सामग्री पर जाएँ

शुक्लयजुर्वेदः/अध्यायः १५

विकिस्रोतः तः
(शुक्‍लयजुर्वेदः/अध्यायः १५ इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः १४ शुक्लयजुर्वेदः
अध्यायः १५
[[लेखकः :|]]
अध्यायः १६ →

वीडियो

अध्याय 15
पञ्चम चिति मन्त्राः, चयन मन्त्राश्च


15.1
अग्ने जातान् प्र णुद नः सपत्नान् प्रत्य् अजातान् नुद जातवेदः ।
अधि नो ब्रूहि सुमना ऽ अहेडꣳस् तव स्याम शर्मꣳस् त्रिवरूथ ऽ उद्भौ ॥

15.2
सहसा जातान् प्र णुदा नः सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व ।
अधि नो ब्रूहि सुमनस्यमानो वयꣳ स्याम प्र णुदा नः सपत्नान् ॥

15.3
षोडशी स्तोम ऽ ओजो द्रविणम् ।
चतुश्चत्वारिꣳश स्तोमो वर्चो द्रविणम् ।
अग्नेः पुरीषम् अस्य अप्सो नाम तां त्वा विश्वे ऽ अभि गृणन्तु देवाः ।
स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणा यजस्व ॥

15.4
एवश् छन्दः ।
वरिवश् छन्दः ।
शंभूश् छन्दः ।
परिभूश् छन्दः ।
ऽ आच्छच् छन्दः ।
मनश् छन्दः ।
व्यचश् छन्दः ।
सिन्धुश् छन्दः ।
समुद्रश् छन्दः ।
सरिरं छन्दः ।
ककुप् छन्दः ।
त्रिककुप् छन्दः ।
काव्यं छन्दः ।
ऽ अङ्कुपं छन्दः ।
अक्षरपङ्क्तिश् छन्दः ।
पदपङ्क्तिश् छन्दः ।
विष्टारपङ्क्तिश् छन्दः ।
क्षुरो भ्राजश् छन्दः ॥

15.5
आच्छच् छन्दः ।
प्रच्छच् छन्दः ।
संयच् छन्दः ।
वियच् छन्दः ।
बृहच् छन्दः ।
रथन्तरं छन्दः ।
निकायश् छन्दः ।
विवधश् छन्दः ।
गिरश् छन्दः ।
भ्रजश् छन्दः ।
सꣳस्तुप् छन्दः ।
ऽ अनुष्टुप् छन्दः ।
ऽ एवश् छन्दः ।
वरिवश् छन्दः ।
वयश् छन्दः ।
वयस्कृच् छन्दः ।
विष्पर्धाश् छन्दः ।
विशालं छन्दः ।
छदिश् छन्दः ।
दूरोहणं छन्दः ।
तन्द्रं छन्दः ।
ऽ अङ्काङ्कं छन्दः ॥

15.6
रश्मिना सत्याय सत्यं जिन्व ।
प्रेतिना धर्मणा धर्मं जिन्व ।
अन्वित्या दिवा दिवं जिन्व ।
संधिनान्तरिक्षेणान्तरिक्षं जिन्व ।
प्रतिधिना पृथिव्या पृथिवीं जिन्व ।
विष्टम्भेन वृष्ट्या वृष्टिं जिन्व ।
प्रवया ऽह्नाहर् जिन्व ।
अनुया रात्र्या रात्रीं जिन्व ।
उशिजा वसुभ्यो वसून् जिन्व ।
प्रकेतेनादित्येभ्य ऽ आदित्यान् जिन्व ॥

15.7
तन्तुना रायस्पोषेण रायस्पोषं जिन्व ।
सꣳसर्पेण श्रुताय श्रुतं जिन्व ।
ऐडेनौषधीभिर् ओषधीर् जिन्व ।
उत्तमेन तनूभिस् तनूर् जिन्व ।
वयोधसाधीतेनाधीतं जिन्व ।
अभिजिता तेजसा तेजो जिन्व ॥

15.8
प्रतिपद् असि प्रतिपदे त्वा ।
अनुपद् अस्य् अनुपदे त्वा ।
सम्पद् असि सम्पदे त्वा ।
तेजो ऽसि तेजसे त्वा ॥

15.9
त्रिवृद् असि त्रिवृते त्वा ।
प्रवृद् असि प्रवृते त्वा ।
विवृद् असि विवृते त्वा ।
सवृद् असि सवृते त्वा ।
ऽऽआक्रमो ऽस्य् आक्रमाय त्वा ।
संक्रमो ऽसि संक्रमाय त्वा ।
उत्क्रमो ऽस्य् उत्क्रमाय त्वा ।
उत्क्रान्तिर् अस्य् उत्क्रान्त्यै त्वा ।
अधिपतिनोर्जोर्जं जिन्व ॥

15.10
राज्ञ्य् असि प्राची दिग् वसवस् ते देवा ऽ अधिपतयो ऽग्निर् हेतीनां प्रतिधर्ता त्रिवृत् त्वा स्तोमः पृथिव्याꣳ श्रयत्व् आज्यम् उक्थम् अव्यथायै स्तभ्नातु रथन्तरꣳ साम प्रतिष्ठित्याऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥

15.11
विराड् असि दक्षिणा दिग् रुद्रास् ते देवा ऽ अधिपतय ऽ इन्द्रो हेतीनां प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्याꣳ श्रयतु प्रौगम् उक्थम् अव्यथायै स्तभ्नातु बृहत् साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥

15.12
सम्राड् असि प्रतीची दिग् आदित्यास् ते देवा ऽ अधिपतयो वरुणो हेतीनां प्रतिधर्ता सप्तदशस् त्वा स्तोमः पृथिव्याꣳ श्रयतु मरुत्वतीयम् उक्थम् अव्यथायै स्तभ्नातु वैरूपꣳ साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥

15.13
स्वराड् अस्य् उदीच्य् दिङ् मरुतस् ते देवा ऽ अधिपतयः सोमो हेतीनां प्रतिधर्तैकविꣳशस् त्वा स्तोमः पृथिव्याꣳ श्रयतु निष्केवल्यम् उक्थम् अव्यथायै स्तभ्नातु वैराजꣳ साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥

15.14
अधिपत्न्य् असि बृहती दिग् विश्वे ते देवा ऽ अधिपतयो बृहस्पतिर् हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिꣳशौ त्वा स्तोमौ पृथिव्याꣳ श्रयतां वैश्वदेवाग्निमारुते ऽ उक्थे ऽ अव्यथायै स्तभ्नीताꣳ शाक्वररैवते सामनी प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥

15.15
[]अयं पुरो हरिकेशः सूर्यरश्मिस् तस्य रथगृत्सश् च रथौजाश् च सेनानीग्रामण्यौ ।
पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

15.16
अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश् च रथेचित्रश् च सेनानीग्रामण्यौ ।
मेनका च सहजन्या चाप्सरसौ यातुधाना हेती रक्षाꣳसि प्रहेतिस् तेभ्यो नमो ऽअस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

15.17
अयं पश्चाद् विश्वव्यचास् तस्य रथप्रोतश् चासमरथश् च सेनानीग्रामण्यौ ।
प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ व्याघ्रा हेतिः सर्पा प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

15.18
अयम् उत्तरात् संयद्वसुस् तस्य तार्क्ष्यश् चारिष्टनेमिश् च सेनानीग्रामण्यौ ।
विश्वाची च घृताची चाप्सरसाव् आपो हेतिर् वातः प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

15.19
अयम् उपर्य् अर्वाग्वसुस् तस्य सेनजिच् च सुषेणश् च सेनानीग्रामण्यौ ।
उर्वशी च पूर्वचित्तिश् चाप्सरसाव् अवस्फूर्जन् हेतिर् विद्युत् प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

15.20
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।
अपाꣳ रेताꣳसि जिन्वति ॥

15.21
अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः ।
मूर्धा कवी रयीणाम् ॥

15.22
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत ।
मूर्ध्नो विश्वस्य वाघतः ॥

15.23
भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥

15.24
अबोध्य् अग्निः समिधा जनानां प्रति धेनुम् इवायतीम् उषासम् ।
यह्वा ऽ इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥

15.25
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।
गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ॥

15.26
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः ।
यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥

15.27
जनस्य गोपा ऽ अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे ।
घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ॥

15.28
त्वाम् अग्ने ऽ अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वने-वने ।
स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥

15.29
सखायः सं वः सम्यञ्चम् इषꣳ स्तोमं चाग्नये ।
वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥

15.30
सꣳ-सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य ऽ आ ।
इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥

15.31
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे ॥

15.32
एना वो ऽ अग्निं नमसोर्जो नपातम् आ हुवे ।
प्रियं चेतिष्ठम् अरतिꣳ स्वध्वरं विश्वस्य दूतम् अमृतम् ॥

15.33
विश्वस्य दूतम् अमृतं विश्वस्य दूतम् अमृतम् ।
स योजते ऽ अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः ॥

15.34
स दुद्रवत् स्वाहुतः स दुद्रवत् स्वाहुतः ।
सुब्रह्मा यज्ञः सुशमी वसूनां देवꣳ राधो जनानाम् ॥

15.35
अग्ने वाजस्य गोमत ऽ ईशानः सहसो यहो ।
अस्मे धेहि जातवेदो महि श्रवः ॥

15.36
स ऽ इधानो वसुष् कविर् अग्निर् ईडेन्यो गिरा ।
रेवद् अस्मभ्यं पुर्वणीक दीदिहि ॥

15.37
क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः ।
स तिग्मजम्भ रक्षसो दह प्रति ॥

15.38
भद्रो नोऽअग्निर् आहुतो भद्रा रातिः सुभग भद्रो ऽअध्वरः ।
भद्राऽ उत प्रशस्तयः ॥

15.39
भद्रा ऽ उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये ।
येना समत्सु सासहः ॥

15.40
येना समत्सु सासहो ऽव स्थिरा तनुहि भूरि शर्धताम् ।
वनेमा ते ऽ अभिष्टिभिः ॥

15.41
अग्निं तं मन्ये यो वसुर् अस्तं यं यन्ति धेनवः ।
अस्तम् अर्वन्त ऽ आशवो ऽस्तं नित्यासो वाजिन ऽ इषꣳ स्तोतृभ्य ऽ आ भर ॥

15.42
सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः ।
सम् अर्वन्तो रघुद्रुवः सꣳ सुजातासः सूरय ऽ इषꣳ स्तोतृभ्य ऽ आ भर ॥

15.43
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष ऽ आसनि ।
उतो न ऽ उत् पुपूर्या ऽ उक्थेषु शवसस् पत ऽ इषꣳ स्तोतृभ्य ऽ आ भर ॥

15.44
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् ।
ऋध्यामा त ऽ ओहैः ॥

15.45
अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः ।
रथीर् ऋतस्य बृहतो बभूथ ॥

15.46
एभिर् नो ऽ अर्कैर् भवा नो अर्वाङ् स्वर्ण ज्योतिः ।
अग्ने विश्वेभिः सुमना ऽ अनीकैः ॥

15.47
अग्निꣳ होतारं मन्ये दास्वन्तं वसुꣳ सूनुꣳ सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऽ ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषाऽऽजुह्वानस्य सर्पिषः ॥

15.48
अग्ने त्वं नो ऽ अन्तम उत त्राता शिवो भवा वरूथ्यः ।
वसुर् अग्निर् वसुश्रवा ऽ अच्छा नक्षि द्युमत्तमꣳ रयिं दाः ।
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥

15.49
येन ऽ ऋषयस् तपसा सत्रम् आयन्न् इन्धाना ऽ अग्निꣳ स्वर् आभरन्तः ।
तस्मिन्न् अहं नि दधे नाके ऽ अग्निं यम् आहुर् मनव स्तीर्णबर्हिषम् ॥

15.50
तं पत्नीभिर् अनु गच्छेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः ।
नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे ऽ अधि रोचने दिवः ॥

15.51
आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः ।
पृष्ठे पृथिव्या निहितो दविद्युतद् अधस् पदं कृणुतां ये पृतन्यवः ॥

15.52
अयम् अग्निर् वीरतमो वयोधाः सहस्रियो द्योतताम् अप्रयुच्छन् ।
विभ्राजमानः सरिरस्य मध्य ऽ उप प्र याहि दिव्यानि धाम ॥

15.53
सम्प्रच्यवध्वम् उप सम्प्रयाताग्ने पथो देवयानान् कृणुध्वम् ।
पुनः कृण्वाना पितरा युवानान्वा ताꣳसीत् त्वयि तन्तुम् एतम् ॥

15.54
उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सꣳ सृजेथाम् अयं च ।
अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विशवे देवा यजमानश् च सीदत ॥

15.55
येन वहसि सहस्रं येनाग्ने सर्ववेदसम् ।
तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥

15.56
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः ।
तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम् ॥

15.57
तपश् च तपस्यश् च शैशिराव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे शैशिराव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥

15.58
परमेष्ठी त्वा सादयतु दिवस् पृष्ठे ज्योतिष्मतीम् ।
विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
सूर्यस् ते ऽधिपतिस् तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद ॥

15.59
लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥

15.60
ता ऽ अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥

15.61
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥

15.62
प्रोथद् अश्वो न यवसे विष्यन् यदा महः संवरणाद् व्य् अस्थात् ।
आद् अस्य वातो ऽ अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ॥

15.63
आयोष् ट्वा सदने सादयाम्य् अवतश् छायायाꣳ समुद्रस्य हृदये ।
रश्मीवतीं भास्वतीम् आ या द्यां भास्य् आ पृथिवीम् ओर्व् अन्तरिक्षम् ॥

15.64
परमेष्ठी त्वा सादयतु दिवस् पृष्ठे व्यचस्वतीं प्रथस्वतीम् दिवं यच्छ दिवं दृꣳह दिवं मा हिꣳसीः ।
विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
सूर्यस् त्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥

15.65
सहस्रस्य प्रमासि ।
सहस्रस्य प्रतिमासि ।
सहस्रस्योन्मासि ।
साहस्रो ऽसि ।
सहस्राय त्वा ॥


भाष्यम्(उवट-महीधर)

पञ्चदशोऽध्यायः।


तत्र प्रथमा।
अग्ने॑ जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् प्रत्यजा॑तान् नुद जातवेदः।
अधि॑ नो ब्रूहि सु॒मना॒ अहे॑डँ॒स्तव॑ स्याम॒ शर्मँ॑स्त्रि॒वरू॑थ उ॒द्भौ ।। १ ।।
उ० अग्नेर्जातान् पञ्चमीं चितिं परमेष्ठ्यपश्यत् । तत्रादौ पञ्चासपत्ना उपधीयन्ते । तत्रादौ द्वे त्रिष्टुभावाग्नेय्यौ पुरस्तादुपदधाति । हे अग्ने, जातानुत्पन्नान् प्रणुद प्रेरय नाशय अपुनरागमनाय । नः आस्माकं सपत्नान् समानपतित्वात् समानपतित्वदर्शिनः शत्रून् । प्रत्यजातान् नुद । प्रतिज्ञाय प्रतिज्ञाय अजातान् अनुत्पन्नान् जनिष्यमाणान् नुद प्रेरय हे जातवेदः । किंच अधि नो ब्रूहि सुमना अहेडन् । एवं निर्धारितेषु सपशुगृहीतेषु च तद्वत्तेषु अधिब्रूहि अधिवद उपदिश यज्ञसंबन्धिनीमितिकर्तव्यतां नः अस्माकम् सुमनाः स्नेहानुबन्धमनाः अहेडन् अक्रुध्यन् । तव च स्याम भवेम । शर्मन् शरणे आश्रये त्रिवरूथे। वरूथं गृहम् त्रिगृहे त्रिपुरे । उद्भौ द्विपदचतुष्पदधनधान्योद्भूतशक्तौ । यद्वा त्रिवरूथे यज्ञगृहे स्याम । त्रीणि हि यज्ञगृहाणि सदोहविर्धानाग्नीध्रेणि । उद्भौ उद्भेत्तरि । अन्येषां यज्ञक्रतूनाम् ॥ १ ॥
म० चतुर्दशेऽध्याये द्वितीयतृतीयचतुर्थचितिमन्त्रानुक्त्वा पञ्चदशे पञ्चमचितिमन्त्रा वाच्याः । 'पञ्चम्यामन्तेष्वाश्विनीवदसपत्ना अग्ने जातानिति प्रतिमन्त्रम्' ( का० १७।११।१-३) । पञ्चम्यां चितावाश्विनीवत् असपत्नासंज्ञा इष्टकाः अन्तेषूपदधाति अग्रे जातान् सहसा जातान् षोडशी चतुश्चत्वारिᳪं᳭शः अग्नेः पुरीषम् इति पञ्चमन्त्रैः प्रत्येकमिति सूत्रार्थः । पञ्चमचितिमन्त्राणां परमेष्ठी ऋषिः । तत्र द्वे अग्निदेवत्ये त्रिष्टुभौ । हे अग्ने, जातान् पूर्वमुत्पन्नान्नोऽस्माकं सपत्नान् शत्रून् त्वं प्रणुद प्रकर्षेण नाशय । किंच हे जातवेदः जातप्रज्ञान, अजाताननुत्पन्नांश्च शत्रून् प्रतिनुद निवर्तय । उत्पत्तिप्रतिबन्धं कुर्वित्यर्थः । उपसर्गव्यवधानमार्षम् । किंच नो- ऽस्माकमधिब्रूहि अधिवद उपदिश यज्ञसंबन्धिनीमितिकर्तव्यतामिति शेषः । किं कुर्वन् । अहेडन् अक्रुध्यन् । सुमनाः शोभनमनस्कः सन्नुपदिशेत्यर्थः । किंच अग्ने, तव त्वत्संबन्धिनि त्रिवरूथे वरूथं गृहं त्रयाणां वरूथानां समाहारे यज्ञगृहेऽत्र सदोहविर्धानाग्नीध्ररूपे वयं स्याम भवेम । सदा यज्ञान्कुर्म इत्यर्थः । कीदृशे । त्रिवरूथे शर्मन् शर्मणि सुखाश्रये । तथा उद्भौ द्विपदचतुष्पदधनधान्यादिभिरुद्भवति समृध्यत इत्युद्भिः तस्मिन् भवतेर्डिप्रत्ययः । अनेन मन्त्रेण पुरस्तादिष्टकामुपदधाति १

