शतपथब्राह्मणम्/काण्डम् ९/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मण १

१ वैश्वानरहोमः-तत्र च द्वादशकपालपुरोडाशद्रव्यकवैश्वानरहोमस्य सहेतुकं सोपपत्तिकं सार्थवादं विधानं, पुनस्तस्य प्रकारान्तरेण प्रशंसनार्थं वैश्वानरशब्दस्य निर्वचनमुपपादनं च, वैश्वानरयागानन्तरं मारुतानां होमं विधाय तेषां प्राणात्मना प्रशंसनं, तेषां मारुतानां प्राणात्मकत्वात्तदनुविधायिनीं संख्यामभिधायोक्तं प्राणत्वमुपजीव्योपांशुयागादिकस्य प्रतिपादनं, द्वन्द्वशो मारुतानां होममनूद्य तेषां तत्तद्द्वन्द्वीभूतप्राणात्मकताप्रदर्शनद्वारा होमस्थानप्रकारनिरूपणं, ततोऽरण्येऽनूच्यस्य पुरोडाशस्य वागात्मना प्रशंसनं, पूर्वं वैश्वानरस्य शिरोरूपत्वं मारुतानां तु तत्तत्प्राणरूपत्वमभिहितमिदानीं तेषामेव वैश्वानरमारुतानां क्षत्रप्रजात्मना प्रशंसनं, तेषामुक्तमेव क्षत्रप्रजात्मकत्वमुपजीव्य तत्संख्यादिकस्य प्रशंसनं, पूर्वं वैश्वानरमारुतानां केवलं होमो विहितः इदानीं तत्र कञ्चिद्विशेषं विधाय तस्य प्रशंसनं, मारुतानामुक्तप्रकारकेण होमेन वैश्वानरवद्यागसम्पत्तिर्घटते सा सम्पत्तिः कथं भवतीति प्रश्नपूर्वकं तस्याः प्रदर्शनं, होमक्रमेण तेषां मारुतानां प्रत्येकस्य नद्यादिरूपेण प्रशंसनं, वैश्वानरमादित्यरूपेण मारुतांस्तु तद्रश्मिरूपेण प्रशस्य तत्र मारुतानां मरुद्गणसंख्यानुसारेण सप्तकपालत्वप्रतिपादनं, मारुताना होमे मन्त्रान्प्रदर्श्य तेषामभिप्रायनिरूपणं चेत्यादि.


ब्राह्मण २

२ वसोर्धाराहोमः-तत्र च वसोर्धाराहोमं विधाय वसोर्धाराशब्दनिर्वचनपुरःसरं तत्प्रशंसनं, पुनस्तस्यैव वसोर्धाराहोमस्य संस्कृताग्नेरभिषेकात्मना प्रशंसनं, विहितो वसोर्धाराहोमः पञ्चगृहीताज्यपूर्णया स्रुचा कर्तव्य इति स्तावकार्थवादातिदेशसहितं निरूपणं, एतस्य वसोर्धाराहोमस्य वैश्वानरमारुतहोमानन्तर्यत्वप्रशंसनं, वसोर्धाराहोमे स्थानविशेषविधानं वसोर्धारापदस्य प्रकारान्तरेण पुनर्निर्वचनं च, ततः क्रियमाणेयं वसोर्धाराऽऽहुतिः क्षीरादिधारावत्सम्पाद्यत इति तस्या धाराकारताप्रदर्शनं, प्रकृतवसोर्धाराहोममन्त्राणां तात्पर्यार्थप्रदर्शनं, अन्यत्र सर्वत्र मन्त्रान्ते कर्मकरणात्तद्वदत्रापि होमप्रसक्तौ कस्यचिद्विशेषस्य प्रतिपादनं, मन्त्रैर्विवक्षितस्यार्थस्य विविच्य दर्शनं, मन्त्राणामवसाने प्राप्तं व्यवच्छेदं बाधित्वा द्वौ द्वौ मंत्रौ संयुज्यादिति विशेषाभिधानं, मंत्रेषु तत्र तत्रावसानेषु " यज्ञेन कल्पताम्" इत्याम्नायते तस्योपयोगकथनं, " यज्ञेन कल्पताम्" इत्यत्र यज्ञशब्देनात्मनेत्यर्थो विवक्ष्यत इत्यभिधानं, “यज्ञेन कल्पताम्" इति वाक्यं प्रतिद्वादशमन्त्रावसाने क्वचित्क्वचिच्चतुर्दशस्वष्टासु दशसु त्रयोदशसु च प्रयुञ्ज्यादिति सहेतुकं प्रतिपादनम् ।
उत्तरहोमाः-तत्र चादावर्धेन्द्रसंज्ञकमन्त्रकरणकहोमस्य सार्थवादं विधानं, प्रहसंज्ञकमन्त्रकरणकहोमस्य सार्थवादं विधानं चेत्यादि.


