शतपथब्राह्मणम्/काण्डम् ९/अध्यायः ३/ब्राह्मण ४

विकिस्रोतः तः

९.३.४ वाजप्रसवीयहोमः

अथातो वाजप्रसवीयं जुहोति । अन्नं वै वाजोऽन्नप्रसवीयं हास्यैतदन्नमेवास्मा एतेन प्रसौति - ९.३.४.१

एतद्वा एनं देवाः । एतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाथैनमेतद्भूय एवाप्रीणंस्तथैवैनमयमेतदेतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाऽथैनमेतद्भूय एव प्रीणाति - ९.३.४.२

यद्वेवैतद्वाजप्रसवीयं जुहोति । अभिषेक एवास्यैष एतद्वा एनं देवा एतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाऽथैनमेतद्भूय एवाभ्यषिञ्चंस्तथैवैनमयमेतदेतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाऽथैनमेतद्भूय एवाभिषिञ्चति - ९.३.४.३

सर्वौषधं भवति । सर्वमेतदन्नं यत्सर्वौषधं सर्वेणैवैनमेतदन्नेन प्रीणात्यथो सर्वेणैवैनमेतदन्नेनाभिषिञ्चति तेषामेकमन्नमुद्धरेत्तस्य नाश्नीयाद्यावज्जीवमौदुम्बरेण चमसेनौदुम्बरेण स्रुवेण तयोरुक्तो बन्धुश्चतुःस्रक्ती भवतश्चतस्रो वै दिशः सर्वाभ्य एवैनमेतद्दिग्भ्योऽन्नेन प्रीणात्यथो सर्वाभ्य एवैनमेतद्दिग्भ्योऽन्नेनाभिषिञ्चति - ९.३.४.४

यद्वेवैतद्वाजप्रसवीयं जुहोति । एता ह देवताः सुता एतेन सवेन येनैतत्सोष्यमाणो भवति ता एवैतत्प्रीणाति ता अस्मा इष्टाः प्रीता एतं सवमनुमन्यन्ते ताभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स राजा भवति न स यस्मै न तद्यदग्नौ जुहोति तदग्निमभिषिञ्चत्यथो यदेताभ्यो देवताभ्यो जुहोति तदु तान्देवान्प्रीणाति य एतस्य सवस्येशते - ९.३.४.५

अथ वा एतत्पार्थान्यपि जुहोति । एतद्वै देवा अकामयन्तात्रैव सर्वैः सवैः सूयेमहीति तेऽत्रैव सर्वैः सवैरसूयन्त तथैवैतद्यजमानोऽत्रैव सर्वैः सवैः सूयते - ९.३.४.६

तद्यानि पार्थानि । तानि राजसूयस्य वाजप्रसवीयं तद्यत्तानि जुहोति तद्राजसूयेन सूयतेऽथ यानि चतुर्दशोत्तराणि ततो यानि सप्त पूर्वाणि तानि वाजपेयस्य वाजप्रसवीयं तद्यत्तानि जुहोति तद्वाजपेयेन सूयतेऽथ यानि सप्तोत्तराणि तान्यग्नेस्तद्यत्तानि जुहोति तदग्निसवेन सूयते - ९.३.४.७

स वै राजसूयस्य पूर्वाणि जुहोति । अथ वाजपेयस्य राजा वै राजसूयेनेष्ट्वा भवति सम्राड्वाजपेयेन राज्यमु वा अग्रेऽथ साम्राज्यं तस्माद्वाजपेयेनेष्ट्वा न राजसूयेन यजेत प्रत्यवरोहः स यथा सम्राट् सन्राजा स्यात्तादृक्तत् - ९.३.४.८

अग्नेरुत्तमानि जुहोति । सर्वे हैते सवा यदग्निसवः सर्वं हैतदग्निसवेन सुतो भवति राजा च सम्राट्च तस्मादग्नेरुत्तमानि जुहोति - ९.३.४.९