द्वितीया।
सह॑सा जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् प्रत्यजा॑ताञ्जातवेदो नुदस्व ।
अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यᳪं᳭ स्या॑म॒ प्र णु॑दा नः स॒पत्ना॑न् ।। २ ।।
उ० सहसा जातान् बलेनोद्भूतशक्तीन् । प्रणाशय अस्माकं सपत्नान् । यद्वा सहसा बलेन स्वशक्त्या उत्पन्नान् प्रेरय अस्मच्छत्रून् । प्रत्यजाताञ्जातवेदो नुदस्व । प्रतिनुदस्व अजाताननुत्पन्नान् हे जातवेदः । किंच । अधि नो ब्रूहि सुमनस्यमानः अधिब्रूहि अधिवद नः अस्माकं सुमनस्यमानः शोभनचित्तः । यथाच वयमेव स्याम भवाम तथा कुरु । भूयोभूयश्च प्रणुद नः अस्माकं सपत्नान् ॥ २॥
म० अथ पश्चादुपदधाति । सहसा बलेन जातानुत्पन्नान्नोऽस्माकं सपत्नान् प्रणुद नाशय । हे जातवेदः, अजातान् उत्पत्स्यमानानपि प्रतिनुदस्व । आत्मनेपदमार्षम् । किंच सुमनस्यमानोऽस्मासु शुभचित्तः सन्नोऽस्मानधिब्रूहि शत्रुभ्योऽधिकान् वद । वयमपि त्वत्प्रसादादधिकाः स्याम भवेम । नोऽस्माकं सपत्नान् प्रणुद । पुनरुक्तिरादरार्था । शोभनं मनो यस्य सुमनाः असुमनाः सुमना भवति सुमनस्यमानः 'भृशादिभ्यः' (पा० ३ । १ । १२) इति क्यङ् ततः शानच् ॥२॥

तृतीया।
षो॒ड॒शी स्तोम॒ ओजो॒ द्रवि॑णं चतुश्चत्वारि॒ᳪं᳭शः स्तोमो॒ वर्चो॒ द्रवि॑णम् ।
अ॒ग्नेः पुरी॑षम॒स्यप्सो॒ नाम॒ तां त्वा॒ विश्वे॑ अ॒भिगृ॑णन्तु दे॒वाः ।
स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णा य॑जस्व ।। ३ ।।
उ० दक्षिणतः षोडशीस्तोमः । यस्यास्तव षोडशी आदित्यः पञ्चदशकलस्य पक्षस्य भर्ता स्तोमभूतः ओजो बलं च द्रविणं धनं हे इष्टके, त्वं तदुभयरूपासि तां त्वामुपदधामि । उत्तरतः चतुश्चत्वारिंशः । यस्यास्तव चतुश्चत्वारिंशः त्रिष्टुप्वज्राक्षरसंमितः स्तोमः वर्चश्व द्रविणं तां त्वामुपदधामि । पञ्चमी । अग्नेः पुरीषम् त्रिष्टुप् । या त्वामग्नेः पञ्चदशकरूपस्य पूरयित्री। व्याख्यतमन्यत् ॥३॥
म० अथ दक्षिणतः । इष्टकादेवत्यं यजुः । पञ्चदशकलस्य पक्षस्य भर्ता य आदित्यरूपः स्तोमः षोडशावृत्त्युपेतो वा यः स्तोमः यच्च ओजो बलरूपं द्रविणं धनम् हे इष्टके, त्वं तदुभयरूपासि तां त्वामुपदधामि । अथोत्तरतः । इष्टकादेवत्यं यजुः । चतुश्चत्वारिंशदावृत्त्या संपन्नो यः स्तोमस्त्रिष्टुब्रूपो वा यच्च बलरूपं धनम् तदुभयरूपां त्वामुपदधामि । अथ मध्येपञ्चमी त्रिष्टुप् । 'प्सा भक्षणे । न प्साति भक्षयति विनाशयतीत्यसो रक्षको नाम योऽग्निस्तस्याग्नेश्चन्द्ररूपस्य पञ्चदशकलस्य पुरीषमसि पूरयित्री भवसि । हे इष्टके, या त्वं तां त्वां विश्वेदेवा अभिगृणन्तु स्तुवन्तु । स्तोमैः पृष्ठैश्च युता होष्यमाणघृतयुता च सती सा त्वमिह चतुर्थ्यां चितौ सीद उपविश । अस्मे अस्मासु प्रजावत्पुत्रयुतं द्रविणं धनं यजस्व देहि ॥३॥

चतुर्थी ।
एव॒श्छन्दो॒ वरि॑व॒श्छन्द॑: श॒म्भूश्छन्द॑: परि॒भूश्छन्द॑ आ॒च्छच्छन्दो॒ मन॒श्छन्दो॒
व्यच॒श्छन्द॒: सिन्धु॒श्छन्द॑: समु॒द्रश्छन्द॑: सरि॒रं छन्द॑: क॒कुप्छन्द॑स्त्रिक॒कुप्छन्द॑: का॒व्यं छन्दो॒
अङ्कु॒॒पं छन्दो॒ ऽक्षर॑पङ्क्ति॒श्छन्द॑: प॒दप॑ङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्द॑: क्षु॒रोभ्रज॒श्छन्द॑: ।। ४ ।।
उ० चत्वारिंशद्विराजश्चत्वारिंशद्भिर्यजुर्भिरुपदधाति । एवश्छन्दः । अयं वै लोक एवश्छन्दः । वरिवश्छन्दः अन्तरिक्षं वै वरिवश्छन्दः । शंभूश्छन्दः द्यौर्वै शंभूश्छन्दः परिभूश्छन्दः दिशो वै परिभूश्छन्दः । आच्छच्छन्दः । अन्नं वा आच्छच्छन्दः। मनश्छन्दः प्रजापतिर्वै मनश्छन्दः। व्यचश्छन्दः असौ वा आदित्यो व्यचश्छन्दः । सिन्धुश्छन्दः प्राणो वै सिन्धुश्छन्दः । समुद्रश्छन्दः मनो वै समुद्रश्छन्दः। सरिरं छन्दः वाग्वै सरिरंछन्दः । ककुप्छन्दः प्राणो वै ककुप्छन्दः। त्रिककुप्छन्दः उदानो वै त्रिककुप्छन्दः । काव्यंछन्दः त्रयी वै काव्यंछन्दः । अङ्कुपं छन्दः आपो वा अङ्कुपंछन्दः । अक्षरपङ्क्तिश्छन्दः । असौ वै लोकोऽक्षरपङ्क्तिश्छन्दः । पदपङ्क्तिश्छन्दः । अयं वै लोकः पदपङ्क्तिश्छन्दः। विष्टारपङ्क्तिश्छन्दः। दिशो वै विष्टारपङ्क्तिश्छन्दः । क्षुरोभ्रजश्छन्दः । असौ वा आदित्यः क्षुरोभ्रजश्छन्दः ॥ ४ ॥
म० 'विराजो दश दश प्रतिदिशं पुरस्तात्प्रथममेवश्छन्द इति प्रतिमन्त्रम्' (का० १७ । ११ । ५) । प्रतिदिशं दश दश विराट्संज्ञा इष्टका उपदधाति ताश्चत्वारिंशत्पद्या एवेति सूत्रार्थः । चत्वारिंशद्यजूंषि इष्टकादेवत्यानि । एति गच्छति सर्वो जन्तुसमूहो यस्मिन्नित्येवः पृथिवीलोकः स एव छन्दोरूपेण स्थितत्वात् छादकत्वाद्वा छन्दः । हे इष्टके, त्वं तद्रूपासि तां त्वामुपदधामि । एवमुत्तरमन्त्रेषु व्याख्या श्रुत्युक्ता ज्ञेया । 'अयं वै लोक एवश्छन्दः ' (८।५।२।३) इति श्रुतेः। वरिवः प्रभामण्डलेन व्रियत आव्रियत इति वरिवोऽन्तरिक्षं तदेव छन्दः । 'अन्तरिक्षं वै वरिवश्छन्दः' ( ८ । ५ । २ । ३) इति श्रुतेः । शंभूः शं सुखं भवत्यस्मादिति शंभूः द्युलोकः । 'द्यौर्वै शम्भूच्छन्दः' (३) इति श्रुतेः । परितो भवति व्याप्य वर्तत इति परिभूर्दिग्वाचकः शब्दः । 'दिशो वै परिभूश्छन्दः' (३) इति श्रुतेः । आच्छत् आच्छादयति स्वरसेन सर्वं शरीरमित्याच्छत् अन्नम् । 'अन्नं वा आच्छच्छन्दः' (३) इति श्रुतेः । मनः प्रथमसृष्टं प्रजापत्यात्मकं यन्मनः तदेव छन्दः तद्रूपासि । 'प्रजापतिर्वै मनश्छन्दः' (३) इति श्रुतेः । व्यचः व्यचति र्व्याप्तिकर्मा । विचति व्याप्नोति सर्वं जगदिति व्यचः । आदित्यः 'असौ वा आदित्यो व्यचश्छन्दः' (३) इति श्रुतेः । सिन्धुः स्यन्दति नाडीभिः शरीरं व्याप्नोतीति सिन्धुः प्राणवायुः । 'प्राणो वै सिन्धुश्छन्दः' (८।५।२ । ४) इति श्रुतेः । समुद्रम् समुद्द्रवन्त्यस्माद्विकल्पसमूहा इति समुद्रं मनः । यद्वा समुद्रसाम्याद्गाम्भीर्येण समुद्रं मनः । 'मनो वै समुद्रः' (४) इति श्रुतेः । सरिरं सलिलं रलयोरैक्यं सरति वदनगह्वरान्निर्गच्छतीति सरिरं वाक् । 'वाग्वै सरिरं छन्दः' (४) इति श्रुतेः । ककुप् कं सुखं शरीरे स्कुभ्नाति धारयतीति ककुप्, कं सुखं कोपयति दीपयतीति वा 'कुप् दीप्तौं' चुरादिः क्विप् । पूर्वपक्षे सलोपश्छान्दसः । ककुप् प्राणः । 'प्राणो वै ककुप् छन्दः' (४) इति श्रुतेः । त्रिककुप् त्रेधा कं पीतमुदकं स्कुभ्नातीति त्रिककुप् उदानः । 'उदानो वै त्रिककुप्छन्दः' (४) इति श्रुतेः । काव्यम् कवेः परमात्मन इदं काव्यं वेदत्रयीरूपः छन्दः । 'त्रयी विद्या काव्यं छन्दः' ( ४ ) इति श्रुतेः । अङ्कुपम् 'अङ्क कुटिलगतौ' अङ्केन कुटिलगत्या आप्नोतीत्यङ्कुपमुदकम् । 'आपो वा अङ्कुपं छन्दः' (४) इति श्रुतेः । अक्षरपङ्क्तिः न क्षरतीत्यक्षरा नाशरहिता पङ्क्तिरावलिर्यस्याः साक्षरपङ्क्तिर्द्यौः । 'असौ वै लोकोऽक्षरपङक्तिश्छन्दः' (४) इति श्रुतेः । पदपङ्क्तिः पदानां चरणन्यासानां पङ्क्तयो यस्मिन् सा पदपङ्क्तिर्भूलोकः । 'अयं वै लोकः पदपङ्क्तिश्छन्दः' (४) इति श्रुतेः । विष्टारपङ्क्तिः विस्तारा विस्तीर्यत इति विस्तारा विस्तारिता प्रसारिता वस्तूनां पङ्क्तयो यत्रेति विष्टारपङ्क्तिर्दिक् । 'दिशो वै विष्टारपङ्क्तिश्छन्दः' (४) इति श्रुतेः । क्षुरः 'क्षुर विलेखनखननयोः' क्षुरति विलिखति व्याप्नोति सर्वमिति क्षुरः तीव्रः । भ्राजते दीप्यत इति भ्रजः ह्रस्वश्छान्दसः । क्षुरोभ्रजः आदित्यः । 'असौ वा आदित्यः क्षुरोभ्रजश्छन्दः' (८ । ५। २ । ४) इति श्रुतेः ॥ ४ ॥

पञ्चमी।
आ॒च्छच्छन्द॑: प्र॒च्छच्छन्द॑: सं॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथन्त॒रञ्छन्दो॑ निका॒यश्छन्दो॑ विवधश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छन्द॑: स॒ᳪं᳭स्तुप्छन्दो॑ ऽनु॒ष्टुप्छन्द॒ एव॒श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॒ विष्प॑र्धा॒श्छन्दो॑ विशा॒लं छन्द॑श्छ॒दिश्छन्दो॑ दूरोह॒णं छन्द॑स्त॒न्द्रं छन्दो॑ अङ्का॒ङ्कं छन्द॑: ।। ५ ।।
उ० आच्छच्छन्दः प्रच्छच्छन्दः अन्नं वा आच्छच्छन्दोऽन्नं प्रच्छच्छन्दः । संयच्छन्दः रात्रिर्वा संयच्छन्दः । वियच्छन्दः असौ वै लोको वियच्छन्दः । निकायश्छन्दः वायुर्वै निकायश्छन्दः । विवधश्छन्दः अन्तरिक्षं वै विवधश्छन्दः । गिरश्छन्दः अन्नं वै गिरश्छन्दः । भ्रजश्छन्दः अग्निर्वै भ्रजश्छन्दः । सᳪं᳭स्तुप्छन्दोनुष्टुप्छन्द इति । वाग्वै सᳪं᳭स्तुप्छन्दो वागनुष्टुप्छन्दः । एवश्छन्दः वरिवश्छन्द इति तस्योक्तो बन्धुः । यथाश्रुति व्याख्यानम् । या त्वम् एवः अवनात्पृथिवीलोकः छन्दः छादनात् तां त्वामुपदधामीति व्याख्याधर्मप्रदर्शनम् ॥ ५॥
म०. आच्छत् आच्छादयति शरीरमित्याच्छदन्नम् । प्रच्छत् प्रच्छादयतीति प्रच्छदन्नम् । 'अन्नं वा आच्छच्छन्दोऽन्नं प्रच्छच्छन्दः' (४) इति श्रुतेः । संयत् संयच्छति व्यापारान्निवर्तयति जन्तूनिति संयत् रात्रिः। रात्रिर्वै संयच्छन्दः' (८। ५।२।५) इति श्रुतेः । वियत् विशेषेण यच्छन्ति गच्छन्ति व्यापारायेतस्ततो जना यत्रेति वियद्दिनम् । 'अहर्वै वियच्छन्दः' (५) इति श्रुतेः । बृहत् विस्तीर्णं स्वः । 'असौ वै लोको बृहच्छन्दः' (५) इति श्रुतेः । रथन्तरम् रथैः तीर्यते गम्यते यत्रेति रथन्तरं भूमण्डलम् । 'अयं वै लोको रथन्तरं छन्दः' (५) इति श्रुतेः । निकायः नितरां कायति शब्दं करोति वृक्षादीनुन्मूलयन्निति निकायो वायुः 'कै शब्दे' । 'वायुर्वै निकायश्छन्दः' (५) इति श्रुतेः । विवधः विविधं वध्यन्ते हन्यन्ते पापफलानि भोक्ष्यन्ते भूतप्रेतादिरूपेण प्राणिनो यत्रेति विवधोऽन्तरिक्षम् । 'अन्तरिक्षं वै विवधश्छन्दः' (५) इति श्रुतेः । गिरः गीर्यते भक्ष्यत इति गिरोऽन्नम् । 'अन्नं वै गिरः' (६) इति श्रुतेः । भ्रजः भ्राजते दीप्यत इति भ्रजोऽग्निः । 'अग्निर्वै भ्रजश्छन्दः' (८) इति श्रुतेः । संस्तुप् अनुष्टुप् सम्यक् स्तुभ्यते रुध्यते वशीक्रियते अनु निरन्तरं स्तुभ्यतेऽनया सा संस्तुप् अनुष्टुप् वाक् । 'वागेव सᳪं᳭स्तुप् छन्दो वागनुष्टुप् छन्दः' (५) इति श्रुतेः । एवः वरिवः इति पदद्वयं व्याख्यातम् । वयः बाल्यादिवयोहेतुभूतमन्नम् । 'अन्नं वै वयश्छन्दः' (६) इति श्रुतेः। वयस्कृत् वयांसि बाल्यादीनि करोतीति वयस्कृत् जठराग्निः । 'अग्निर्वै वयस्कृच्छन्दः' (६) इति श्रुतेः । विष्पर्धाः विविधं स्पर्धन्ते ऐश्वर्याधिक्यदर्शनेन जना यत्रेति विष्पर्धाः स्वर्गः । 'स्पर्ध संघर्षे' असुन् । 'असौ वै लोको विष्पर्धाश्छन्दः' (६) इति श्रुतेः । विशालं विविधं शालन्ते शोभन्ते जना यत्रेति विशालं भूतलम् । 'अयं वै लोको विशालं छन्दः' (६) इति श्रुतेः । छदिः छाद्यतेऽर्करश्मिभिरिति छदिरन्तरिक्षम् । 'अन्तरिक्षं वै छदिश्छन्दः' ( ६ ) इति श्रुतेः । दूरोहणम् दुःखेन रोढुमारोहणं कर्तुं शक्यं निष्कामज्योतिष्टोमादियज्ञप्रयासजातज्ञानसाध्यत्वादिति दूरोहणं रविः । 'असौ वा आदित्यो दूरोहणं छन्दः' (६) इति श्रुतेः । तन्द्रम् । 'तन्द्रि सादे मोहे' तन्द्रति सीदति स्थानसंकोचेनेति तन्द्रः श्रेणी । 'पङ्क्तिर्वै तन्द्रं छन्दः' (६) इति श्रुतेः । अङ्काङ्कम् अङ्के स्थले अङ्कानि गर्तपाषाणादिचिह्नानि यत्रेत्यङ्काङ्कं जलम् । 'आपो वा अङ्काकं छन्दः' ( ६ ) इति श्रुतेः । अत्रेष्टकानां भूलोकादिरूपेण स्तुतिरिति भावः ॥ ५ ॥