ब्राह्मण ३

३ यज्ञक्रतुसंज्ञकमंत्रकरणकहोमस्य सार्थवादं विधानम् , अयुजस्तोमसंज्ञकमन्त्रकरणकहोमस्य सार्थवादं विधानं, तत्रायुजस्तोमानामवधित्वं प्रतिपाद्य तस्य प्रशंसनं, युग्मस्तोमसंज्ञकमंत्रकरणकहोमस्य सार्थवादं विधानम् , अत्रापि पूर्ववद्युग्मस्तोमावधित्वं प्रतिपाद्य तस्य प्रशंसनं, ततस्तत्र तत्रोत्तरस्तोमपरिग्रहे वृक्षशाखारोहणक्रमेण तानेव द्विविधान् स्तोमान्प्रशस्य पुनस्तेषामेव स्तोमानामन्नात्मना प्रशंसनं, वयः-संज्ञकमंत्रकरणकहोमस्य सार्थवादं विधानं, नामग्राहसंज्ञकमंत्रफरणकहोमस्य सार्थवादं विधानं, तेषां मंत्राणां संख्या कृत्स्नाऽग्निप्रीतिहेतुर्भवतीति . प्रशंसनं, " वाजाय-स्वाहा ” इत्यादिनामग्राहमंत्रहोमानन्तरं "इयं ते राट् " इत्यस्य मंत्रस्य सार्थवादं प्रयोगकथनम्, उक्तं मन्त्रमनूद्य तस्य सोपपत्तिकं व्याख्यानं, कल्पसंज्ञकमन्त्रकरणकहोमस्य सार्थवादं विधानं, कल्पहोमा द्वादश भवन्तीति सार्थवादमभिधानं, कल्पहोमेष्वन्तिममन्त्रस्य व्याख्यानं अस्मिन्नवसरे वसोर्धाराहोमसाधनभूतां तां स्रुचमग्नौ प्रास्येदिति सहेतुकं विधानम् , एतस्या वसोर्धाराया द्युलोकादिषु गवाकारताप्रदर्शनेन पर्यावृत्तिप्रदर्शनम् , उक्तार्थवेदनस्य प्रशंसनं, प्रतिज्ञापूर्वकमस्या वसोर्धारायाः सम्पत्तेरभिधानं चेत्यादि,


