व्याप्नुवन्तम् । पियारुं सुराणां हन्तारम् । पियतिर्हिंसाकर्मा ॥ ६९ ॥

सप्ततितमी।
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।
यो अ॒स्माँ२।। अ॑भि॒दास॒त्यध॑रं गमया॒ तम॑: ।। ७० ।।
उ० विन इन्द्र । मृगो न भीम इति वै मृद्भ्यौ द्वे अनुष्टुप्त्रिष्टुभौ । पूर्वा व्याख्याता ॥ ७० ॥
म० शासदृष्टानुष्टुप् । व्याख्याता (अ० ८। क० ४४) ॥७०॥

एकसप्ततितमी।
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गन्था॒ पर॑स्याः ।
सृ॒कᳪं᳭स॒ᳪं᳭शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न् ताढि॒ वि मृधो॑ नुदस्व ।। ७१ ।।
उ० मृगो न मृग इव । मृगो व्याघ्रो वा सिंहो वा । भीमो भीषणः कुचरः कुत्सितचारी हिंस्रः प्राणिवधजीवनः। गिरिष्ठाः पर्वताश्रयः स यथा कांश्चिद्दैत्यप्राणिविशेषान्हन्ति तैरनभिभूयमानः एवं त्वं परावतः दूरप्रदेशादाहूयमानान् आजगन्थ आगच्छ । आगत्य च शृणु यत्प्रार्थ्यसेऽस्माभिः । सृकं शरणं वज्रं संशाय । 'शो तनूकरणे' तीक्ष्णीकृत्य । पविम् शत्रुकायेषु गन्तारम् हे इन्द्र, तिग्मम् तेजनम् उत्साहवन्तम् । ततो विशत्रून्ताढि वि ताढि । ताडयतेर्हिंसाकर्मण एतद्रूपम् । विमृधो नुदस्व प्रेरयस्व मृधः संग्रामादपुनरागमनाय ॥ ७१ ॥
म० जयदृष्टा त्रिष्टुप् हे इन्द्र, परस्याः परावतो दूरतराद्देशादाजगन्थ आगच्छ । परावच्छब्दो दूरवचनः । परस्या दूरदिशोऽपि परावतः दूरदेशादित्यर्थः । लोडर्थे लिट् । आगत्य च शत्रून् विताढि विशेषेण ताडय । मृधः संग्रामांश्च विनुदस्व विशेषेण प्रेरय दूरीकुरु । किं कृत्वा । पविं वज्रं संशाय तीक्ष्णीकृत्य 'शो तनूकरणे' ल्यप् । कीदृशं पविम् । सृकम् सरति शत्रुशरीरे गच्छतीति सृकः तम् । तिग्ममुत्साहवन्तम् 'तिग्मं तेजतेरुत्साहकर्मणः' ( निरु० १० । ६ ) इति यास्कः । क इव । मृगो न मृग इव । यथा मृगः सिंहो दूरादेत्य प्राणिनं हन्ति। कीदृशः । भीमः भयंकरः । कुचरः कुत्सितं चरति गच्छति कुचरः । गिरिष्ठाः गिरौ तिष्ठति गिरिष्ठाः पर्वताश्रयः । ताडयतिर्हिंसाकर्मा तस्य हौ परे 'छन्दस्युभयथा-' (पा० ३ ।। ४ । ११७ ) इत्यार्धधातुकत्वे णिचो लोपः हुझल्भ्यो हेर्धिः ष्टुत्वम् ताढि ॥ ७१ ॥

द्विसप्ततितमी।
वै॒श्वा॒न॒रो न॑ ऊ॒तय॒ आ प्र या॑तु परा॒वत॑: । अ॒ग्निर्न॑: सुष्टु॒तीरुप॑ ।। ७२ ।।
उ० वैश्वानरो नः । वैश्वानरदेवेत्ये गायत्रीत्रिष्टुभौ । वैश्वानरोऽग्निः नः अस्माकम् । ऊतये अवनाय तर्पणाय आ प्रयातु आगच्छतु परावतः । किंच सुष्टुतीरुप अस्माकं च शोभनाः स्तुतीः उप श्रोतुम् आप्रयातु आगच्छतु ॥ ७२ ॥
म० वैश्वानरदेवत्या गायत्री । वैश्वानरः अग्निर्नोऽस्माकं सुष्टुतीः शोभनाः स्तुतीरुप उपश्रोतुं परावतो दूरदेशादा प्रयातु आगच्छतु । किमर्थम् । नोऽस्माकमूतये रक्षणाय । अस्मान् रक्षितुमित्यर्थः ॥ ७२ ॥