षष्ठी।
र॒श्मिना॑ स॒त्याय॑ स॒त्यं जि॑न्व॒ प्रेति॑ना॒ धर्म॑णा॒ धर्मं॑ जि॒न्वान्वि॑त्या दि॒वा दिवं॑ जिन्व स॒न्धिना॒ऽन्तरि॑क्षेणा॒न्तरि॑क्षं जिन्व प्रति॒धिना॑ पृथि॒व्या पृ॑थि॒वीं जि॑न्व विष्ट॒म्भेन॒ वृष्ट्या॒ वृष्टिं॑ जिन्व प्र॒वयाऽह्नाऽह॑र्जिन्वानु॒या रात्र्या॒ रात्रीं॑ जिन्वो॒शिजा॒ वसु॑भ्यो॒ वसू॑ञ्जिन्व प्रके॒तेना॑दि॒त्येभ्य॑ आदि॒त्याञ्जि॑न्व ।। ६ ।।
उ० एकोनत्रिंशत्स्तोमभागानुपदधाति । रश्मिना सत्याय सत्यं जिन्वेति । अत्र श्रुतिकृता व्याख्या । अमुनादोजिन्व । अदोस्यमुष्मै त्वा अधिपतिनोर्जोर्जं जिन्वेति । त्रिधा विहिता मन्त्राः । तत्र प्रथमस्य मन्त्रगणस्य द्विकण्डिकावधिपरिपठितस्य व्याख्यानम् । अमुना रश्मिना अदः सत्यं जिन्व । जिन्वतिस्तर्पणार्थः । रश्मिना अन्नेन सत्याय उपहितासती सत्यं तर्पय । प्रेतिना अन्नेन । धर्मणा धर्मायेति विभक्तिव्यत्ययः । नदिवादिवेऽर्थायोपहितासती दिवं जिन्व ॥ ६ ॥ ७ ॥
म० 'सर्वतोऽषाढावेलायाᳪं᳭ स्तोमभागा रश्मिना सत्यायेति प्रतिमन्त्रं पञ्चदश दक्षिणेनानूकम्' (का० १७ । ११ । ९-१०) अषाढावेलायां सर्वदिक्षु स्तोमभागासंज्ञा इष्टका उपदधाति रश्मिनेत्याद्येकोनत्रिंशन्मन्त्रैः । तन्मध्ये पञ्चदश प्रागनूकं दक्षिणेन अर्थाच्चतुर्दश प्रागनूकमुत्तरेणोपधेया इति सूत्रार्थः । एकोनत्रिंशद्यजूंषीष्टकादेवत्यानि । इमे मन्त्राः श्रुत्या त्रिधा व्याख्याताः । कण्डिकाद्वयपर्यन्तममुनोपहिता सत्यदो जिन्वेति प्रथमः । अदोऽस्यमुष्मै त्वामुपदधामीति द्वितीयः । अधिपतिनोर्जोर्जं जिन्वेति तृतीयः प्रकारः। तथाच श्रुतिः 'अमुनादो जिन्वादोऽस्यमुष्मै त्वाधिपतिनोर्जोर्जं जिन्वेति त्रेधा विहितास्त्रेधा विहितᳪं᳭ ह्यन्नम्' ( ८ । ५। ३। ३ ) इति । अथ वाक्यार्थः । हे इष्टके, त्वं रश्मिनान्नेन सत्यायोपहिता सती सत्यं सत्यवचो जिन्व तर्पय तेजोवृद्धिप्रदत्वादन्नं रश्मिः 'रश्मिरन्नं' (८।५।३।३) इति श्रुतेः । प्रकर्षेण देहे इतिर्गतिर्यस्येति प्रेतिरन्नम् तेन । धर्मणा । विभक्तिव्यत्ययः । धर्मणे धर्मायोपहिता सती धर्मं जिन्व प्रीणय 'प्रेतिरन्नम्' ( ६ ) इति श्रुतेः । सर्वमन्त्रेषु द्वितीयं पदं चतुर्थ्यन्तं कार्यम् । अन्वेति देहमनुगच्छतीत्यन्वितिरन्नम् तया दिवा दिवेऽर्थायोपहिता सती दिवं द्युलोकं जिन्व । 'अन्वितिरन्नं' ( ३ ) इति श्रुतेः । सन्धिना सम्यग्बलादिकं धीयतेऽस्मिन्निति सन्धिरन्नं तेन अन्तरिक्षेण अन्तरिक्षार्थमुपहितान्तरिक्षं जिन्व । प्रतिधीयतेऽस्मिन्निति प्रतिधिरन्नं तेन पृथिव्यै उपहिता सती पृथिवीं जिन्व । विष्टम्भेन देहं विष्टम्भयतीति विष्टम्भोऽन्नं तेन वृष्ट्यै उपहिता वृष्टिं जिन्व । प्रवया प्रकर्षेण वाति देहं गच्छतीति प्रवान्नम् तेनाह्नाह्ने उपहिताहर्दिनं जिन्व । अनुया देहान्तर्गतद्वासप्ततिनाडीभिरनु याति आप्नोति देहमित्यनुयान्नं तया । तृतीयैकवचने 'आतो - धातोः' (पा० ६ । ४ । १४० ) इत्यालोपः । रात्र्यै उपहिता रत्रीं जिन्व । उशिजा 'वश कान्तौ' उश्यते सर्वैः काम्यत " इत्युशिगन्नम् तेन वसुभ्योऽर्थायोपहिता वसून् जिन्व । प्रकेतेन प्रकर्षेण कं सुखमीयतेऽनेनेति प्रकेतमन्नं तेनादित्येभ्योऽर्थायोपहितादित्यान् जिन्व ॥ ६ ॥

सप्तमी।
तन्तु॑ना रा॒यस्पोषे॑ण रा॒यस्पोषं॑ जिन्व सᳪं᳭स॒र्पे॑ण श्रु॒ताय॑ श्रु॒तं जि॑न्वै॒डेनौ॑षधीभि॒रोष॑धीर्जिन्वोत्त॒मेन॑ त॒नूभि॑स्त॒नूर्जि॑न्व व॑यो॒धसाधी॑ते॒नाधी॑तं जिन्वाभि॒जिता॒ तेज॑सा॒ तेजो॑ जिन्व ।। ७ ।।
म० तन्तुना तन्यते विस्तार्यत इति तन्तुरन्नं तेन । | रायस्पोषेण धनपुष्ट्यै उपहिता रायस्पोषं जिन्व । संसर्पेण सम्यक् सर्पति प्रसरति देहे इति संसर्पोऽन्नम् तेन श्रुताय शास्त्रायोपहिता श्रुतं जिन्व । इडान्नम् इडैवैडम् स्वार्थेऽण् तेनौषधीभिः ओषध्यर्थमुपहिता ओषधीर्जिन्व । उत्तमेन उद्गतं तमो यस्मात् यद्वोत्तमेनोत्कृष्टान्नेन तनूभिः शरीरार्थमुपहिता तनूः शरीराणि जिन्व । वयोधसा वयो दधाति पुष्णातीति वयोधा अन्नं तेनाधीतेनाध्ययनायोपहिताधीतं जिन्व । अभि सर्वतो जीयते येनेत्यभिजित्सर्वजयहेतुरन्नं तेन तेजसा तेजो ऽर्थमुपहिता तेजो जिन्व ॥ ७ ॥

अष्टमी।
प्रति॒पद॑सि प्रति॒पदे॑ त्वाऽनु॒पद॑स्यनु॒पदे॑ त्वा स॒म्पद॑सि स॒म्पदे॑ त्वा तेजो॑ऽसि॒ तेज॑से त्वा ।। ८ ।।
उ०. द्वितीयस्य मन्त्रवर्गस्य व्याख्यानम् । अदो धर्मायोपहितासती धर्मं जिन्व । एवं द्वितीयान्तं पदं चतुर्थ्यन्तं कर्तव्यं सर्वत्र मन्त्रेषु अन्वित्या अदोस्यमुष्मै त्वा । अदः असि ॥ ८॥
म० अदोऽस्यमुष्मै त्वेति व्याख्यातमन्त्रानाह । प्रतिपद्यते जीवनमनेनेति प्रतिपदन्नम् । हे इष्टके, त्वं प्रतिपदन्नरूपासि प्रतिपदेऽन्नाय त्वामुपदधामीति शेषः । एवं सर्वत्र । प्रतिदिनमनुपद्यतेऽनुपदन्नमसि अनुपदेऽन्नाय त्वामुपदधामि । हे इष्टके, त्वं संपदन्नमसि संपदेऽर्थाय त्वामुपदधामि । तेजसः कारणत्वात्तेजोन्नम् तेजसे त्वामुपदधामि ॥ ८॥

नवमी।
त्रि॒वृद॑सि त्रि॒वृते॑ त्वा प्र॒वृद॑सि प्र॒वृते॑ त्वा वि॒वृद॑सि वि॒वृते॑ त्वा स॒वृद॑सि स॒वृते॑ त्वा
ऽऽक्र॒मो॒ऽस्याक्र॒माय॑ त्वा संक्र॒मो॒ऽसि संक्र॒माय॑ त्वोत्क्र॒मो॒ऽस्युत्क्र॒माय॒ त्वोत्क्रा॑न्तिर॒स्युत्क्रा॑न्त्यै॒ त्वा
ऽधि॑पतिनो॒र्जोर्जं॑ जिन्व ।। ९ ।।
उ० त्रिवृदसि । अमुष्मै त्वा त्रिवृते त्वा वाक्यधर्मः । यतः त्रिवृदसि त्रिगुणासि । अन्नं हि त्रिगुणम् अन्नं च त्वम् अतः त्रिवृतेर्थाय त्वामुपदधामि प्रवृणोति भूतानीति प्रवृत् अन्नम् यतस्त्वं प्रवृदसि अतः प्रवृतेऽर्थाय त्वामुपदधामीति । तृतीयो व्याख्यायते । अधिपतिना ईश्वरेण । ऊर्जा अन्नरसेन ऊर्जमन्नरसं जिन्व तर्पय । अभिधेयगतां क्रियां पर्यालोच्याभिधानव्युत्पत्तिः कर्तव्या ॥ ९॥
म० कृषिवृष्टिबीजरूपेण त्रिगुणत्वात्त्रिधा वर्तत इति त्रिवृदन्नं तद्रूपां त्वां त्रिवृते उपदधामि । प्रवृणोति भूतानीति प्रवृदन्नं । यतस्त्वं प्रवृदसि अतः प्रवृतेऽर्थाय त्वामुपदधामि । विशेषेण वर्तते भूतेषु इति विवृदन्नं त्वं विवृदसि विवृतेऽर्थाय त्वामुपदधामि । सह वर्तते सवृदसि सवृतेऽन्नाय त्वामुपद० । आक्रामति पराभवति क्षुधामित्याक्रमोऽन्नं त्वमाक्रमोऽसि आक्रमाय त्वामुप० । देहे संक्रामतीति संक्रमोऽन्नं त्वं संक्रमोऽसि संक्रमाय त्वामुप० । सन्तानोत्पत्त्यै बीजरूपेण परिणम्योत्रामुमतीत्युत्क्रमोऽन्नं त्वं तद्रूपासि उत्क्रमाय त्वामुप०। उत्कृष्टा क्रान्तिर्गमनं यस्येत्युत्क्रान्तिरन्नम् हे इष्टके, त्वमुत्रा्वन्तिरसि उत्क्रान्त्यै अर्थाय त्वामुपदधामि । अथ तृतीयो व्याख्याभेदः । अधिकं पातीत्यधिपतिः अधिकपालकेन ऊर्जा अन्नरसेन ऊर्जमन्नरसं जिन्व तर्पय । एवं मन्त्रेष्वभिधेयानुसारेण व्युत्पत्तिः कार्या ॥ ९॥

दशमी।
राज्ञ्य॑सि॒ प्राची॒ दिग्वस॑वस्ते दे॒वा अधि॑पतयो॒ऽग्निर्हे॑ती॒नां प्र॑तिध॒र्ता त्रि॒वृत् त्वा॒ स्तोम॑: पृथि॒व्याᳪं᳭ श्र॑य॒त्वाज्य॑मु॒क्थमव्य॑थायै स्तभ्नातु रथन्त॒रᳪं᳭ साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ।। १ ०।।
उ० नाकसद उपदधाति । राज्ञ्यसि । या त्वं राज्ञी 'राजृ दीप्तौ' । ईश्वरी असि प्राची च दिक् । यस्याश्च वसवः ते तव देवा अधिपतयः अधिष्ठातारः । यस्याश्च अग्निर्हेतीनामस्त्राणां वधहेतुभूतानां धारयिता विधारयिता तां त्वां ब्रवीमि । त्रिवृत्स्तोमः पृथिव्यां श्रयतु स्थापयतु । राज्यं च उक्थम् । अव्यथायै अचलनाय स्तभ्नातु स्थिरीकरोतु । रथन्तरं च साम प्रतिष्ठित्यै प्रतिष्ठानाय स्तभ्नातु । अन्तरिक्षे लोके। ऋषयश्च त्वां प्रथमजाः। प्राणा वा ऋषयः प्रथमजाः । देवेषु मध्ये । दिवः द्युलोकस्य मात्रया वरिम्णा च उरुत्वेन च प्रथन्तु पृथ्वीं कुर्वन्तु । प्रथयन्त्विति प्राप्ते णिचो लोपः। विधर्ता चायमधिपतिश्च । विधर्ता वाक् । | अधिपतिर्मनः। एते च प्रथयताम् । तव एते वस्वादयो यथोक्ताः सर्वे संविदानाः ऐकमत्येनावस्थिताः। नाकस्य पृष्ठे स्वर्गे लोके यजमानं च त्वां च सादयन्तु ॥ १०॥
म० 'नाकसदोऽनूकेषु पूर्ववर्जमृतव्यावेलायामाश्विनीवद्राज्ञ्यसीति प्रतिमन्त्रम्' ( का. १७ । १२ । १) । पूर्वानूके स्थानाभावात् पूर्वानूकवर्जं त्रिदिक्ष्वनूकेषु ऋतव्यावेलायामनूकोपरि राज्ञीत्यादिपञ्चकण्डिकाभिराश्विनीवन्नाकसत्संज्ञेष्टका उपदधातीति सूत्रार्थः । पुरस्तादुपदधाति । राज्ञ्यसि । पञ्च यजूंषि लिङ्गोक्तदेवतानि । हे इष्टके, राज्ञी राजमाना प्राची पूर्वा दिक् त्वमसि । वसवोऽष्टौ देवास्ते तवाधिपतयोऽधिकं पालयितारः । अग्निर्हेतीनामुपद्रवकारिणीनां परायुधानां प्रतिधर्ता निराकर्ता । किंच त्रिवृत्स्तोमः त्वा त्वां पृथिव्यां श्रयतु उत्थापयतु । आज्यमाज्यनामकमुक्थं शस्त्रं 'प्र वो देवायाग्नये' (ऐ० ब्रा० २ । ४०) इत्यादिकम् । अव्यथायै न व्यथा अव्यथा तस्यै चलनाभावाय त्वां स्तभ्नातु दृढीकरोतु । रथन्तरं साम अन्तरिक्षे लोके प्रतिष्ठित्यै प्रतिष्ठानाय त्वां स्तभ्नातु । प्रथमजाः प्रथमोत्पन्ना ऋषयः प्राणा देवेषु द्युलोकमध्ये दिवः आकाशस्य मात्रया परिमाणेन वरिम्णा उरुत्वेन त्वां प्रथन्तु प्रथयन्तु । 'छन्दस्युभयथा' (पा० ३ । ४ । ११७) । इति शप आर्धधातुकत्वाण्णिलोपः । 'प्राणा वा ऋषयः प्रथमजाः' ( ८ । ६ । १।५) इति श्रुतेः । आकाशस्य यादृशं विशालत्वं तादृग्विशालां त्वां कुर्वन्त्वित्यर्थः । विधर्ता इष्टकानिष्पादयिता च पुनरयमधिपतिरिष्टकापालकश्च त्वां प्रथयताम् । यद्वा विधर्ता विशेषेण धारयिता वागभिमानी देवः अयमधिपतिः प्रधानभूतो देवो मनोऽभिमानी तौ च त्वां प्रथयताम् । 'विधर्ता चायमधिपतिश्चेति वाक् च मनश्च तौ हीदᳪं᳭ सर्वं विधारयतः' (८।६।१।५) इति श्रुतेः। किंच ते सर्वे यथोक्ता वस्वादयः संविदानाः ऐकमत्येनावस्थिताः सन्तो नाकस्य पृष्ठे न अकं दुःखं नाकं सुखं तस्य पृष्ठे स्वरूपे सुखरूपे स्वर्गे लोके यजमानम् इष्टके चकारात्त्वां च सादयन्तु । स्तोमाः सामानि च राजसूयप्रकरणे दशमेऽध्याये प्राचीमारोहेत्यादिकण्डिकासु (अ० १० क. १०-१४) व्याख्यातानि ॥१०॥

