शतपथब्राह्मणम्/काण्डम् ९/अध्यायः ३/ब्राह्मण २

विकिस्रोतः तः

वसोर्धारा होमम्

वसुधारा
वसुधारा मण्डल

९.३.२ वसोर्धाराहोमः

अथातो वसोर्धारां(वा.सं. १८.१) जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र वसुस्तस्मै देवा एतां धारां प्रागृह्णंस्तयैनमप्रीणंस्तद्यदेतस्मै वसव एतां धारां प्रागृह्णंस्तस्मादेनां वसोर्धारेत्याचक्षते तथैवास्मा अयमेतां धारां प्रगृह्णाति तयैनं प्रीणाति - ९.३.२.१

यद्वेवैतां वसोर्धारां जुहोति । अभिषेक एवास्यैष एतद्वा एनं देवाः सर्वं कृत्स्नं संस्कृत्याथैनमेतैः कामैरभ्यषिञ्चन्नेतया वसोर्धारया तथैवैनमयमेतत्सर्वं कृत्स्नं संस्कृत्याथैनमेतैः कामैरभिषिञ्चत्येतया वसोर्धारयाज्येन पञ्चगृहीतेनौदुम्बर्या स्रुचा तस्योक्तो बन्धुः - ९.३.२.२

वैश्वानरं हुत्वा । शिरो वै वैश्वानरः शीर्ष्णो वा अन्नमद्यतेऽथो शीर्षतो वाऽअभिषिच्यमानोऽभिषिच्यते मारुतान्हुत्वा प्राणा वै मारुताः प्राणैरु वा अन्नमद्यतेऽथो प्राणेषु वा अभिषिच्यमानोऽभिषिच्यते - ९.३.२.३

तद्वा अरण्येऽनूच्ये । वाग्वा अरण्येऽनूच्यो वाचो वा अन्नमद्यतेऽथो वाचा वाऽअभिषिच्यमानोऽभिषिच्यते तदेतत्सर्वं वसु सर्वे ह्येते कामाः सैषा वसुमयी धारा यथा क्षीरस्य वा सर्पिषो वैवमारभ्यायैवेयमाज्याहुतिर्हूयते तद्यदेषा वसुमयी धारा तस्मादेनां वसोर्धारेत्याचक्षते - ९.३.२.४

स आह । इदं च म इदं च म इत्यनेन च त्वा प्रीणाम्यनेन चानेन च त्वाऽभिषिञ्चाम्यनेन चेत्येतदथो इदं च मे देहीदं च म इति सा यदैवैषा धाराग्निं प्राप्नुयादथैतद्यजुः प्रतिपद्येत - ९.३.२.५

एतद्वा एनं देवाः । एतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाऽथैनमेतान्कामानयाचन्त तेभ्य इष्टः प्रीतोऽभिषिक्त एतान्कामान्प्रायच्छत्तथैवैनमयदेतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाऽथैनमेतान्कामान्याचते तस्मा इष्टः प्रीतोऽभिषिक्तऽएतान्कामान्प्रयच्छति द्वौद्वौ कामौ संयुनक्त्यव्यवच्छेदाय यथा व्योकसौ संयुञ्ज्यादेवं यज्ञेन कल्पन्तामिति - ९.३.२.६

एतद्वै देवा अब्रुवन् । केनेमान्कामान्प्रतिग्रहीष्याम इत्यात्मनैवेत्यब्रुवन्यज्ञो वै देवानामात्मा यज्ञ उ एव यजमानस्य स यदाह यज्ञेन कल्पन्तामित्यात्मना मे कल्पन्तामित्येवैतदाह - ९.३.२.७

द्वादशसु कल्पयति । द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणात्यथो तावतैवैनमेतदन्नेनाभिषिञ्चति चतुर्दशसु कल्पयत्यष्टासु कल्पयति दशसु कल्पयति त्रयोदशसु कल्पयति - ९.३.२.८

अथोत्तरहोमाः

अथार्धेन्द्राणि जुहोति । सर्वमेतद्यदर्धेन्द्राणि सर्वेणैवैनमेतत्प्रीणात्यथो सर्वेणैवैनमेतदभिषिञ्चति - ९.३.२.९

अथ ग्रहाञ्जुहोति । यज्ञो वै ग्रहा यज्ञेनैवैनमेतदन्नेन प्रीणात्यथो यज्ञेनैवैनमेतदन्नेनाभिषिञ्चति - ९.३.२.१०