त्रिसप्ततितमी।
पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश ।
वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षस्पा॑तु॒ नक्त॑म् ।। ७३ ।।
उ० पृष्टो दिवि । योऽग्निर्वैश्वानरः पृष्टः कोऽयमिति । दिवि आदित्यात्मना व्यवस्थितो मुमुक्षुभिः । तत्र ह्येवं श्रूयते । 'यमेतमादित्ये पुरुषं वेदयन्ते स इन्द्रः स प्रजापतिः स ब्रह्म' इति । यश्च वैश्वानरोऽग्निर्विद्युदात्मना - प्रावृषि स्थितः पृथिव्याम् अन्तरिक्षे लोके । पृथिवीत्यन्तरिक्षनामसु पठितम् । उदकार्थिभिः कोयं नाम द्विपदचतुष्पदजीवनहेतुः । यश्चाग्निर्वैश्वानरोऽस्मिन् लोके व्यवस्थितः पृष्टोऽग्निहोतृभिर्होतृपर्यन्तैः कोयं तापपाकप्रकाशैरुपकृत्य विश्वा ओषधीराविवेश आविष्टः । यश्च वैश्वानरोऽग्निः सहसा बलेन मथ्यमानोऽध्वर्युणा कोऽयं निर्ममन्थ इति पृष्टो दिदृक्षुभिः । स नः सोऽस्मान् दिवा अहनि पातु रक्षतु । सच नक्तं रात्रौ पातु रिषः विनाशात् । रिषतिर्हिंसाकर्मा । दिवानक्तमिति सन्ततार्थं वचनम् ॥ ७३ ॥
म० वैश्वानरदेवत्या त्रिष्टुप् कुत्सदृष्टा । वैश्वानरः सर्वनरेभ्यो हितोऽग्निर्दिवा दिवसे नोऽस्मान् पातु रक्षतु । स च नक्तं रात्रौ नः पातु सर्वदास्मान् रक्षत्वित्यर्थः । स कः । योऽग्निर्दिवि द्युलोके पृष्टः कोऽयमादित्यात्मना तपतीति मुमुक्षुभिः पृष्टः अन्तरिक्षे 'यमेतमादित्ये पुरुषं वेदयन्ते स इन्द्रः स प्रजापतिस्तद्ब्रह्म' इति श्रुतेः । यश्चाग्निः पृथिव्यामन्तरिक्षलोके पृष्टः कोऽयं विद्युदात्मना स्थित इति जलार्थिभिः पृष्टः । अन्तरिक्षनामसु पृथिवीति पठितम् । यश्च विश्वा ओषधीः सर्वा व्रीह्याद्योषधीः आविवेश प्रविष्टः सन् पृष्टः कोऽयं प्रजानां जीवनहेतुस्तापपाकप्रकाशैरुपकरोति यश्च सहसा बलेनाध्वर्युणा मध्यमानः सन् पृष्टः जनैः कोऽयं मथ्यत इति । सोऽयमग्निर्दिवा नक्तं रिषो वधात् पातु । रिषतिर्हिंसाकर्मा । मास्मान्नाशयत्वित्यर्थः ॥ ७३ ॥