एकादशी।
वि॒राड॑सि॒ दक्षि॑णा॒ दिग्रु॒द्रास्ते॑ दे॒वा अधि॑पतय॒ इन्द्रो॑ हेती॒नां प्र॑तिध॒र्ता प॑ञ्चद॒शस्त्वा॒ स्तोम॑: पृथि॒व्याᳪं᳭ श्र॑यतु॒ प्रउ॑गमु॒क्थमव्य॑थायै स्तभ्नातु बृ॒हत्साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ।। ११ ।।
उ० उत्तरासु कण्डिकासु देवाः हेतीनां प्रतिधर्तारः स्तोमाः । उक्थानि सामानि चान्यानि भविष्यन्ति । समानमन्यत् ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥
म० अथ दक्षिणतः चतसृषु कण्डिकासु देवाः हेतीनां प्रतिधर्तारः स्तोमाः उक्थानि सामानि चान्यानि । समानमन्यत् । 'वायुरग्रेगाः' (अध्या० २७ क० ३१) इति प्रउगं शस्त्रम् ॥ ११॥

द्वादशी।
स॒म्राड॑सि प्र॒तीची॒ दिगा॑दि॒त्यास्ते॑ दे॒वा अधि॑पतयो॒ वरु॑णो हेती॒नां प्रति॑ध॒र्ता स॑प्तद॒शस्त्वा॒ स्तोम॑: पृथि॒व्याᳪं᳭ श्र॑यतु मरुत्व॒तीय॑मु॒क्थमव्य॑थायै स्तभ्नातु वैरू॒पᳪं᳭ साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ।। १२ ।।
म० अथ पश्चात् । सम्यग्राजते सम्राट् । 'आ त्वा रथं यथोतये' (ऋक्सं० म० ८ । ७ । ९ । १) इति मरुत्वतीयं शस्त्रम् ॥ १२॥

त्रयोदशी।
स्व॒राड॒स्युदी॑ची॒ दिङ्म॒रुत॑स्ते दे॒वा अधि॑पतय॒: सोमो॑ हेती॒नां प्र॑तिध॒र्तैक॑वि॒ᳪं᳭शस्त्वा॒ स्तोम॑: पृथि॒व्याᳪं᳭ श्र॑यतु॒ निष्के॑वल्यमु॒क्थमव्य॑थायै स्तभ्नातु वैरा॒जँ साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ।। १३ ।।
म० अथोत्तरतः । स्वेनैव राजते स्वराट् । 'अभि त्वा शूर नोनुमः' (ऋक्स. म०. ७।२। १५ । २२) इत्यादिकं निष्केवल्यं शस्त्रम् ॥ १३ ॥

चतुर्दशी ।
अधि॑पत्न्यसि बृह॒ती दिग्विश्वे॑ ते दे॒वा अधि॑पतयो॒ बृह॒स्पति॑र्हेती॒नां प्र॑तिध॒र्ता त्रि॑णवत्रयस्त्रि॒ᳪं᳭शौ त्वा॒ स्तोमौ॑ पृथि॒व्याᳪं᳭ श्र॑यतां वैश्वदेवाग्निमारु॒ते उ॒क्थे अव्य॑थायै स्तभ्नीताᳪं᳭ शाक्वररैव॒ते साम॑नी॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ।। १४ ।।

म० अथ मध्ये । हे इष्टके, अधिकं पालयित्री बृहती प्रौढोर्ध्वा दिगसि । त्रिणवत्रयस्त्रिंशौ स्तोमौ त्वां पृथिव्यां श्रयताम्। वैश्वदेवाग्निमारुते शस्त्रे अचलनाय स्तभ्नीताम्। शाक्कररैवते सामनी चान्तरिक्षे स्थित्यै त्वां स्तभ्नीताम् । द्विवचने विशेषः । 'तत्सवितुर्वृणीमहे' ( ऋक्स० म० ५। ६ । १०।१) इत्यादि वैश्वदेवं शस्त्रम् । 'वैश्वानराय पृथुपाजसा' (ऋक्० म० ३ । १ । १३ । १) इत्यादिकमाग्निमारुतं शस्त्रम् । उक्तमन्यत् ॥ १४ ॥

पञ्चदशी।
अ॒यं पु॒रो हरि॑केश॒: सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒त्सश्च॒ रथौ॑जाश्च सेनानीग्राम॒ण्यौ॒ | पु॒ञ्जि॒क॒स्थ॒ला च॑ क्रतुस्थ॒ला चा॑प्स॒रसौ॑ द॒ङ्क्ष्णव॑: प॒शवो॑ हे॒तिः पौरु॑षेयो व॒धः प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। १५ ।।
उ० पञ्चचूडा उपदधाति । अयं पुरः योयमग्निः पुरः पुरस्तादुपधायाचर्यत इति पुर इत्युच्यते । हरिकेशश्च हरितज्वालः सुवर्णवर्णार्चिरिति यावत् । सूर्यरश्मिश्च सूर्यस्येवाग्नेः रश्मयः तस्य रथगृत्सश्च रथेऽवस्थितो गृत्सः मेधावी । गृणतेः स्तुतिकर्मणः रथयुद्धकुशल इत्यर्थः । रथौजाश्च रथे ओजोऽस्यास्ति रथौजाः । चकारौ समुच्चयार्थीयौ । सेनानीग्रामण्यौ । सेनां नयतीति सेनानीः । ग्रामं नयतीति ग्रामणीः । 'वासन्तिकौ तावृतू' इति श्रुतिः। पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ पुञ्जीकृतरूपलावण्यसौभाग्यगुणस्थला । क्रतूनां संकल्पानां स्थलमिव । स्त्रीद्रव्यस्वरूपादिज्ञानं संकल्पः तन्मूलकस्तु कामः । दिशश्च उपदिशश्चेति माहित्थिः । 'सेना च समितिश्च' इति श्रुतिः। दङ्क्ष्णवः दशनशीलाः पशवो हेतिर्वज्रः आयुधम् । पौरुषजनितः वधः विनाशः । प्रहेतिः प्रकृष्टमायुधम् । तेभ्यो नमः अस्तु । तेभ्यो हेतिप्रहेतिभ्यः नमस्कारोस्तु । ते च नोऽस्मानवन्तु गोपायन्तु । ते नो मृडयन्तु ते अस्मान्सुखयन्तु । ते वयं हेतिप्रहेतिभिर्गुप्यमानाः यं पुरुषं द्विष्मः यस्यानिष्टं चिन्तयामः । यश्च पुरुषः नः अस्मान् द्वेष्टि अस्मान्प्रत्यप्रीतिं करोति तं पुरुषम् एषां हेतिप्रहेतीनाम् वयं जम्भे दंष्ट्राकराले मुखे दध्मः प्रक्षिपामः ॥१५॥
म० 'पुरीषमोप्योपर्ययं पुर इति पञ्चचूडाः प्रतिमन्त्रं प्रतिदिशं यथालिङ्गम्' (का० १७ । १२ । २-३) । नाकसत्सु तूष्णीं चात्वालमृदं प्रक्षिप्य नाकसदामुपरि सर्वदिक्षु यथालिङ्गं लिङ्गानतिक्रमेण यल्लिङ्गको मन्त्रस्तद्दिशि तन्मन्त्रेण पञ्चचूडासंज्ञकाः पञ्चेष्टका उपदधातीति सूत्रार्थः । पञ्च यजूंषि लिङ्गोक्तदेवत्यानि । योऽयं पुरोऽग्निः इष्टकारूपः पुरस्तादुपधीयमानत्वात् पुरोऽग्निः । 'अग्निर्वै पुरस्तद्यत्तमाह पुर इति प्राञ्चᳪं᳭ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्ति' ( ८ । ६ । १। १६) इति श्रुतेः । कीदृशः । हरिकेशः हरयो हरितवर्णाः कनकवर्णाः केशाः केशसमा ज्वाला यस्य । 'हरिः पिङ्गे हरिद्वर्णे' इत्यभिधानात् । सूर्यरश्मिः सूर्यस्येव रश्मयः किरणा यस्य 'सूर्यस्येव ह्यग्ने रश्मयः' ( ८ । ६ । १ । १६) इति श्रुतेः । तस्याग्ने रथगृत्सः रथौजाः च सेनानीग्रामण्यौ रथे गृत्सो मेधावी कुशलो रथगृत्सः 'गृत्सो मेधावी गृणातेः स्तुतिकर्मणः' (निरु० ९ । ५) इति यास्कोक्तेः । सेनां नयतीति सेनानीः । चौ समुच्चयार्थौ । रथे ओजस्तेजो यस्य स रथौजाः । रथयुद्धकुशल इत्यर्थः । ग्रामं नयतीति ग्रामणीः । एतन्नामकौ सेनानीग्रामण्यौ परिचारकौ तौ च वासन्तिकावृतू इत्यर्थः । 'वासन्तिकौ तावृतू' (१६) इति श्रुतेः । तथा पुञ्जिकस्थला क्रतुस्थला चेत्यप्सरसौ दिगुपदिग्रूपे यस्य परिचारिके । पुञ्जिकस्य पुजीकृतस्य रूपलावण्यसौभाग्यादिगुणसमूहस्य स्थला आधारभूता पुजिकस्थला । क्रतूनां संकल्पानां रूपादिज्ञा नानां स्थला स्थानभूता क्रतुस्थला। पुञ्जिकस्य क्रतूनां च स्थलं यस्यामिति वहुव्रीहिर्वा । 'पुञ्जिकस्थला च क्रतुस्थला चाप्सरसाविति दिक् चोपदिशा चेति ह स्माह माहित्थिः' (१६) इति श्रुतेः । दङ्क्ष्णवो दशनशीलाः पशवः व्याघ्रादयो हेतिरायुधं वज्रः । पौरुषेयः पुरुषसंबन्धी वधः हननं वधः प्रहेतिः प्रकृष्टमायुधं यस्मिन्नस्त्रे मुक्ते रावणसेनेव परस्परं रिपवो घ्नन्ति स पौरुषेयो वधः । 'यदन्योन्यं घ्नन्ति स पौरुषेयो वधः प्रहेतिः' (१६) इति श्रुतेः । यस्याग्नेरियं सामग्री हे इष्टके, त्वं तदग्निस्वरूपासीत्यर्थः । योऽयमग्निर्यौ च तस्य सेनानीग्रामण्यौ ये चाप्सरसौ ये च हेतिप्रहेती तेभ्यः सर्वेभ्यः सर्वदा नमो नमस्कारोऽस्तु । ते सर्वे नोऽस्मान् मृडयन्तु सुखयन्तु । ते नोऽस्मानवन्तु रक्षन्तु यं नरं वयं द्विष्मः यस्यानिष्टं चिन्तयामः । यश्च नरो नोऽस्मान् द्वेष्टि अस्मास्वप्रीतिं करोति तं नरमेषां पूर्वोक्तानां जम्भे दंष्ट्राकराले मुखे वयं दध्मः प्रक्षिपामः । 'जभि नाशने' जम्भयति नाशयति जम्भा दंष्ट्रा यस्मिन्नस्तीति जम्भं मुखम् ॥ १५ ॥

षोडशी।
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानीग्राम॒ण्यौ॒ । मेन॒का च॑ सहज॒न्या चा॑प्स॒रसौ॑ यातुधा॒ना हे॒ती रक्षा॑ᳪं᳭सि॒ प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। १६ ।।

उ०. उत्तरेषु । अयं दक्षिणा । दक्षिणतो विश्वकर्मा सर्वस्य कर्ता वायुः तस्य वायो रथस्वनः रथेऽवस्थितो महास्वनः । स्वनः शब्दः । रथे चित्रः रथेऽवस्थितो विचित्रयोधी। मेनका च सहजन्या च । मेना मानयन्त्येनां मेनका समानैर्जनैः सहस्थिता जनानां सहजन्या। अप्सरसो हि सर्वसामान्याः । यातुधानाः रक्षांसि ॥ १६ ॥
म० अथ दक्षिणतः । दक्षिणस्यां दिशीति दक्षिणा 'दक्षिणादाच्' (पा० ५। ३ । ३६ ) इति सप्तम्यन्ताद्दक्षिणशब्दादाच्प्रत्ययः । दक्षिणा दक्षिणतः अयं विश्वकर्मा विश्वं सर्वं कर्म यस्य । विश्वं करोतीति वा विश्वकर्मा वायुः । 'अयं वै वायुर्विश्वकर्मा योऽयं पवत एष हीदᳪं᳭ सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव भूयिष्ठं वाति' ( ८ । ६ । १ । १७ ) इति श्रुतेः । तस्य वायोः रथस्वनः सेनानीः रथे स्थितः खनति शूरशब्दं करोतीति रथस्वनः । रथे स्थितः स्वनति शूरशब्दं करोतीति रथस्वनः। रथे स्थितः चित्र आश्चर्यकारी रथे चित्रो ग्रामणीः 'हलदन्तात्-' (पा० ६ । ३ । ९) इति सप्तम्या अलुक् । तौ ग्रैष्मावृतू 'ग्रैष्मौ | तावृतू' (१७) इति श्रुतेः । मानयन्त्येनां मेनका । जनैः सर्वैः सह स्थिता सहजन्या । अप्सरसो हि सर्वसाधारणाः एते अप्सरसौ । यातुधाना रक्षसामवान्तरजातिभेदो बोध्यः । हेतिप्रहेती अप्यायुधविशेषौ । क्रूरा यातुधानास्तीक्ष्णहेतिरूपाः अतिक्रूराणि रक्षांस्यतितीक्ष्णप्रहेतिस्वरूपाणि । हे इष्टके, यस्य वायोरिदं सर्वं त्वं तद्रूपासि । व्याख्यातमन्यत् ॥ १६ ॥

सप्तदशी।
अ॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च से॒ना॒नीग्राम॒ण्यौ॒ । प्र॒म्लोच॑न्ती चानु॒म्लोच॑न्ती चाप्स॒रसौ॑ व्या॒घ्रा हे॒तिः स॒र्पा: प्रहे॑ति॒स्तेभ्यो॒ नमो अ॑स्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। १७ ।।
उ० अयं पश्चात् विश्वव्यचाः आदित्यो विश्वव्यचाः । स ह्युदयेन सर्वं व्यञ्चनवत्करोति । तस्य रथप्रोतश्च । रथेऽवस्थितः प्रोत इव । असमरथः अन्यैः रथिभिरतुल्यरथः । प्रम्लोचन्ती चानुम्लोचन्ती च । तुल्यव्याख्यानम् । व्याघ्राः सर्पाः ॥ १७॥
म० अथ पश्चात् । अवरस्मिन् प्रदेशे इत्यर्थे ‘पश्चात्-' (पा० ५ । ३ । ३२) इति सूत्रेण निपातः । पश्चात् पश्चिमदेशेऽयं विश्वव्यचाः आदित्यः विश्वं सर्वमुदयेन विचति प्रकाशयति व्याप्नोति वा विश्वव्यचाः असुन् । पश्चिमायां स्पष्टं दृश्यत इति पश्चात् । 'असो वा आदित्यो विश्वव्यचा यदा ह्येवैष उदेत्यथेदᳪं᳭ सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतं प्रत्यञ्चमेव यन्तं पश्यन्ति' (८।६। १ । १८) इति श्रुतेः । तस्यादित्यस्य रथे स्थितः प्रोत इव स्थिरो रथे प्रोतः सेनानीः । असमोऽन्यै रथैरतुल्यो रथो यस्य सोऽसमरथो नाम ग्रामणीः तौ च वार्षिकावृतू । 'वार्षिकौ तावृतू' (१८) इति श्रुतेः । प्रम्लोचति नरं प्रत्यात्मानं दर्शयतीति प्रम्लोचन्ती । अनु वारं वारं म्लोचन्तीत्यनुम्लोचन्तीत्यप्सरसौ व्याघ्राः प्रसिद्धाः यस्य हेतिः, सर्पाः प्रहेतिर्यस्य तद्रूपासि । उक्तमन्यत् ॥ १७ ॥