९.३.४.१० अभिषेकः

अथैनं कृष्णाजिनेऽभिषिञ्चति । यज्ञो वै कृष्णाजिनं यज्ञ एवैनमेतदभिषिञ्चति लोमतश्छन्दांसि वै लोमानि छन्दःस्वेवैनमेतदभिषिञ्चत्युत्तरतस्तस्योपरि बन्धुः प्राचीनग्रीवे तद्धि देवत्रा - ९.३.४.१०

तं हैके दक्षिणतोऽग्नेरभिषिञ्चन्ति । दक्षिणतो वा अन्नस्योपचारस्तदेनमन्नस्यार्धादभिषिञ्चाम इति न तथा कुर्यादेषा वै दिक्पितॄणां क्षिप्रे हैतां दिशं प्रैति यं तथाभिषिञ्चन्ति - ९.३.४.११

आहवनीय उ हैकेऽभिषिञ्चन्ति । स्वर्गो वै लोक आहवनीयस्तदेनं स्वर्गे लोकेऽभिषिञ्चाम इति न तथा कुर्याद्दैवो वा अस्यैष आत्मा मानुषोऽयमनेन हास्य ते मर्त्येनात्मनैतं दैवमात्मनैतं दैवमात्मानमनुप्रसजन्ति यं तथाऽभिषिञ्चन्ति - ९.३.४.१२

उत्तरत एवैनभिषिञ्चेत् । एषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राची स्वायामेवैनमेतद्दिश्यायत्तं प्रतिष्ठितमभिषिञ्चति न वै स्व आयतने प्रतिष्ठितो रिष्यति - ९.३.४.१३

आसीनं भूतमभिषिञ्चेत् । आस्त इव वै भूतस्तिष्ठन्तं बुभूषन्तं तिष्ठतीव वै बुभूषन्बस्ताजिने पुष्टिकाममभिषिञ्चेत्कृष्णाजिने ब्रह्मवर्चसकाममुभयोरुभयकामं तदुत्तरतः पुच्छस्योत्तरलोम प्राचीनग्रीवमुपस्तृणाति - ९.३.४.१४

आस्पृष्टं परिश्रितः । तद्यत्कृष्णाजिनमास्पृष्टं परिश्रितो भवति तथो हास्यैष दैव आत्मा कृष्णाजिनेऽभिषिक्तो भवत्यथ यदेनमन्वारब्धमग्निं तिष्ठन्तमभिषिञ्चति तथा हैतस्माद्दैवादभिषेकान्न व्यवच्छिद्यते - ९.३.४.१५

अग्नौ हुत्वाथैनमभिषिञ्चति । दैवो वा अस्यैष आत्मा मानुषोऽयं देवा उ वा अग्रे ऽथ मनुष्यास्तस्मादग्नौ हुत्वाथैनं तस्यैव परिशिष्टेनाभिषिञ्चत्यत्र तं स्रुवमनुप्रास्यति - ९.३.४.१६

अथैनं दक्षिणं बाहुमनुपर्यावृत्याभिषिञ्चति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः साम्राज्येनाभिषिञ्चामीति वाग्वै सरस्वती तस्या इदं सर्वं यन्त्रं सवितृप्रसूत एवैनमेतदनेन सर्वेण सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः साम्राज्येनाभिषिञ्चत्यत्र तं चमसमनुप्रास्यति यदत्र विलिप्तं तन्नेद्बहिर्द्धाऽग्नेरसदिति - ९.३.४.१७

तं वै मध्ये पार्थानामभिषिञ्चति । संवत्सरो वै पार्थानि संवत्सरस्यैवैनमेतन्मध्यत आदधाति षट्पुरस्ताज्जुहोति षडुपरिष्टात्षड्वा ऋतव ऋतुभिरेवैनमेततत्सुषुवाणमुभयतः परिगृह्णाति बृहस्पतिः पूर्वेषामुत्तमो भवतीन्द्र उत्तरेषां प्रथमो ब्रह्म वै बृहस्पतिः क्षत्रमिन्द्रो ब्रह्मणा चैवैनमेतत्क्षत्रेण च सुषुवाणमुभयतः परिगृह्णाति - ९.३.४.१८