चतुःसप्ततितमी।
अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती अ॒श्याम॑ र॒यिᳪं᳭ र॑यिवः सु॒वीर॑म् ।
अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ।। ७४ ।।
उ० अश्याम तम् । द्वे आग्नेय्यौ त्रिष्टुभौ कामवत्यौ । अश्याम प्राप्नुयाम तं कामं यत्कामा एतत्कुर्मः। हे अग्ने, तव उती ऊत्या अवनेन तर्पणेन च । अश्याम च रयिं धनम् । हे रयिवः धनवन् । सुवीरं कल्याणपुत्रम् । अश्याम वाजमन्नम् अभिवाजयन्तः । वाजतिरर्चतिकर्मा । अभिपूजयन्तोग्निम् अन्यानपि पूजयितव्यान् । अश्याम द्युम्नं यशः हे अजर जरारहिताग्ने । अजरं द्युम्नविशेषणमेतत् । अक्षीणं द्युम्नं ते तव प्रसादात् ॥ ७४ ॥
म० भरद्वाजदृष्टाग्नेयी कामवती त्रिष्टुप् । हे अग्ने, तव ऊती ऊत्या अवनेन पालनेन वयं तं काममभिलाषमश्याम प्राप्नुयाम यमिच्छाम इत्यर्थः। अशूङ् व्याप्तौ विकरणव्यत्ययेन लोटि श्यन्प्रत्ययः । रयिर्धनमस्यास्तीति रयिवान् तत्संबुद्धौ हे रयिवः धनवन् , सुवीरं रयिं वयमश्याम शोभना वीराः पुत्रा यत्र तं रयिं पुत्रसहितं धनं वयं प्राप्नुयाम । वाजयतिरर्चतिकर्मा । वाजयन्तो वह्निमर्चयन्तः सन्तो वयं वाजमन्नमभि अश्याम समन्तात् प्राप्नुयाम । हे अजर, नास्ति जरा यस्य सोऽजरः हे जरारहित, अजरमक्षीणं ते तव द्युम्नं यशो वयमश्याम । सर्वदा यशस्विनो भवामेत्यर्थः ॥ ७४ ॥

पञ्चसप्ततितमी।
व॒यं ते॑ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ ।
यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ अग्ने ।। ७५ ।।
उ० वयं ते । हिशब्दो यस्मादर्थे । हि यस्माद्वयं ते तुभ्यम् अद्य ररिम । 'रा दाने' । ददिम । कामं पुरस्कृत्य हविः कामप्राप्त्यर्थं वा हविः कामशब्देनोच्यते । उत्तानहस्ताः त्यक्तकृपणभावाः । अबद्धमुष्टिकाः असंवृताङ्गुलय इति यावत् नमसा नमस्कारेण प्रणिपातेन उपसद्य उपसंगम्य निषदनं कृत्वा । अतः यजिष्ठेन यष्टृतमेन मनसा यक्षि यज देवान् । अस्रेधता अनन्यगतेन देवताया याथात्म्यचिन्तनसंतानैकरसेन । मन्मनाः मननेन विप्रः सन् मेधावी सन् । हे अग्ने ॥ ७५॥
म० उत्कीलदृष्टाग्नेयी त्रिष्टुप् । हे अग्ने, हि यस्मात्कारणात् वयं ते तुभ्यमद्यास्मिन् दिने कामं हविः ररिम दद्मः । काम्यत इष्यत इति कामं हविः ररिम । 'रा दाने' लिट् 'अन्येषामपि दृश्यते' इति (पा० ६।३। १३७ ) ररिमेत्यस्य संहितायां दीर्घः । किं कृता । नमसा उपसद्य नमस्कारेणोपसङ्गम्य । नमस्कृत्य निकटमागत्य हविर्दद्म इत्यर्थः । कीदृशा वयम् । उत्तानहस्ताः उत्ताना हस्ता येषां ते अबद्धमुष्टिकाः त्यक्तकार्पण्या इत्यर्थः । तथा मनसा उपलक्षिताः सावधाना इत्यर्थः । कीदृशेन मनसा । यजिष्ठेन यजतीति यष्टृ अतिशयेन यष्टृ यजिष्ठं तेन । 'तुरिष्ठेमेयःसु' (पा. ६ । ४ । १५४ ) इति तृचो लोपः । यागतत्परेणेत्यर्थः । तथा अस्रेधता 'स्रिध गतौ' स्रेधति अन्यत्र गच्छति स्रेधत् न स्रेधदस्रेधत् तेन अनन्यगतेनेत्यर्थः । मन्मना मन्यते देवमहिमानं जानातीति मन्म तेन । मन्यतेर्मन् प्रत्ययः । देवतायाथात्म्यज्ञेनेत्यर्थः । यत एतादृशेन मनसा वयं हविः ररिम अतो हे अग्ने, विप्रो मेधावी त्वं देवान् यक्षि यज । मद्दत्तेन हविषा देवांस्तर्पयेत्यर्थः । यजतेः 'बहुलं छन्दसि' (पा० २ । ४ । ७३ ) इति शपि लुप्ते मध्यमैकवचने षत्वे ष्टुत्वे यक्षीति रूपम् । विप्रो अग्ने इत्यत्र 'प्रकृत्यान्तःपादमव्यपर' (पा० ६।१।१०५) इति प्रकृतिभावः ॥ ७५ ॥