अष्टादशी।
अ॒यमु॑त्त॒रात्सं॒यद्व॑सु॒स्तस्य॒ तार्क्ष्य॒श्चारि॑ष्टनेमिश्च सेनानीग्राम॒ण्यौ॒ ।
वि॒श्वाची॑ च घृ॒ताची॑ चाप्स॒रसा॒वापो॑ हे॒तिर्वात॒: प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। १८ ।।
उ० अयमुत्तरात् । अयं यज्ञः उत्तरतः । संयद्वसुः संयन्ति वसुनो धनस्य लिप्सवो यंप्रति स संयद्वसुर्यज्ञः। दीयते हि तत्र प्रसृप्तेभ्यः । तार्क्ष्यः तीक्ष्णेऽन्तरिक्षे क्षिपति पक्षाविति तार्क्ष्यः । अरिष्टनेमिः अनुपहिंसितायुधः । विश्वाची च सर्वंप्रति अञ्चनशीला । साधारणा हि सा । घृताची घृताञ्चना । घृतं हि अप्सरसामन्नम् । तथाचोर्वशीवाक्यम् 'घृतस्य स्तोकं सकृदह्न आश्नामि' इति। आपः वातः ॥ १८॥
म० अथोत्तरतः । उत्तरस्मिन्नित्युत्तरात् 'उत्तराधर-' (पा० ५। ३ । ३४ ) इत्यादिना आतिप्रत्ययः । अयमुत्तरतः संयद्वसुः यज्ञः सम्यक् यन्ति गच्छन्ति वसुने धनाय यंप्रति जनाः स संयद्वसुः । यज्ञं गतेभ्यो हि दानमावश्यकम् । यज्ञस्योत्तरोपचारत्वादुत्तरात् । तथाच श्रुतिः 'यज्ञो वा उत्तरात्तद्यत्तमाहोत्तरादित्युत्तरत उपचारो हि यज्ञोऽथ यत्संयद्वसुरित्याह यज्ञᳪं᳭हि संयन्तीतीदं वसु' (८ । ६।१।१९) इति तीक्ष्णेऽन्तरिक्षे क्षिपति पक्षाविति तार्यःष् स अरिष्टाऽनुपहिंसिता नेमिरायुधं यस्य सोऽरिष्टनेमिः एतन्नामकौ सेनानीग्रामण्यौ तौ शारदावृतू । 'शारदौ तावृतू' (१९) इति श्रुतेः । विश्वाची घृताची चाप्सरसौ ते च दिशोपदिशे । विश्वं सर्वं प्रत्यञ्चतीति विश्वाची सर्वसाधारणत्वात् । घृतमञ्चति भुङ्क्ते घृताची । घृतं ह्यप्सरसामन्नम् । 'घृतस्य स्तोकं सकृदह्न आश्नामी'त्युर्वशीवचनात् । आपोऽपां समूहो हेतिः । 'तस्य समूहः' (पा० ४ । २ । ३७ ) इत्यण् । वातः वायुः प्रहेतिः । तेभ्य इत्याद्युक्तम् ॥ १८॥

एकोनविंशी।
अ॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानीग्राम॒ण्यौ॒ ।
उ॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाप्स॒रसा॑वव॒स्फूर्ज॑न् हे॒तिर्वि॒द्युत्प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। १९ ।।
उ० मध्ये । अयमुपरि । अयं पर्जन्य उपरि । अर्वाग्वसुः अर्वागञ्चनं वसु धनमुदकलक्षणं प्रजाभ्यो ददातीत्यर्वाग्वसुः पर्जन्यः । तस्य सेनजिच्च सेनां जयतीति सेनजित् । सुषेणश्च शोभनसेनश्च । उर्वशी च उरुः पृथुः वशः कामो यस्या इति उर्वशी । पूर्वचित्तिश्च पूर्वं प्रथम पुंसां चेतस्तामभ्युपैति सौभाग्यातिशयात् । अवस्फूर्जन्पर्जन्यः हेतिः । स्फूर्जतिर्वज्रनिर्घोषार्थः विद्युत्प्रहेतिः ॥१९॥
म० अथ मध्ये। उपरि ऊर्ध्वदेशेऽयमर्वाग्वसुः पर्जन्यः 'उपर्युपरिष्टात्' (पा० ५। ३ । ३१) इति निपात ऊर्ध्वप्रदेशे इत्यर्थे । अर्वागधोमुखं यद्वसु धनं जलरूपं यस्मात्सोऽर्वाग्वसुः । अधोजलं प्रजाभ्यो ददातीत्यर्थः । तथाच श्रुतिः ‘पर्जन्यो वा उपरि तद्यत्तमाहोपरीत्युपरि हि पर्जन्योऽथ यदर्वाग्वसुरित्याहातो ह्यर्वाग्वसु वृष्टिरन्नं प्रजाभ्यः प्रदीयते' ( ८ । ६ । १ ।२० ) इति । तस्य पर्जन्यस्य सेनां जयतीति सेनजित् शोभना सेना यस्येति सुषेणः 'पूर्वपदात्' (पा० ८।३ । १०६) इति षत्वम् ततो णत्वम् । तौ सेनानीग्रामण्यौ तौ हैमन्तिकावृतू 'हैमन्तिको तावृतू' (२०) इति श्रुतेः । उरुः पृथुः कामो वशो यस्याः सोर्वशी । रूपातिशयात् पूर्वमेव पुंसां चित्तमुपैतीति पूर्वचित्तिः । एते दिगुपदिग्रूपे अप्सरसौ । 'स्फूर्जा वज्रनिर्घोषे' अवस्फूर्जतीत्यवस्फूर्जन् भयहेतुशब्दं कुर्वन् हेतिः। विद्युच्चपला प्रहेतिः । शिष्टं व्याख्यातम् ॥ १९ ॥

विंशी।
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् ।
अ॒पाᳪं᳭ रेता॑ᳪं᳭सि जिन्वति ।। २० ।।
उ० छन्दस्या उपदधाति। अग्निर्मूर्धा। आग्नेयं प्राक् तपश्च तपस्यश्चेत्यतः। प्रथमस्तृचो गायत्रः। प्रथमा व्याख्याता।।२०।।
म० 'छन्दस्यास्तिस्रोऽनूकान्तेषु पुरस्ताद्गायत्रीरग्निर्मूर्धेति प्रत्यृचम्' ( का० १७ । १२ । ५) । वक्ष्यमाणा गायत्र्याद्याश्छन्दस्या एकैकस्मिन् स्थाने तिस्र उपदधाति तासां मध्यमा पद्यानूके तामभितो द्वे अर्धपद्ये । अत्र पूर्वदिश्यनूकान्ते तिस्रो गायत्रीरग्निर्मूर्धेति प्रत्यृचम् । एवं वक्ष्यमाणा अपीति सूत्रार्थः । तिस्र ऋचोऽग्निदेवत्या गायत्र्यः । आद्या व्याख्याता (अध्या० ३ क० १२) ॥२०॥

एकविंशी।
अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पति॑: । मू॒र्धा क॒वी र॑यी॒णाम् ।। २१ ।।
उ० अयमग्निः । ऋषिरभिनयेन दर्शयति । अयमग्निः सहस्रिणः सहस्राणि बहूनि यस्य विद्यन्ते तस्य । वाजस्यान्नस्य शतिनश्च पतिरधिपतिः । मूर्धा च रयीणाम् प्रधानभूतश्च धनानाम् । अग्निर्हि सर्वेषां धनानां प्रधानं दृष्टादृष्टसाधनं हि । कविः क्रान्तदर्शनश्च अतः स्तुमः ॥२१॥
म० अयमग्निरीदृशस्तं स्तुम इति शेषः । कीदृशः । सहस्रं संख्या अस्यास्तीति सहस्री तस्य । शतिनः शतसंख्यावतो वाजस्यान्नस्य पतिः स्वामी । अनेकान्नप्रद इत्यर्थः । तथा रयीणां धनानां मूर्धा शिरोवदुत्तमः । अग्निर्हि सर्वधनानां प्रधानधनं दृष्टादृष्टसाधनत्वात् । कविः क्रान्तदर्शनः ॥ २१॥
द्वाविंशी।
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घत॑: ।। २२ ।।
उ० त्वामग्ने पुष्करात् । व्याख्यातम् ॥ २२ ॥
म० व्याख्यातैकादशे द्वात्रिंशत्तमकण्डिकायाम् ॥ २२ ॥

त्रयोविंशी।
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒: सच॑से शि॒वाभि॑: ।
दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ।। २३ ।।
उ० भुवो यज्ञस्य । त्रैष्टुभस्तृचः । प्रथमा व्याख्याता ॥ २३ ॥
म०. 'पुरस्तात्त्रिष्टुभो रेतःसिग्वेलायां भुवो यज्ञस्येति' (का. १७ । १२ । ७) । पूर्वदिशि रेतःसिग्वेलायां त्रिष्टुप्संज्ञा इष्टका उपदधाति तृचेन तिस्रः त्रिष्टुप्छन्दस्काभिर्ऋग्भिरुपधेया इष्टकास्तिस्रस्त्रिष्टुभः। एवमग्रेऽपि तिस्रस्त्रिष्टुभ आग्नेय्यः। प्रथमा व्याख्याता त्रयोदशेऽध्याये (अ० १३ । क० १५) ॥ २३ ॥

चतुर्विंशी।
अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास॑म् ।
य॒ह्वा इव॒ प्र व॒यामु॒ज्जिहा॑ना॒: प्र भा॒नव॑: सिस्रते॒ नाक॒मच्छ॑ ।। २४ ।।
उ० अबोध्यग्निः । योयमग्निः अबोधि प्रतिबुध्यते कर्माणि स्वमधिकारम् । समिधा समिन्धनेन । जनानामग्निहोत्रिणां सत्यातिथिज्ञानश्रद्धासंपन्नानाम् । कथमिव प्रतिबुध्यते । धेनुमिवायतीम् । यथा धेनुमागच्छन्तीं वत्सः प्रतिबुध्यते । यथाच उषसमागच्छन्तीं मनुष्याः प्रतिबुध्यन्ते तस्याहुतिभिर्दीप्तस्य । यह्वा इव प्रवयामुज्जिहानाः । यह्व इति महतो नामधेयम् । यथा महान्तो जातपक्षाः पक्षिणः वयां वृक्षशाखामुज्जिहानाः परित्यजन्त ऊर्ध्वं गच्छेयुः । एवम् प्रभानवः सिस्रते प्रसिस्रते प्रसर्पन्ति भानवः अर्चींषि महान्ति । नाकमच्छ । अच्छाभेराप्तुमिति शाकपूणिः । स्वर्गलोकमभि ॥ २४ ॥
म० जनानां ज्ञानश्रद्धाद्विजतर्पणसत्यादिसंपन्नानामग्निहोत्रिणां समिधा समिन्धनेनाग्निः प्रत्यबोधि प्रतिबुध्यते । कर्मणि स्वमधिकारं जानातीत्यर्थः । 'दीपजन-' (पा० ३ । १ । ६९) इत्यादिना लुङि कर्तरि चिण् । तत्र दृष्टान्तः । आयतीमागच्छन्तीं धेनुं यथा वत्सः प्रतिबुध्यते यथा चोष समागच्छन्तीं प्रति मनुष्याः प्रतिबुध्यन्ते । दीप्तस्य तस्याग्नेर्भानवो रश्मयो नाकमच्छ स्वर्गमभितः प्रसिस्रते प्रसरन्ति । 'अच्छाभेराप्तुमिति शाकपूणिः' ( निरु० ५। २८) । दृष्टान्तमाह । यह्व इति महन्नाम । यह्वाः महान्तो जातपक्षाः पक्षिणो वयां वृक्षशाखां प्रोज्जिहानाः प्रोद्गच्छन्तो नाकमाकाशं प्रति प्रसरन्ति तद्वत् । ऋचोऽर्थान्तरं वा । जनानामृत्विजां संबन्धिन्या समिधाग्निरबोधि प्रतिबोधितः प्रज्वलितः आयतीमुषसं प्रातःकालंप्रति धेनुं यथा प्रतिबोधयन्ति उत्थापयन्ति । तस्य भानवः प्रोज्जिहाना नाकमभि प्रसिस्रते । दृष्टान्तः । वयां पक्षिणां मध्ये यह्वाः महान्तः पक्षिणो यथा प्रोद्गच्छन्तः प्रसरन्ति । विः पक्षी तस्यामि छान्दसे गुणे वयामिति रूपम् । एकः प्रशब्दः उज्जिहाना इत्यत्र संबध्यते द्वितीयः सिस्रते इत्यत्र । 'सृ गतौ' ह्वादिः लट् । 'ओहाङ् गतौ' शानच् जिहानाः । उषासमिति संहितायां दीर्घः ॥ २४ ॥

पञ्चविंशी। ।
अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॑ वृ॒ष्णे॑ ।
गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी॒व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् ।। २५ ।।
उ० अवोचाम । उद्गातारो ब्रुवन्ति । अवोचाम उक्तवन्तो वयम् । कवये क्रान्तदर्शनाय । मेध्याय यज्ञियाय । वचः स्तुतिलक्षणं वाक्यम् । वन्दारु वन्दनशीलम् । वृषभाय वर्षित्रे । आहुतिपरिणामाभिप्रायमेतत् । वृष्णे सेक्त्रे । यूने परिणामरहिताय । इदानीम् गविष्ठिरः होता गवि वाचि स्थिरोऽप्रच्याव्यः । तस्य हि अग्निरधिष्ठात्री देवता । नमसान्नेन संयुक्तं स्तोमं स्तुतिः । अग्नौ आहवनीयाख्ये । अश्रेत् आसंजयिष्यति अग्निसंबद्धं करिष्यते । कथमिव दिवीव रुक्मम् यथा द्युलोके रुक्मं रोचनमादित्यम् । उरुव्यञ्चम् बहुमिः स्तुतिभक्तिभिर्युक्तम् स्वरसौष्ठवादियुक्तम् । स्तोम आदित्येनोपमीयते ॥२५॥
म० उद्गातारो वदन्ति । वयं कवये क्रान्तदर्शिनेऽग्नये वचोऽवोचाम स्तुतिरूपं वाक्यमुक्तवन्तः । कीदृशाय कवये । मेध्याय मेधे यज्ञे योग्याय । वृषभाय श्रेष्ठाय कामानां वर्षयित्रे । वृष्णे सेक्त्रे । यूने परिणामरहिताय । कीदृशं वचः । वन्दारु वन्दनशीलं स्तुतितत्परम् । ‘शॄवन्द्योरारुः' (पा. ३ । २। १७३ ) । इदानीं गविष्ठिरः गवि वाचि स्थिरोऽप्रच्याव्यो होता नमसाऽन्नेन युतं स्तोमं स्तुतिमग्नौ आहवनीये अश्रेत् । अन्तर्भूतण्यर्थः श्रयतिः लङ्लडर्थे । 'छन्दसि लुङ्लङ्लिटः' (पा. ३ । ४ । ६) इति वचनात् 'बहुलं छन्दसि' (पा० २।४ । ७३) इति शपो लुक् गुणः । होताग्नौ स्तोममापयिष्यति आसंजयिष्यति याज्यानुवाक्याभिरन्नमग्निसंबद्धं करिष्यतीत्यर्थः। तत्र दृष्टान्तः । दिवीव रुक्ममुत्प्रेक्षते । दिवि द्युलोके रुक्मं रोचमानमादित्यं सन्ध्यावन्दनसूर्योपस्थानादिषु विप्रयुक्ताः उरवो बहवो व्यञ्चाः स्तुतयो गतयो वा यस्येति तमिवेत्युत्प्रेक्षा । स्तोमः सूर्येणोपमीयते । 'गवियुधिभ्यां स्थिरः' (पा० ८ । ३ । ९५) इति षत्वम् ॥ २५ ॥

षड्विंशी।
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑: ।
यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॒ वि॒शेवि॑शे ।। २६ ।।
उ० अयमिह । जागतस्तृचः । प्रथमा व्याख्याता ॥२६॥
म० 'जगतीश्च पश्चादयमिहेति' ( का० १७ । १२ । ८) तिसृभिः पश्चाद्रेतःसिग्वेलायां तिस्रो जगतीसंज्ञेष्टका दक्षिणामुख उपदधातीति सूत्रार्थः । तिस्रो जगत्य आग्नेय्यः । आद्या व्याख्याता ( अध्या० ३ क० १५) ॥ २६ ॥

सप्तविंशी।
जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्ष॑: सुवि॒ताय॒ नव्य॑से ।
घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्विभा॑ति भर॒तेभ्य॒: शुचि॑: ।। २७ ।।
उ० जनस्य गोपाः । योयं जनस्य यजमानस्य गोपाः गोपायिता अजनिष्ट जातः । जागृविः जागरणशीलः अम्लिष्टज्ञानः अग्निः । सुदक्षः शोभनोत्साहः । सुविताय नव्यसे सुप्रभूताय कर्मणे नवतराय । सः घृतप्रतीकः घृतमुखः । बृहता महता भानुना दिविस्पृशा दिवं स्पृशतीति दिविस्पृक् तेन दिविस्पृशा । द्युमद्विभाति द्युतिमद्विविधं दीप्यते । भरतेभ्यः ऋत्विग्भ्योऽर्थाय । शुचिः बहून्यपि हवींषि भक्षयन्नुच्छिष्टो न भवति शोधको वा। यद्वा । योऽसौ यजमानस्य गोपायिता अजनिष्ट भरतेभ्यः ऋषिभ्यः सकाशात् । ऋत्विग्यजमानेभ्यो वा । जागृविः अग्निः सुदक्षः। सुप्रभूताय कर्मणे नवतराय । सोयं घृतमुखो महता भानुना दिविस्पृशा । द्युतिमद्विभाति । शुचिः शोचतेर्ज्वलतिकर्मणः । यद्वा मनुष्येभ्यो विजायमानो मनुष्यसंबंद्धैर्दोषैर्न लिप्यते ॥ २७ ॥
म० योऽग्निर्भरतेभ्यः ऋत्विग्भ्यः सकाशादजनिष्ट जातः तैर्मथितत्वात्तेभ्यो जात इत्युच्यते । भरता इति ऋत्विङ्नामसु पठितम् । किमर्थं जातः । नव्यसे नवीयसे नवतराय । सुविताय सूताय प्रसूताय कर्मणे यागाय । सूतेरिडागम आर्षः। अभिनवं नवीयस्तस्मै । ईलोप आर्षः । सोऽग्निर्दिविस्पृशाद्युलोकस्पर्शिना बृहता ज्वालासमूहेन द्युमत् कान्तिमद्यथा तथा विभाति विविधं दीप्यते । कीदृशोऽग्निः । जनस्य यजमानस्य गोपाः । गोपायति रक्षतीति गोपाः क्विप् 'लोपो व्योर्वलि' (पा० ६।१।६६) इति यलोपः । जागृविः जागरणशीलः कर्मणि सावधानः । सुदक्षः शोभनो दक्ष उत्साहो यस्य अतिकुशलो वा । घृतप्रतीकः घृतं प्रतीके मुखे यस्य । शुचिः शुद्धः बहूनि हवींषि भक्षयन्नपि उच्छिष्टो न स्यात् शोधको वा ॥ २७॥

