शतपथब्राह्मणम्/काण्डम् ९/अध्यायः ३/ब्राह्मण १

विकिस्रोतः तः
Jump to navigation Jump to search

९.३.१ वैश्वानरहोमः

अथातो वैश्वानरं जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र वैश्वानरो देवता तस्मा एतद्धविर्जुहोति तदेनं हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते द्वादशकपालो द्वादश मासाः संवत्सरः संवत्सरो वैश्वानरः - ९.३.१.[१]

यद्वेवैतं वैश्वानरं जुहोति । वैश्वानरं वा एतमग्निं जनयिष्यन्भवति तमदः पुरस्ताद्दीक्षणीयायां रेतोभूतं सिञ्चति यादृग्वै योनौ रेतः सिच्यते तादृग्जायते तद्यत्तत्र वैश्वानरं रेतोभूतं सिञ्चति तस्मादयमिह वैश्वानरो जायत उपांशु तत्र भवति रेतो वै तत्र यज्ञ उपांशु वै रेतः सिच्यते निरुक्त इह निरुक्तं हि रेतो जातं भवति - ९.३.१.[२]

स यः स वैश्वानरः । इमे स लोका इयमेव पृथिवी विश्वमग्निर्नरोऽन्तरिक्षमेव विश्वं वायुर्नरो द्यौरेव विश्वमादित्यो नरः - ९.३.१.[३]

ते ये त इमे लोकाः । इदं तच्छिर इदमेव पृथिव्योषधयः श्मश्रूणि तदेतद्विश्वं वागेवाग्निः स नरः सोपरिष्टादस्य भवत्युपरिष्टाद्ध्यस्या अग्निः - ९.३.१.[४]

इदमेवान्तरिक्षम् । तस्मादेतदलोमकमलोमकमिव ह्यन्तरिक्षं तदेतद्विश्वं प्राण एव वायुः स नरः स मध्येनास्य भवति मध्येन ह्यन्तरिक्षस्य वायुः - ९.३.१.[५]

शिर एव द्यौः । नक्षत्राणि केशास्तदेतद्विश्वं चक्षुरेवादित्यः स नरस्तदवस्ताच्छीर्ष्णो भवत्यवस्ताद्धि दिव आदित्यस्तदस्यैतच्छिरो वैश्वानर आत्माऽयमग्निश्चित आत्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति - ९.३.१.[६]

अथ मारुताञ्जुहोति । प्राणा वै मारुताः प्राणानेवास्मिन्नेतद्दधाति वैश्वानरं हुत्वा
शिरो वै वैश्वानरः शीर्षंस्तत्प्राणान्दधाति - ९.३.१.[७]

एक एष भवति । एकमिव हि शिरः सप्तेतरे सप्तकपाला यदु वा अपि बहु कृत्वः
सप्तसप्त सप्तैव तच्छीर्षण्येव तत्सप्त प्राणान्दधाति - ९.३.१.[८]

निरुक्त एष भवति । निरुक्तमिव हि शिरोऽनिरुक्ता इतरेऽनिरुक्ता इव हि प्राणास्तिष्ठन्नेतं जुहोति तिष्ठतीव हि शिर आसीन इतरानासत इव हि प्राणाः - ९.३.१.[९]

तद्यौ प्रथमौ मारुतौ जुहोति । इमौ तौ प्राणौ तौ मध्ये वैश्वानरस्य जुहोति मध्ये हीमौ शीर्ष्णः प्राणौ - ९.३.१.[१०]

अथ यौ द्वितीयौ । इमौ तौ तौ समन्तिकतरं जुहोति समन्तिकतरमिव हीमौ प्राणौ - ९.३.१.[११]

अथ यौ तृतीयौ । इमौ तौ तौ समन्तिकतरं जुहोति समन्तिकतरमिव हीमौ प्राणौ वागेवारण्येऽनूच्यः सोऽरण्येऽनूच्यो भवति बहु हि वाचा घोरं निगच्छति - ९.३.१.[१२]

यद्वेव वैश्वानरमारुताञ्जुहोति । क्षत्रं वै वैश्वानरो विण्मारुताः क्षत्रं च तद्विशं च करोति वैश्वानरं पूर्वं जुहोति क्षत्रं तत्कृत्वा विशं करोति - ९.३.१.[१३]

एक एष भवति । एकस्थं तत्क्षत्रमेकस्थां श्रियं करोति बहव इतरे विशि तद्भूमानं दधाति - ९.३.१.[१४]