षट्सप्ततितमी।
धा॒म॒च्छद॒ग्निरिन्द्रो॑ ब्र॒ह्मा दे॒वो बृह॒स्पति॑: । सचे॑तसो॒ विश्वे॑दे॒वा य॒ज्ञं प्राव॑न्तु नः शु॒भे ।। ७६ ।।
उ० धामच्छत् । वैश्वदेव्यनुष्टुप् । धामच्छत् । धामशब्दः स्थानवचनः । स्थानानि न्यूनानि पूरयति अतिरिक्तानि समीकरोति यः स धामच्छत् एवं धामच्छब्दः देवशब्दश्च सर्वत्र संबध्यते । योऽग्निर्देवो धामच्छत् यश्चेन्द्रः यश्च ब्रह्मा यश्च बृहस्पतिः । एते सर्वे सचेतसः समानचेतसः । चेत:शब्दः प्रकारवचनः । यज्ञं प्रावन्तु अन्यूनातिरिक्तं कुर्वन्तु । नः अस्माकम् शुभे स्विष्टे च ॥ ७६ ॥
म०. विश्वदेवदेवत्यानुष्टुप् । एते देवा नोऽस्माकं यज्ञं प्रावन्तु प्रकर्षेण रक्षन्तु । अन्यूनातिरिक्तं कुर्वन्वित्यर्थः । अन्यूनातिरेक एव कर्मणो रक्षणम् । शुमे इष्टे स्थाने स्वर्गे च यज्ञं स्थापयन्त्विति शेषः । यद्वा शुभे स्थाने यज्ञ प्रावन्तु । एते के । अग्निः देव इति सर्वत्र संबन्धनीयम् । इन्द्रः । ब्रह्मा चतुर्मुखः । बृहस्पतिर्जीवः । विश्वे देवाश्च । धामानि स्थानानि छादयति आच्छादयति धामच्छत् । छादयतेः क्विपि णिलोपे धातोर्ह्रस्वः । धाम्नां छदनं न्यूनानां पूरणमतिरिक्तानां समीकरणम् । इदं सर्वेषां विशेषणम् । तथा सचेतसः चेतसा प्रज्ञया सहिताः सचेतसः । समानं चेतो येषामिति वा समानज्ञाना अग्न्यादयो मद्यज्ञं रक्षन्त्वित्यर्थः ॥ ७६ ॥

सप्तसप्ततितमी।
त्वं य॑विष्ठ दा॒शुषो॒ नॄँ: पा॑हि शृणु॒धी गिर॑: । रक्षा॑ तो॒कमु॒त त्मना॑ ।। ७७ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां अष्टादशोऽध्यायः ॥ १८ ॥
उ० त्वं यविष्ठ इति व्याख्यातम् । नह्येषु प्रत्यक्षकृतमस्ति अनृषेरतपसो वेत्युपक्रम्य भूयोविद्यः प्रशस्यो भवतीति चाविधायाह । तस्माद्यदेव किंचानूचानो भवत्यार्षं तद्भवतीति अतोऽयमार्षेयो ग्रन्थ इति विद्वद्भिरादरणीयः ॥ ७७ ॥
इति उवटकृतौ मन्त्रभाष्येऽष्टादशोऽध्यायः ॥ १८ ॥
म०. ऋष्यादि प्रागुक्तम् । व्याख्याता च (अ० १३ । क. ५२)॥ ७७ ॥
महीधरकृते वेददीपेऽष्टादश ईरितः ।
वसोर्धारादिकोऽध्यायश्चित्युपस्थावसानकः ॥ १८ ॥


[सम्पाद्यताम्]

टिप्पणी

१८.३८ ऋताषाड् ऋतधामाग्निर् इति

राष्ट्र / राष्ट्रभृतोपरि संदर्भाः