अष्टाविंशी।
त्वाम॑ग्ने॒ अङ्गि॑रसो॒ गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑वने ।
स जा॑यसे म॒थ्यमा॑न॒: सहो॑ म॒हत्त्वामा॑हु॒: सह॑सस्पु॒त्रम॑ङ्गिरः ।।२८ ।।
उ० त्वामग्ने । यं त्वाम् हे अग्ने, अङ्गिरसः ऋषयः । गुहाहितं निगूढे प्रदेशेऽवस्थितम् अप्सु अग्निर्देवेभ्य उदक्रामत्सोमः प्राविशदित्येवमादिनिदानमस्य मन्त्रस्य । अन्वविन्दन् लब्धवन्तः । पुनरपि नष्टं सन्तं शिश्रियाणं वनेवने अवस्थितम् ओषधिवनस्पतिषु । अन्वविन्दन्नङ्गिरस इति वर्तते । स त्वमिदानीमपि जायसे अरणिकाष्ठेभ्यो मथ्यमानः । सहोमहत् सहसा बलेन महता इति विभक्तिव्यत्ययः । अतश्च कारणात् त्वाम् आहुः ऋषयः सहसः पुत्रम् बलस्य पुत्रम् । अङ्गिरः अङ्गिर इत्यग्नेः संबोधनम् हे अङ्गिरः ॥ २८ ॥
म० हे अग्ने, अङ्गिरसः अङ्गिरोवंशोद्भवा ऋषयस्त्वामन्वविन्दन् लेभिरे । अन्विष्य प्रापुरित्यर्थः । किंभूतं त्वां गुहा गुहायां निगूढे प्रदेशे हितं स्थितम् । अप्सु प्रविष्टमित्यर्थः । 'अग्निर्देवेभ्य उदक्रामत्सोऽप आविशत्' इत्यादिश्रुतेः । 'सुपां सुलुक्' (पा० ७।१ । ३९) इति गुहाशब्दात्सप्तमीलोपः । हे अग्ने, पुनर्नष्टं त्वां वने वने शिश्रियाणं नानावनस्पतिषु श्रितमङ्गिरसोऽन्वविन्दन् । 'नित्यवीप्सयोः' (पा० ८।१। ४ ) इति वनेपदस्य द्वित्वम् । श्रयतेः शानचि ‘बहुलं छन्दसि' (पा० २।४ । ७६) इति शपः श्लुः द्वित्वं च । यं त्वामङ्गिरसोऽलभन्त स त्वं जायसेऽधुनाप्यरणिभ्य उत्पद्यसे । कीदृशः। महत्सहः महता बहुना सहसा बलेन मथ्यमानः । महत्सहःशब्दाभ्यां तृतीयालोपः । मथ्यमानो जायस इत्यर्थः । हे अङ्गिरः अग्ने, अतएव सहसो बलस्य पुत्रं त्वामाहुः वदन्ति मुनयः बलेन मन्थनाज्जायमानत्वाद्बलपुत्रं वदन्तीत्यर्थः ॥ २८ ॥

एकोनत्रिंशी।
सखा॑य॒: सं व॑: स॒म्यञ्च॒मिष॒ᳪं᳭ स्तोमं॑ चा॒ग्नये॑ ।
वर्षि॑ष्ठाय क्षिती॒नामू॒र्जोनप्त्रे॒ सह॑स्वते ।। २९ ।।
उ०. सखायः सम् । आनुष्टुभस्तृचः । यजमान ऋत्विजः संबोधयति । हे सखायः, संगत्य शृणुत । वः युष्मान् ब्रवीमि । सम्यञ्चम् संगतम् एकीभूतम् । इषम् हविर्लक्षणमन्नम् । स्तोमं च त्रिवृत्पञ्चदशादि । अग्नये भरत । कथंभूतायाग्नये । वर्षिष्ठाय क्षितीनां पृथुतमाय मनुष्याणाम् । ऊर्जानप्त्रे अपां पौत्राय । अद्भ्य ओषधिवनस्पतयो जायन्ते ताभ्योऽग्निः । सहस्वते बलवते ॥ २९॥
म०. 'अपरास्ताभ्योऽनुष्टुभः सखायः समिति' ( का० १७ । १२ । ९) । जगतीभ्योऽपरास्तिस्रोऽनुष्टुप्संज्ञेष्टकाः प्राङ्मुख उपदधाति सखाय इत्यृक्त्रयेणेति सूत्रार्थः । तिस्रोऽनुष्टुभः । ऋविजःप्रति यजमानो ब्रूते । हे सखायः ऋत्विजः, सम्यञ्चं समीचीनमिषं हविर्लक्षणमन्नं समीचीनं स्तोमं चाग्नये वः यूयं संपादयत अग्न्यर्थं हविः कुरुत । त्रिवृत्पञ्चदशादिस्तोमं च वदतेत्यर्थः । व्यत्ययेन प्रथमास्थाने द्वितीयाबहुवचनं कृत्वा वसादेशे व इति । समित्युपसर्गस्यापेक्षितः क्रियाशेषोऽध्याहर्तव्यः । कीदृशायाग्नये । क्षितीनां मनुष्याणां । वर्षिष्ठाय श्रेष्ठाय वृद्धतमाय । 'प्रियस्थिर-' (पा० ६ । ४ । १५७) इत्यादिना वृद्धस्य वर्षादेश इष्ठनि । क्षियन्ति निवसन्ति भूमाविति क्षितयो नराः कर्तरि क्तिन् । सर्वपूज्यायेत्यर्थः । तथा ऊर्जो जलस्य नप्त्रे पौत्राय । अन्यो वनस्पतयो जायन्ते तेभ्योऽग्निरित्यपां पौत्रोऽग्निः । तथा सहस्वते बलवते सहो बलमस्यास्तीति ॥ २९ ॥

त्रिंशी।
सᳪं᳭स॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ । इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ।। ३० ।।

उ० सᳪं᳭समित् । 'प्रसमुपोदः पादपूरणे' इत्युपसर्गाभ्यासः । इदिति पादपूरणः । युवस इति विकरणव्यत्ययः । यस्त्वं संयौषि संगमयसि । हे वृषन् वर्षितः अग्ने । विश्वानि वसूनि । अर्य ईश्वरः सन् आलोच्यालोच्य । यजमानानाम् इडायाश्च पदे कर्मार्थं समिध्यसे । यद्वा इडायाः पृथिव्याः पदे उत्तरवेदौ संदीप्यसे । स नः अस्मभ्यम् वसूनि धनानि आभर आहर देहि ॥ ३० ॥
म० हे वृषन् वर्षितः सेक्तः हे अग्ने, अर्यः स्वामी त्वं विश्वानि सर्वाणि फलानि आ समन्तात्संयुवसे संयौषि यजमानेन सङ्गमयसि । यौतेर्विकरणपदव्यत्ययः । 'अर्यः स्वामिवैश्ययोः' (पा.३।१।१०३ ) इति निपातः । इडः इडायाः गोः पृथिव्या वा पदे स्थाने उत्तरवेद्यां समिध्यसे कर्मार्थ दीप्यसे स ईदृशस्त्वं नोऽस्मभ्यं वसूनि धनानि आभर आहर देहीत्यर्थः । हरतेर्भकारः ॥ ३० ॥

एकत्रिंशी।
त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तव॑: । शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोढ॑वे ।। ३१ ।।
उ० त्वां चित्रश्रवस्तम । हे अग्ने । चित्रश्रवस्तम चित्रं नानारूपं श्रवो धनमतिशयेन यस्य स चित्रश्रवस्तमः तस्य संबोधनं हे चित्रश्रवस्तम । त्वां हवन्ते आह्वयन्ति । विक्षु मनुष्येषु मध्ये व्यवस्थितम् जन्तवो मनुष्याः। कथंभूतम् । शोचिष्केशम् शोचन्ति दीप्यन्ते ज्वालाः केशसंस्थानीया अस्येति शोचिष्केशः । हे पुरुप्रिय बहवो यजमानाः प्रिया अस्य । बहूनां यजमानानां वा प्रियः । बहु वा हविः प्रियमस्येति समासविशेषाः । तस्य संबोधनं हे पुरुप्रिय । किमर्थमाह्वयन्ति । हव्याय वोढवे । हवींषि वोढुं परियामः।।३१।।
म० चित्रं नानाविधं श्रवो धनं कीर्तिर्वा यस्य स चित्रश्रवाः अतिशयेन चित्रश्रवाश्चित्रश्रवस्तमस्तत्संबुद्धिः । हे पुरुप्रिय, पुरूणां बहूनां यजमानानां प्रियः । यद्वा पुरवः प्रिया यस्य, पुरु बहु हविः प्रियं यस्येति वा हे पुरुप्रिय हे अग्ने, विक्षु प्रजासु ऋत्विग्यजमानाः त्वां हवन्ते आह्वयन्ति । 'ह्वेञ् आह्वाने' | 'ह्वः संप्रसारणम्' (पा० ६ । १ । ३२) इति शपि संप्रसारणं गुणश्च । किं कर्तुम् । हव्याय वोढवे । विभक्तिव्यत्ययः । हव्यं वोढुं प्राप्तुम् 'तुमर्थ सेसेन्–' (पा० ३ । ४ । ९ ) इति तुमर्थे तवेप्रत्ययः ॥ ३१॥

द्वात्रिंशी।
ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒माहु॑वे । प्रि॒यं चेति॑ष्ठमर॒तिᳪं᳭ स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत॑म् ।। ३२ ।।
उ० एना वः । प्रगाथोयम् । तत्र बृहती पूर्वा सतोबृहत्युत्तरा । तत्र प्रगथनधर्मेण तिस्रो बृहत्यः संपादिताः द्वयोस्तु व्याख्यानम् । नहि शास्त्रे व्यूढानां मन्त्राणामर्थान्तरं विद्यत इति । तथाच आत्वा जिघर्मीति श्रुतिव्यतिषिक्ताभ्यां होममुक्त्वा प्रगुणाभ्यामेव व्याख्यानं करोति अतः प्रगुणो व्याख्यायते । एना अनेन नमसा अन्नेन । व इति पादपूरणार्थः संभवात् । अग्निम् उर्जोनपातम् अपां पौत्रम् । आहुवे आह्वयामि । सर्वजीवप्रियम् । चेतिष्ठम् अतिशयेन चेतनायुक्तम् । अरतिम् अलंमतिं पर्याप्तमतिम् । स्वध्वरम् शोभना अध्वरा यज्ञा अस्य विद्यन्त इति स्वध्वरः। विश्वस्य सर्वस्य यजमानजनस्य दूतम् । अमृतम् अमरणधर्माणम् ॥ ३२ ॥
म० 'अषाढावेलायां पुरस्ताद्बृहतीरेना व इति' (का० ( १८ । १२।१०) । अषाढावेलायाः पुरस्तात्तिस्रो बृहतीष्टका एना व इति तिसृभिरुपदधातीत्यर्थः । तिस्रो बृहत्यः प्रगाथः ऋगद्वयग्रन्थनेन ऋक्त्रयसंपादनं प्रगाथः तत्र बृहतीसतोबृहतीभ्यां तिस्रो बृहत्यः कृताः । यस्यास्तृतीयो द्वादशाक्षरोऽन्ये त्रयोऽष्टार्णाः सा बृहती । 'एना वोऽग्निं नमसोर्जोनपातमाहुवे । प्रियं चेतिष्ठमरतिᳪं᳭ स्वध्वरं विश्वस्य दूतममृतम्' इति । यस्याः प्रथमद्वितीयौ द्वादशार्णौ द्वितीयतुर्यावष्टार्णौ सा सतोबृहती। ‘स योजते अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देवᳪं᳭ राधो जनानाम्' इति । तत्र बृहत्यास्तुरीयं पादं द्विरावर्त्य सतोबृहत्याः पूर्वार्धेन सह द्वितीया बृहती कृता । सतोबृहत्या द्वितीयपादं द्विरावर्त्य तस्या एवोत्तरार्धेन सह तृतीया बृहती कृता । एवं तिस्रो बृहत्यः संहितायां पठिताः । तत्रावर्तितपादानामर्थान्तराभावाद् द्वे ऋचौ व्याख्यायेते । एना वः । विभक्तेराकारः । हे ऋत्विग्यजमानाः, वो युष्माकं संबन्धिना एना एनेन नमसान्नेन हविर्लक्षणेनाग्निमहमाहुवे आह्वयामि । वो युष्माकमेनमग्निं नमसा हुव इति वा । कीदृशमग्निम् । ऊर्जोनपातमपां पौत्रं प्रियं यजमानानां प्रीतिहेतुम् चेतिष्ठमतिशयेन चेतयितारम् । 'तुरिष्ठेमेयस्सु' (पा० ६ । ४ । १५४ ) इतीष्ठनि परे तृचो लोपः । अरतिमलमतिं पर्याप्तमतिम् । यद्वा रतिरुपरमस्तद्रहितम् । सदोद्यमयुतमित्यर्थः । स्वध्वरं शोभना अध्वरा यज्ञा यस्य तम् ॥ ३२ ॥

त्रयस्त्रिंशी।
विश्व॑स्य दू॒तम॒मृतं॒ विश्व॑स्य दू॒तम॒मृत॑म् । स यो॑जते अरु॒षा वि॒श्वभो॑जसा॒ स दु॑द्रव॒त्स्वा॑हुतः ।। ३३ ।।
उ० स योजते । स एवाग्निः योजते युनक्ति । अरुषा अक्रोधनावश्वौ रथे । विश्वभोजसा सर्वस्य भोक्तारौ । द्वितीयाद्विवचनस्य स्थाने द्वयोः प्रातिपदिकयोराकारः । स एव च दुद्रवत् द्रवति गच्छति । स्वाहुतः शोभनप्रकारेण हुतः सन् ॥ ३३ ॥
म०. विश्वस्य दूतं सर्वस्य यजमानजनस्य सर्वस्य जगतो वा दूतवत्कार्यकारिणम् । सर्वस्य हि गृहे दाहपाकादिकार्यकरत्वात् । अमृतं मरणरहितम् । अथ सतोबृहती व्याख्यायते । स योजते । यमग्निमाह्वयामि सोऽग्निः अरुषा अरुषौ रोषरहितौ साधू विश्वभोजसा विश्वं भुञ्जते तौ विश्वभोजसौ सर्वस्य भोक्तारौ। द्वितीयाद्विवचनस्थाने आकारः भुजेरसुन् । एवंविधावश्वौ रथे योजते युनक्ति । विशेषणाभ्यां विशेष्यमश्वपदं रथपदं चाध्याहार्यम् ॥ ३३ ॥

चतुस्त्रिंशी।
स दु॑द्रव॒त्स्वा॒हुत॒: स दु॑द्रव॒त्स्वा॒हुतः । सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒ वसू॑नां दे॒वᳪं᳭ राधो॒ जना॑नाम् ।। ३४ ।।
उ० क्व गच्छतीत्यत आह । यत्र सुब्रह्मा यज्ञः । सुब्रह्मग्रहणं सर्वर्त्विगुपलक्षणार्थम् । शोभनर्त्विग्यज्ञः । सुशमी च । शमीति कर्मनाम । शोभनानि कर्माणि यस्मिन्यज्ञे स सुशमी । वसूनां देवम् वसूनां रुद्राणामादित्यानां देवानां यस्मिन्यज्ञे क्लृप्तानि सवनानि । एवमध्याहारेण विभक्तिव्यत्ययेन च वाक्यसामञ्जस्यम् । राधो जनानाम् राधो धनं च यत्र जनानामुपक्लृप्तम् तत्र स योजत इति संबन्धः ॥ ३४ ॥
म० स एवाग्निः रथारूढः सन् स्वाहुतः शोभनप्रकारेणाहुतः सन् दुद्रवत् द्रवति गच्छति 'द्रु गतौ' 'णिश्रिद्रुस्रुभ्यः-' (पा० ३ । १ । ४८) इति लुङि चङ् द्वित्वम् अडभावगुणाभावावार्षौ । कुत्र गच्छतीत्यत आह सुब्रह्मेति । वसूनामिति । वसुशब्दो रुद्रादित्ययोरुपलक्षकः । वसूनां रुद्राणामादित्यानां सवनत्रयदेवानां यत्र यज्ञः यत्र च जनानां यजमानानां देवं दीप्यमानं राधो धनं हविर्लक्षणं चास्ति तत्राग्निर्गच्छतीत्यर्थः । सुब्रह्मा ब्रह्मपदं सर्वर्त्विगुपलक्षणम् । शोभनो ब्रह्मा ऋत्विग्यत्र शुभर्त्विग्युक्तः । सुशमी । शमीति कर्मनाम । शोभनानि कर्माणि यत्रेति सुशमी शोभनकर्मवान् । अग्निराहुतो रथेऽश्वान्नियुज्य यज्ञे हविर्भोक्तुमाश्वागच्छतीति सर्वार्थः ॥ ३४ ॥