निरुक्त एष भवति । निरुक्तमिव हि क्षत्रमनिरुक्ता इतरेऽनिरुक्तेव हि विट्तिष्ठन्नेतं जुहोति तिष्ठतीव हि क्षत्रमासीन इतरानास्त इव हि विट् - ९.३.१.[१५]

तं वा एतम् । पुरोऽनुवाक्यवन्तं याज्यवन्तं वषट्कृते स्रुचा जुहोति हस्तेनैवेतरानासीनः स्वाहाकारेण क्षत्रायैव तद्विशं कृतानुकरामनुवर्त्मानं करोति - ९.३.१.[१६]

तदाहुः । कथमस्यैते पुरोऽनुवाक्यवन्तो याज्यवन्तो वषट्कृते स्रुचा हुता भवन्तीत्येतेषां वै सप्तपदानां मारुतानां यानि त्रीणि प्रथमानि पदानि सा त्रिपदा गायत्री पुरोऽनुवाक्याथ यानि चत्वार्युत्तमानि सा चतुष्पदा त्रिष्टुब्याज्येदमेव कपुच्छलमयं दण्डः स्वाहाकारो वषट्कार एवमु हास्यैते पुरोऽनुवाक्यवन्तो याज्यवन्तो वषट्कृते स्रुचा हुता भवन्ति - ९.३.१.[१७]

तद्यं प्रथमं दक्षिणतो मारुतं जुहोति । याः सप्त प्राच्यः स्रवन्ति ताः स स सप्तकपालो भवति सप्त हि ता याः प्राच्यः स्रवन्ति - ९.३.१.[१८]

अथ यं प्रथममुत्तरतो जुहोति । ऋतवः स स सप्तकपालो भवति सप्त ह्यृतवः - ९.३.१.[१९]

अथ यं द्वितीयं दक्षिणतो जुहोति । पशवः स स सप्तकपालो भवति सप्त हि ग्राम्याः पशवस्तमनन्तर्हितं पूर्वस्माज्जुहोत्यप्सु तत्पशून्प्रतिष्ठापयति - ९.३.१.[२०]

अथ यं द्वितीयमुत्तरतो जुहोति । सप्त ऋषयः स स सप्तकपालो भवति सप्त हि
सप्तऽर्षयस्तमनन्तर्हितं पूर्वस्माज्जुहोत्यृतुषु तदृषीन्प्रतिष्ठापयति - ९.३.१.[२१]

अथ यं तृतीय दक्षिणतो जुहोति । प्राणाः स स सप्तकपालो भवति सप्त हि शीर्षन्प्राणास्तमनन्तर्हितं पूर्वस्माज्जुहोत्यनन्तर्हितांस्तच्छीर्ष्णः प्राणान्दधाति - ९.३.१.[२२]

अथ यं तृतीयमुत्तरतो जुहोति । छन्दांसि स स सप्तकपालो भवति सप्त हि चतुरुत्तराणि छन्दांसि तमनन्तर्हितं पूर्वस्माज्जुहोत्यनन्तर्हितानि तदृषिभ्यश्छन्दांसि दधाति - ९.३.१.[२३]

अथ याः सप्त प्रतीच्यः स्रवन्ति । सोऽरण्येऽनूच्यः स सप्तकपालो भवति सप्त हि ता याः प्रतीच्यः स्रवन्ति सोऽस्यैषोऽवाङ्प्राण एतस्य प्रजापतेः सोऽरण्येऽनूच्यो भवति तिर इव तद्यदरण्यं तिर इव तद्यदवाङ्प्राणस्तस्माद्य एतासां नदीनां पिबन्ति रिप्रतराः शपनतरा आहनस्य वादितरा भवन्ति तद्यद्यदेतदाहेदं मारुता इति
तदस्मा अन्नं कृत्वाऽपिदधाति तेनैनं प्रीणाति - ९.३.१.[२४]

स यः स वैश्वानरो ऽसौ स आदित्योऽथ ये ते मारुता रश्मयस्ते ते सप्त सप्तकपाला भवन्ति सप्तसप्त हि मारुता गणाः - ९.३.१.[२५]

स जुहोति । शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्मांश्चेति नामान्येषामेतानि मण्डलमेवैतत्संस्कृत्याथास्मिन्नेतान्रश्मीन्नामग्राहं प्रतिदधाति - ९.३.१.[२६]