ब्राह्मण ४

४ वाजप्रसवीयहोमः-तत्र च वाजप्रसवीयहोमं विधाय तत्प्रयोजनकथनद्वारा तस्य पदस्य प्रवृत्तिनिमित्तप्रदर्शनं, पूर्वं वसोर्धारया प्रीणितस्याभिषिक्तस्य चाग्नेरयं वाजप्रसवीयो होमो भूयः प्रीणनाभिषेकहेतुर्भवतीति प्रशंसनं, प्रकृतहोमे द्रव्यविशेषं विधाय तत्प्रशंसनं, प्रसङ्गात्तेषां चतुर्दशानामन्नानां मध्ये एकमन्नं परित्यजेत्किञ्च तदन्नं यावज्जीवं नाश्नीयादित्यभिधानं, तत्रैव होमे स्तावकार्थवादातिदेशसहित. मौदुम्बरं स्रुवचमसलक्षणं पात्रविशेषं विधाय तयोः स्रुवचमसयोराकारविशेषं च विधाय तत्प्रशंसनं, पुनस्तस्यैव वाजप्रसवीयहोमस्य प्रकारान्तरेण प्रशंसनं, पार्थहोमविधानं, तानि पार्थानि प्रकृतस्य वाजप्रसवीयस्याभितो जुहुयादिति सप्रयोजनमभिधानं, पूर्वोक्तप्रकारेण होमेन सर्वाभिषेकसिद्धिः कथमिति प्रश्ने सोपपत्तिकं तदुत्तरप्रतिपादनं, राजसूयवाजपेयसम्बन्धिनां वाजप्रसवीयकर्मणां पौर्वापर्ये कारणकथनम् , आग्निकानामुत्तमत्वस्योपपादनम ।
अभिषेकः--तत्रेत्थं सक्रमं, पार्थहोममभिधायेदानीं यजमानस्य कृष्णाजिनेऽभिषेकं विधाय तस्य कृष्णाजिनस्य यज्ञात्मना प्रशंसनं "कृष्णाजिनेऽभिषिञ्चति" इति सामान्येन विधानान्निर्लोमप्रदेशे कदाचिदभिषेकः स्यादिति कस्यचित्प्रतिप्रत्तिः स्यात्तस्या निवारणार्थं लोम्नां छन्दोरूपत्वेन प्रशंसनद्वारा कृष्णाजिनस्य सलोमकत्वप्रतिपादनं, स चाभिषेक उत्तरभागे कर्तव्य इति स्तावकार्थवादातिदेशसहितं निरूपणं, कृष्णाजिनस्य संस्थानविशेषं विधाय तत्प्रशंसनं, अभिषेकस्थानविषये सोपपत्तिकं केषाञ्चिच्छाखिनां मतमनूद्य तन्निरसनं, तथैवान्येषां मतमनूद्य तन्निरसनं, उत्तरतः कर्तव्यस्याभिषेकस्य गुणविशेषकथनेन प्रशंसनं, प्राप्तैश्वर्यस्य प्राप्स्यमानैश्वर्यस्य च यजमानस्याभिषेकसंस्थानविशेषस्य विधानं, फलविशेषानुरोधेन धर्मविशेषेऽभिषेकस्य विधानं, विवक्षितस्थानसंस्थान विशेषविशिष्टस्य कृष्णाजिनास्तरणस्य विधानं कृष्णाजिनस्य परिश्रितां स्पर्शो यजमानसम्बन्धिदेवात्माऽभिषेकहेतुर्भवतीति प्रशंसनं, प्रकारान्तरेणापि दैवस्यात्मनोऽभिषेकस्य सिद्धिप्रदर्शनं, अग्नेर्यजमानदैवात्मत्वमुपजीव्य पार्थादिहोमस्याभिषेकस्य च पौर्वापर्यमुपपाद्यास्मिन्नवसरे होमसाधनभूतमौदुम्बरं स्रुवमनुप्रास्येदिति सकारणं विधानं, कृष्णाजिनास्तरणादिकार्यानंतरमस्य यजमानस्याभिषेकमभिधाय तत्र मंत्रं च विनियुज्य तस्य व्याख्यानम् , तदभिषेकसाधनभूतं चमसमग्नौ प्रास्येदिति सकारणमभिधानम् , अभिषेकस्य पूर्वोत्तरपार्थमध्यवर्तित्वस्य प्रशंसनं, पार्थानां पृथग्भूतायाः षट्संख्यायाः प्रशंसनं, पूर्वेषामुत्तरेषां च पार्थमन्त्राणां क्रमाद्बृहस्पतीन्द्रदेवताप्रतिपादकत्वमभिधाय तत्प्रशंसनं चेत्यादि.