पञ्चत्रिंशी।
अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो । अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रव॑: ।। ३५ ।।
उ० अग्ने वाजस्य । औष्णिहस्तृचः । हे अग्ने, यस्त्वं वाजस्यान्नस्य । गोमतः गोभिः संयुक्तस्य । ईशानः ईश्वरः । हे सहसो यहो बलस्य पुत्र । सह इति बलनाम । यहुरिति पुत्रस्य नाम । मथ्यमानो जायते तस्मादेवमाह सहसस्पुत्रमित्यादि । स त्वम् । अस्मे धेहि अस्मभ्यं देहि । हे जातवेदः महि महत् श्रवोऽन्नलक्षणं धनम् गोभिः संयुक्तम् ॥ ३५॥
म०. 'अपरा गायत्रीभ्य उष्णिहोऽग्ने वाजस्येति' (का० । १७ । १२ । १३) । गायत्रीभ्योऽपरास्तित्र उष्णिक्संज्ञा इष्टका अग्न इति ऋक्त्रयेणोपदधातीति सूत्रार्थः । तिस्र उष्णिहः । हे अग्ने, हे सहसो यहो बलस्य पुत्र, सह इति बलनाम यहुरिति पुत्रनाम । मन्थनाज्जायमानत्वाद्बलस्य पुत्रत्वम् । सहसस्पुत्रमित्युक्तं च । हे जातवेदः उत्पन्नज्ञान, अस्मे अस्मभ्यं महि महत् श्रवः धनं धेहि देहि । कीदृशस्त्वम् । गोमतः धेनुयुक्तस्य वाजस्यान्नस्येशानः ईश्वरः अतएव धनं गाश्च देहीत्यर्थः ॥ ३५ ॥

षट्त्रिंशी।
स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒डेन्यो॑ गि॒रा । रे॒वद॒स्मभ्यं॑ पुर्वणीक दीदिहि ।। ३६ ।।
उ० स इधानः । स उक्तगुणः । इधानो दीप्यमानः । वसुः उपकारभूतः वासयिता वा । कविः मेधावी अग्निः । ईडेन्यः स्तुत्यः । गिरा वाचा त्रयीलक्षणया। तत्रार्थवादः प्रत्यक्षकृतः ततो भिन्नं वाक्यं नेयम् । रेवत् धनवत् । अस्मभ्यम् अस्मदर्थम् । हे पुर्वणीक बहुमुख । अनीकं मुखम् । पुरु बहुनाम । 'यतो ह्येव कुतश्चाग्नावभ्यादधाति ततएव प्रदहति' इति श्रुतिः । दीदिहि दीप्यस्व । एकं वाक्यं कृत्वा व्याख्यायते यत्तदोर्व्यत्ययेन । वसु धनं तापपाकप्रकाशैरुपकारकः । कविः क्रान्तदर्शनः अग्निः । ईडेन्यः स्तुत्यः ऋषिभिः । गिरा वाचा । तं त्वां ब्रवीमि । रेवत् धनवत् अस्मदर्थं पुर्वणीक दीप्यस्व ॥३६ ॥
म० हे पुर्वणीक, पुरु बहु अनीकं मुखं यस्य तत्संबुद्धिः सर्वदाहकत्वात् । 'यतो ह्येव कुतश्चाग्नावभ्यादधाति ततएव प्रदहति' इति श्रुतेः । हे बहुमुखाग्ने, अस्मभ्यमस्मदर्थे रेवत् रयिमत् धनवत् यथा तथा स त्वं दीदिहि दीप्यस्व । दिवेः शप श्लुः द्वित्वम् 'तुजादीनां दीर्घाऽभ्यासस्य' (पा. ६।१। ७) इत्यभ्यासदीर्घः 'लोपो व्योर्वलि' (पा०६।१।६६) इति वलोपः । रयिर्विद्यते यत्र कर्मणि रेवत् 'रयेर्मतौ' (पा. ६।१।३७) इति संप्रसारणम् । तथा त्वया हविर्ग्राह्यं यथास्माकं धनाप्तिर्भवतीत्यर्थः । स पूर्वोक्तः कीदृशस्त्वम् । इधानः दीप्यमानः । वसुः निवासहेतुः । कविः क्रान्तदर्शी । अग्निः अग्रे नयतीत्यग्रणीः । प्रथमं यज्ञप्रवर्तक इत्यर्थः । गिरा त्रयीलक्षणया वाचा ईडेन्यः ईडितुं योग्यः स्तुत्यः । औणादिक एन्यः ॥ ३६॥

सप्तत्रिंशी।
क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषस॑: । स ति॑ग्मजम्भ र॒क्षसो॑ दह॒ प्रति॑ ।। ३७ ।।
उ० क्षपो राजन् । यस्त्वं क्षपः क्षपयिता । हे राजन् । रक्षसाम् उत त्मना । अप्यात्मनैव स्वभावत एव । हे अग्ने, वस्तोः सहसंबन्धिनां रक्षसाम् उत उषसः अपि उषसः संबन्धिनाम् सः । हे तिग्मजम्भ वज्रदंष्ट्र । तिग्ममिति वज्रनाम । जम्भेति दंष्ट्रानाम । रक्षसो दह । प्रति प्रत्येकम् ॥ ३७॥
म० हे राजन् दीप्यमान, हे तिग्मजम्भ तिग्मा तीक्ष्णा जम्भा दंष्ट्रा यस्य । यद्वा तिग्ममिति वज्रनाम । हे वज्रदंष्ट्र अग्ने, वस्तोः अयःसंबन्धिनः उतापि उषसः उषःकालसंबन्धिनो रक्षसो रक्षांसि राक्षसान् स त्वं प्रतिदह प्रत्येकं भस्मीकुरु । लिङ्गव्यत्ययेन रक्षःशब्दस्य पुंस्त्वम् । 'छन्दसि परेऽपि' (पा. १ । ४ । ८१) इति प्रत्युपसर्गस्य क्रियापदात्परत्वम् । कीदृशस्त्वम् । त्मना उप आत्मनापि स्वभावतोऽपि । क्षपः क्षपयतीति क्षपः 'क्षप क्षेपे' चुरादिः पचाद्यच् । स्वभावतो रक्षसां क्षपयिता। 'मन्त्रेष्वाड्यादेरात्मनः' (पा० ६। ४।१४१) इति आत्मन आकारलोपस्तृतीयैकवचने ॥ ३७॥

अष्टत्रिंशी।
भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः । भ॒द्रा उ॒त प्रश॑स्तयः ।। ३८ ।।
उ० भद्रो नः । द्वे ऋचौ । पूर्वा ककुप् सतोबृहत्युत्तरा। तिस्रः ककुभः संपादिताः । सुभग इति चित्यमग्निं संबोध्य प्रार्थयति । भद्रः भन्दनीयः नोऽस्माकम् अग्निः आहुतः अभिहुतः । भवत्विति शेषः । भद्रा रातिः । 'रा दाने'। रातिः दानम् भवतु । हे सुभग महदैश्वर्ययुक्त । 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना' । भद्रश्चाध्वरो यज्ञो भवतु । किंच भद्रा उत अपि प्रशस्तयः प्रशंसनानि भवन्तु अस्माकम् ॥ ३८ ॥
म०. 'भद्रो न इति ककुभस्ताभ्यः' (का० १७ । १२ । ११) । इति बृहतीभ्यः पुरस्तात्तिस्रः ककुबिष्टका भद्रो न इत्यृक्क्रमेणोपदधातीति सूत्रार्थः । प्रगाथः ककुप्सतोबृहतीभ्यां तिस्रः ककुभः पादावृत्त्या कृताः अवृतस्य नार्थान्तरम् । भद्रो नोऽग्निराप्रशस्तय इति ककुप् । मध्यः पादो द्वादशक आद्य तृतीयावष्टकाविति तल्लक्षणम् । भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहोऽव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिरिति सतोबृहती । आद्यतृतीयौ द्वादशकौ द्वितीयतुर्यावष्टकाविति तल्लक्षणम् । तत्र ककुब् व्याख्यायते । यजमानश्चित्यमग्निं संबोध्य प्रार्थयते । हे सुभग शोभनभग शोभनं भगमेश्वर्यं यस्य । 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा' इत्युक्तेः । हे षड्विधैश्वर्ययुक्त, आहुतः ऋत्विग्भिराहुतोऽग्निर्नोऽस्माकं भद्रः भन्दनीयः कल्याणो भवत्विति शेषः । किंच रातिः त्वदीयं दानं भद्रास्तु कल्याणकार्यस्तु । अध्वरः यज्ञो भद्रः श्रेयस्कार्यस्तु । उतापिच प्रशस्तयः कीर्तयो भद्राः सुखदायिन्यः सन्तु ॥ ३८ ॥

एकोनचत्वारिंशी।
भ॒द्रा उ॒त प्रश॑स्तयो भ॒द्रं मन॑: कृणुष्व वृत्र॒तूर्ये॑ । येना॑ स॒मत्सु॑ सा॒सह॑: ।। ३९ ।।
उ० भद्रं मनः । भद्रं स्तुत्यं मनः । कुरुष्व वृत्रतूर्ये शत्रुवधाय । तूर्यतिर्वधकर्मा । येन मनसा समत्सु संग्रामेषु । सासहः । 'षह मर्षणे' । छन्दस्यभिभवे । अभिभवसि॥३९॥
म० अथ द्वितीया । हे अग्ने, येन मनसा समत्सु संग्रामेषु त्वं सासहः अभिभवसि शत्रून् ‘षह मर्षणे' छन्दस्यभिभवे च लङ् द्वित्वाडभावौ छान्दसौ संहितायामभ्यासदीर्घः । तन्मनः वृत्रतूर्ये पापनाशाय भद्रं कल्याणं कुरुष्व । तूर्यतिर्वधकर्मा । वृत्रः पापम् ‘पाप्मा वै वृत्रः' इति श्रुतेः ॥ ३९ ॥

चत्वारिंशी।
येना॑ स॒मत्सु॑ सा॒सहोऽव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑ताम् । व॒नेमा॑ ते अ॒भिष्टि॑भिः ।। ४० ।।
उ० किंच । अव स्थिरा तनुहि अवतारय स्थिराणि कठिनानि धनूंषि । भूरिशर्धताम् बहुप्रकारं बलमात्मनि कुर्वताम् । शर्ध इति बलनाम । अभिबलायमानानाम् । ततो वयं शत्रुभिरप्रतिबध्यमानाः । वनेम संभवेमहि । तानेव शत्रून् ते तव । अभिष्टिभिः अभीष्टयागैः ॥ ४० ॥
म० किंच भूरि बहु शर्धतां बलं कुर्वतां संबन्धीनि स्थिरा स्थिराणि धनूंषि अवतनुहि अवतारय ज्यारहितानि कुरु । शर्ध इति बलनाम । शर्धं बलं कुर्वन्ति शर्धन्ति । सुपः क्विप् । ततः शतृप्रत्ययः । शर्धन्तीति शर्धन्तस्तेषाम् । किंच ते तवाभिष्टिभिर्मार्गैर्वयं वनेम संभजेम भोग्यानि वसूनि सेवेमहि । वनेमा येनेति पदयोः संहितायां दीर्घः ॥ ४० ॥

एकचत्वारिंशी।
अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नव॑: ।
अस्त॒मर्व॑न्त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ इष॑ᳪं᳭ स्तो॒तृभ्य॒ आ भ॑र ।। ४१ ।।
उ० अग्निं तं मन्ये । पङ्क्तिस्तृचः । तमहमग्निं मन्ये जाने । यो वसुः धनम् । तापपाकप्रकाशैरुपकुर्वन् धनमित्युच्यते । यद्वा वसुर्वासयिता । अस्तं यं यन्ति धेनवः । यं चाग्निमुद्धतं ज्ञात्वा प्राप्तोऽस्माकं दोहदकाल इति अस्तं गृहं यन्ति धेनवः । अस्तं गृहम् । अर्वन्तः अश्वाः । आशवः शीघ्राः यन्ति । स्वामी हि पशूनामग्निः। यत्तज्जातः पशूनविन्दतेत्युपक्रम्य 'तस्मात्सर्वानृतून्पशवोऽग्निमभिसंयन्ति' इति श्रुतिः । अस्तं च नित्यासः शाश्वतिकाः । वाजिनः सुहयाः। सैन्धवाभिप्रायमेतत् । य उपास्यमान एतत्सर्वं यजमानस्योत्पादयति तमग्निं मन्ये । अधस्तनाश्चत्वारः पादाः परोक्षकृताः अयं तु प्रत्यक्षकृतः । अध्याहारेण परिपूर्तिः। यदि स त्वमग्निः इषमन्नं स्तोतृभ्य आभर देहि ॥४१॥
म० 'अनूकान्ते दक्षिणे पङ्क्तीरग्निं तमिति' ( का० १७ । १२ । १४ )। दक्षिणेऽनूकान्ते तिस्रः पङ्क्तिसंज्ञा इष्टका अग्निं तमिति तिसृभिरुपदधातीति सूत्रार्थः । तिस्रः पङ्क्तयः यस्य द्वौ पादावष्टकौ सा पङ्क्तिः । यो वसुः तापपाकप्रकाशैरुपकुर्वन् धनरूपो वसुरित्युच्यते । वसुर्वासयिता वा यः तमग्निं मन्ये जानामि । धेनवो गावो यमग्निमुद्धृतं ज्ञाला अस्तं गृहं यन्ति गच्छन्ति दोहकालोऽस्माकं होमार्थं प्राप्त इति । आशवः शीघ्रगामिनोऽर्वन्तोऽश्वा यं दृष्ट्वास्तं यजमानगृहं यन्ति गच्छन्ति । नित्यासः नित्याः शाश्वताः सर्वकालभाविनो वाजिनो बलवन्तोऽश्वाः । सैन्धवाश्वाभिप्रायेण पुनर्वचनम् । यं दृष्ट्वास्तं यन्ति । यमुपास्य गवाश्वादिकं लभ्यत इत्यर्थः । तादृश हे अग्ने, स्तोतृभ्यः स्तुतिकारिभ्यो यजमानेभ्य इषमन्नमाभर आहर देहि ॥४१॥

द्विचत्वारिंशी।
सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नव॑: ।
समर्व॑न्तो रघु॒द्रुव॒: सᳪं᳭ सु॑जा॒तास॑: सू॒रय॒ इष॑ᳪं᳭ स्तो॒तृभ्य॒ आ भ॑र ।। ४२ ।।
उ० सोऽग्निः स एवाग्निः यो वसुरिति गीयते स्तोतृभिः संयमायन्ति धेनवः समायन्ति च यं धेनवः । समर्वन्तो रघुद्रुवः समायन्ति च अर्वन्तोऽश्वाः । लघुद्रुवः लघुद्रवणाः । समागच्छन्ति च सुजातासः कल्याणजन्मानः । सूरयः पण्डिताः । एतदुक्तं भवति । किं तेनाग्निना य एतत्सर्वमात्मद्वारा यजमानस्य नोपनयति । सचेत्त्वम् । इषं स्तोतृभ्य आभर ॥ ४२ ॥
म० योऽग्निर्वसुर्वासयिता स अग्निः । विभक्तिव्यत्ययः । तमग्निं गृणे स्तौमि ‘गृ शब्दे' स्वादिः लटि तङ्युत्तमैकवचनम्
स्वादित्वाद्ध्रस्वः (पा० ७ । ३ । ८०)। यद्वा सोऽग्निः गृणे स्तूयतेऽस्माभिः। कर्तृप्रत्ययस्य कर्मत्वं विधेयम् । धेनवो यमग्निं समायन्ति समागच्छन्ति । अर्वन्तोऽश्वा यं समायन्ति । कीदृशा अर्वन्तः । रघुद्रुवः रलयोरैक्यम् । 'लघु क्षिप्रमरं द्रुतम्' | लघु शीघ्रं द्रुवन्ति गच्छति लघुद्रुवः 'द्रु वधगत्योः' स्वादिः क्र्यादिश्च क्विप् । सूरयः विद्वांसो योग्या ऋत्विजो यं समायन्ति यदुपासकं सर्वे भजन्ते इत्यर्थः । कीदृशाः सूरयः । सुजातासः शोभनं जातं जन्म येषां ते सुजातासः सुजाताः | 'आज्जसे:-' (पा. ७ । १ । ५०) इत्यसुक् । तादृश हे अग्ने, त्वं स्तोतृभ्य इषमन्नमाभर ॥ ४२ ॥

त्रिचत्वारिंशी।
उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी॑ श्रीणीष आ॒सनि॑ ।
उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इष॑ᳪं᳭ स्तो॒तृभ्य॒ आभ॑र ।। ४३ ।।
उ० उभे सुश्चन्द्र । हे अग्ने, सुचन्द्र शोभनचन्द्र इव धनानामुत्पादक । शोभने हि चन्द्रमसि धनान्युत्पद्यन्त इति ज्योतिःशास्त्रविदः प्रतिजानन्ति । यद्वा कल्याणाह्लादज । उभे दर्वी उभौ हस्तौ दर्व्याकारौ कृत्वा श्रीणीषे श्रयसि आश्लेषसि । आसनि आस्ये मुखे। सर्पिषः पानाय । उतोन उत्पुपूर्या अपि च त्वं ब्रूषे यदिनाम उत्क्षिप्य सर्पिषो भाण्डमत्यर्थमञ्जलिं पूरयेरस्माकं साधु कृतं स्यात् । उक्थेषु यज्ञेषु हे शवसस्पते बलस्य पते, यद्येवम् इषं स्तोतृभ्य आभर ॥४३॥
म०. चन्द्रे सु शकारेणेति संहितायां चन्द्रे परे सुशब्दस्य शागमः । हे सुश्चन्द्र, चन्द्रमिति हिरण्यनाम । शोभनं चन्द्रं हिरण्यं यस्मात् । यद्वा शोभनश्चन्द्र इव चन्द्रो धनदाता । शोभने चन्द्रे धनप्राप्तिर्भवतीति ज्योतिःशास्त्रे उक्तम् । यद्वा शोभनं चन्दत्याह्लादयति सुचन्द्रः हे सुचन्द्र, आसनि आस्ये मुखे सर्पिषः पानायेति शेषः । घृतस्य पानाय उभे दर्वी दर्व्याकारौ हस्तौ श्रीणीषे आश्रयसि सेवसे 'श्री पाके' क्र्यादिः अत्राश्रयार्थः । उतो अपिच हे शवसः पते, बलस्याधिपते, उक्थेषु शस्त्रवत्सु यज्ञेषु नोऽस्मानुत्पुपूर्याः उत्कर्षेण पूरय धनैरिति शेषः । स्तोतृभ्य इषमन्नमाहर ॥ ४३ ॥

चतुश्चत्वरिंशी।
अग्ने॒ तम॒द्याश्वं॒ न स्तोमै॒: क्रतुं॒ न भ॒द्रᳪं᳭ हृ॑दि॒स्पृश॑म् । ऋ॒ध्यामा॑ त॒ ओहै॑: ।। ४४ ।।
उ० अग्ने तमद्य । पदपङ्क्तिः तृचः । हे अग्ने, तं पावकं यज्ञम् अद्य । ऋद्ध्याम समर्धयेमहि । कथमिव । अश्वं न स्तोमैः । यथा अश्वमाश्वमेधिकं स्तुतिभिः समर्धयेयुः एवं समर्धयेमहि । क्रतुं न भद्रम् क्रतुं संकल्पमिव च भद्रं । हृदिस्पृशम् । हृदि आत्मना स्पृश्यते बहुकालाभिध्यातम् यथा समर्धयेयुः एवं समर्धयेमहि । ते तव संबन्धिभिः ओहैः। वहेरेतद्रूपम् । प्रापणैः । त्वं नामबन्धुकर्मरूपसंयुक्ताभिः स्तुतिभिर्दक्षिणाभिश्च यज्ञं समर्धयेमहीति समस्तार्थः ॥४४॥
म० 'उत्तरे पदपङ्क्ती अग्ने तमिति' ( का० १७ । १२ । १५)। उत्तरानूकान्ते तिस्रः पदपङ्क्तीष्टकाः अग्ने तमिति तिसृभिरुपदधातीति सूत्रार्थः । तिस्रः पदपङ्क्तयः । यस्याः पञ्चाक्षराश्चत्वारः पादा एकः षडर्णः सा पदपङ्क्तिः । यद्वा त्रयः पञ्चार्णाश्चतुर्थश्चतुरर्णः पञ्चमः षडर्ण इति । पञ्चकाश्चत्वारः षट्कश्चैकश्चतुर्थश्चतुष्को वा पदपङ्क्तिरित्युक्तेः । तत्राद्यायां चतुर्थश्चतुष्कः । हे अग्ने, ते तव तं क्रतुं तावकं प्रसिद्धं यज्ञमद्यास्मिन् दिने वयमृद्ध्याम समर्धयाम । समृद्धं करवामेत्यर्थः । आशिषि लोट् । संहितायां दीर्घः । कैः । स्तोमैः स्तुतिभिः सामसमूहैः । कीदृशैः स्तोमैः । ओहैः । वहे रूपम् । वहन्ति फलं प्रापयन्तीत्योहाः तैः, वहन्ति प्रतिपादयन्ति त्वत्कर्मरूपनामानीति वा । तत्रैको दृष्टान्तः । अश्वं न स्तोमैः । न इवार्थे । यथा स्तोमैः स्तुतिभिरश्वमाश्वमेधिकं विप्राः समर्धयन्ति । द्वितीयो दृष्टान्तः । क्रतुं न भद्रं हृदिस्पृशम् हृदि स्पृशतीति हृदिस्पृक् । 'हलदन्तात्-' (पा० ६।३।९) इत्यलुक् अतिप्रियं चिरं मनसि स्थितं भद्रं कल्याणं क्रतुं संकल्पं यथा समर्धयन्ति । क्रतुर्यज्ञः संकल्पश्चेति दृष्टान्तदार्ष्टान्तिकयोरस्य संबन्धः । चिराभिलषितं यथा सन्तः संपादयन्तीत्यर्थः ॥ ४४ ॥

पञ्चचत्वारिंशी।
अधा॒ ह्य॒ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः । र॒थीर्ऋ॒तस्य॑ बृह॒तो ब॒भूथ॑ ।। ४५ ।।
उ० अधा ह्यग्ने । अधा समनन्तरमेव । हिः पादपूरणः। हे अग्ने, क्रतोः भद्रस्य संकल्पस्य भन्दनीयस्य । दक्षस्य तस्यैव समृद्धस्य । समृद्धः संकल्पो दक्ष उच्यते । साधोरतिशययुक्तस्य । रथीः इव बभूथ भव । ऋतस्य यज्ञस्य च । बृहतो महतः बभूथ भव । अथवा यज्ञ एवोच्यते । अथ अग्नेः क्रतोः यज्ञस्य भन्दनीयस्य । दक्षस्य उत्साहयुक्तस्य दक्षिणाभिः समृद्धस्य । साधोः रथीरिव ऋतस्य यज्ञस्य बृहतो भव ॥ ४५ ॥
म० अथेत्यर्थेऽधेत्यव्ययम् । 'निपातस्य च' (पा. ६ । ३ । १३६ ) इति संहितायां दीर्घः । हि पादपूरणः । हे अग्ने, अथ समनन्तरमेव क्रतोः अस्मद्यज्ञस्य रथीः सारथिरिव बभूथ भव । 'बभूथाततन्थ-' (पा० ७ । २ । ६४ ) इत्यादिनाडभावः । रथोऽस्यास्तीति रथीः सारथी । रथादीरन्नीरचावित्यस्त्यर्थे ईरच्प्रत्ययः । सारथिर्यथा रथनिर्वाहं करोति तथा यज्ञनिर्वाहको भवेत्यर्थः । कीदृशस्य क्रतोः । भद्रस्य कल्याणरूपस्य । दशस्य समृद्धस्य स्वफलदानसमर्थस्येति वा । साधोः साध्यते निष्पाद्यते इति साधुस्तस्यातिशययुक्तस्येत्यर्थः । ऋतस्य अमोघफलस्य । बृहतः महतः प्रौढस्य ॥ ४५ ॥

षट्चत्वारिंशी।
ए॒भिर्नो॑ अर्कै॒र्भवा॑ नो अ॒र्वाङ् स्व॒र्ण ज्योति॑: । अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ।। ४६ ।।
उ० एभिर्नः एभिः अर्कैः मन्त्रैः नः अस्माकं संबन्धिभिः स्तूयमान इति शेषः । भव नः अस्मान् अर्वाङ् अभिमुखाञ्चनः । कथमिव । स्वर्णज्योतिः यथा स्वराख्यं ज्योतिरुदयादारभ्यार्वागञ्चनम् सर्वप्राणिनोऽनुगृह्णाति । एवं भवार्वागञ्चनोऽनुग्रहपरतया । हे अग्ने, विश्वेभिः अनीकैः सर्वैर्मुखैः । अनीकम् मुखम् । सुमनाः शोभनमनस्कः सन्॥४६॥
म० हे अग्ने, विश्वेभिः विश्वैः सर्वैरनीकैः मुखैः कृत्वा नोऽस्मान् प्रति अर्वाङ् अभिमुखो भव । अवरं समीपदेशमञ्चतीत्यर्वाङ् । अनुगृहाणेत्यर्थः । कीदृशः । एभिरस्मत्पठितैरर्कैरर्चनीयमन्त्रैः कृत्वा सुमनाः शोभनमनस्कः । प्रसन्नः सन्नस्मत्संमुखो भवेत्यर्थः । तत्र दृष्टान्तः । स्वः न ज्योतिः स्वःशब्देन सूर्यः । न इवार्थे । यथा स्वरादित्यरूपं ज्योतिः अर्कैः स्तुतमुदयादारभ्य सर्वप्राणिसंमुखं भवति । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति भवेत्यस्य दीर्घः ॥ ४६ ॥

सप्तचत्वारिंशी।
अ॒ग्निᳪं᳭ होता॑रं मन्ये॒ दास्व॑न्तं॒ वसु॑ᳪं᳭ सू॒नुᳪं᳭ सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम् ।
य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा । घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒ऽऽजुह्वा॑नस्य स॒र्पिष॑: ।। ४७ ।।
उ० अग्निं होतारम् । अतिच्छन्दाः अष्टिरत्यष्टिर्वा । तमहमग्निं होतारं मन्ये जानामि । दास्वन्तं दानवन्तम् वसुं वासयितारम् सूनुं सहसः बलस्य पुत्रम् । जातवेदसं जातप्रज्ञानम् । विप्रं न जातवेदसं विप्रमिव जातप्रज्ञानम् । यः देवो दानादिगुणयुक्तः। ऊर्ध्वया ज्वालया स्वध्वरः साधुयज्ञः । देवाच्याकृपा देवान् प्रत्यञ्चत्या देवान्प्रति गतया । कृपा कल्पितया । घृतस्य विभ्राष्टिमनुवष्टि शोचिषा । घृतस्य विभ्राष्ट्रिं विभ्रंशपातम् अनुकामयते दीप्त्या। आजुह्वानस्य आहूयमानस्य । सर्पिषो घृतस्य । तमहमग्निं होतारं मन्य इति संबन्धः ॥ ४७ ॥
म०. 'पुरीषवत्याः पूर्वामतिच्छन्दसं प्राच्यौ पुरीषहिते भद्रा रातिर्वृत्रतूर्येऽवस्थिराग्निᳪं᳭ होतारमिति' (का० १७ । १२ । १६) । अग्नेः पुरीषमसीति पुरीषशब्दवता मन्त्रेणोपहिता पञ्चम्यसपत्ना पुरीषवती तस्याः पूर्वामतिच्छन्दसमिष्टकामुपदधाति । भद्रा रात्रिः वृत्रतूर्ये अवस्थिरेति ककुभां चतुश्चतुरक्षरसहितयाग्निᳪं᳭ होतारमित्यृचा पुरीषवत्यतिच्छन्द इष्टके प्राग्लक्षणे पुरीषयुक्ते च भवतः । अनयोरन्तः पुरीषावापः कार्य इति सूत्रार्थः । अतिच्छन्दाः अवसानत्रिकोपेताः। छन्दांसि गायत्र्यादीनि सप्तातिक्रान्तातिच्छन्दाः । चतुःषष्ट्यक्षरत्वादष्टिः । ककुभामक्षरैः सहातिधृतिः । यो देवः दानादिगुणयुक्तोऽग्निरूर्ध्वयोन्नतया देवाच्या देवान्प्रत्यञ्चति गच्छतीति देवाची तया देवान् प्रति गतया कृपा कृप्यत इति कृप् तया क्लृप्तया समर्थया शोचिषा ज्वालया घृतस्य विभ्राष्टिं विभ्रंशपातमनुवष्टि अन्विच्छति । शोचिःशब्दस्य स्त्रीत्वमार्षम् । किंभूतस्य घृतस्य । आजुह्वानस्य समन्ताद्धूयमानस्य सर्पिषः सर्पतीति सर्पिस्तस्य । अभ्यङ्गेषु प्रसरणशीलस्य । य एतादृशः तमग्निं मन्ये जानामि । कीदृशम् । होतारं देवानामाह्वातारम् । दास्वन्तं 'दासृ दाने' दातारम् । वसुं वासयितारम् सहसो बलस्य सूनुं पुत्रं बलेन मथ्यमानत्वात् जातवेदसमुत्पन्नप्रज्ञम् । न इवार्थे । जातवेदसं जातसर्वशास्त्रज्ञानं विप्रं ब्राह्मणमिव स्थितम् ॥ ४७ ॥

अष्टाचत्वारिंशी।
अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्य॒: ।
वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मᳪं᳭ र॒यिं दा॑: ।
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ।। ४८ ।।
उ० अग्ने त्वम् । द्विपदः तृचो व्याख्यातः ॥ ४८ ॥
म०. 'अग्ने त्वमित्यनूकान्तेऽपरे द्विपदाः' (का० १७ ।। १२।१७) । अग्ने, त्वम् वसुरग्निः तं त्वा इति तिसृभिरपरेऽनूकान्ते द्विपदेष्टका उपदधातीत्यर्थः । तिस्रो द्विपदा आग्नेय्यः व्याख्याताः ( ३ । २५-२६) ॥ ४८ ॥

एकोनपञ्चाशी।
येन॒ ऋष॑य॒स्तप॑सा स॒त्रमाय॒न्निन्धा॑ना अ॒ग्निᳪं᳭ स्व॑रा॒भर॑न्तः ।
तस्मि॑न्न॒हं नि द॑धे॒ नाके॑ अ॒ग्निं यमा॒हुर्मन॑वस्ती॒र्णब॑र्हिषम् ।। ४९ ।।
उ० येन ऋषयः । अष्टाभिर्ऋग्भिः पुनश्चितिश्चीयते । तत्र षट् त्रिष्टुभः द्वे अनुष्टुभौ । येन तपसा ऋषयो वसिष्ठप्रभृतयः सत्रम् आयन् आगतवन्तः । इन्धानाः अग्निम् आदीपयन्तः अग्निम् उख्यम् । स्वराभरन्तः स्वर्लोकमाभरन्तः स्वीकुर्वाणाः । तेनैवाहं तपसा सत्रमागत्याग्निं संदीप्य स्वर्लोकं च स्वीकृत्य । तस्मिन्नहं निदधे स्थापयामि । नाके अग्निम् न विद्यते अकं यत्र गतानां स नाकः स्वर्गो लोकः । यमाहुर्मनवः मननप्रधानाः। तीर्णबर्हिषम् सर्वैर्यज्ञसाधनैः संपादितसुखमित्यर्थः ॥ ४९ ॥
म० 'पुनश्चितिं चोपरि तद्वद्येन ऋषय इति प्रत्यृचम्' (का० १७ । १२ । १९) मध्योपहितस्यास्येष्टकस्य गार्हपत्यस्योपरि गार्हपत्यवदेव पुनश्चितिमुपदधाति येनेत्यष्टर्चेन प्रत्यृचमित्यर्थः । आग्नेय्योऽष्टौ षट् त्रिष्टुभः द्वे अनुष्टुभौ । ऋषयः मुनयो येन तपसा चित्तैकाग्र्येण सत्रं यज्ञमायन्नागताः। यज्ञं कर्तुमुद्यता इत्यर्थः । कीदृशाः । अग्निमिन्धानाः दीपयन्तः । तथा स्वः स्वर्गलोकमाभरन्तः आहरन्तः स्वीकुर्वाणाः । 'मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तपः' इत्युक्तेः । तस्मिन् तपसि सति नाके स्वर्गलोकनिमित्तमग्निमहं निदधे स्थापयामि । मनवः मननप्रधाना विद्वांसो यमग्निं स्तीर्णबर्हिषमाहुर्वदन्ति स्तीर्णमाच्छादितं बर्हिर्यत्र तम् बर्हिर्यज्ञसाधनोपलक्षकम् । यज्ञसाधनसहितमित्यर्थः । 'ये विद्वाᳪं᳭सस्ते मनवः' (८। ६ । ३ । १८) इति श्रुतेः ॥ ४९ ॥

पञ्चाशी।
तं पत्नी॑भि॒रनु॑ गच्छेम देवाः पु॒त्रैर्भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः ।
नाकं॑ गृभ्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ।। ५०।
उ० तं पत्नीभिः । तदः श्रवणाद्यदोऽध्याहारः। द्वितीयादर्धर्चाद्व्याख्यायते । नाकं गृह्णानाः स्वीकुर्वन्तः ऋषयः । सुकृतस्य लोके साधुकृतस्य स्थाने । तृतीये पृष्ठे अधिरोचनेऽवस्थिता दिव एकदेशीभूते यत्रादित्यस्तपतीति तं पत्नीभिः सह अनुगच्छेम । हे देवाः, पुत्रैः भ्रातृभिः अपि च हिरण्यैः ॥ ५०॥
म० हे देवाः दीप्यमाना ऋत्विजः, पत्नीभिः कलत्रैः सह पुत्रैरुत पुत्रैरपि सह भ्रातृभिर्वा भ्रातृभिश्च हिरण्यैः सुवर्णादिद्रव्यैश्च सह तमग्निमनुगच्छेम वयमनुसरेम । सेवेमेत्यर्थः । वयम् । कीदृशे । तृतीये भूमिमारभ्य त्रिसंख्यापूरके दिवः पृष्ठे रविमण्डले नाकं दुःखहीनं स्थानमतिगृभ्णानाः अधिकं सुखस्थानं स्वीकुर्वन्तः । कीदृशे दिवः पृष्ठे । सुकृतस्य लोके शुभकर्मणः फलभूते रोचने दीप्यमाने । 'एतद्वै तृतीयं पृष्ठᳪं᳭ रोचनं दिवो यत्रैष एतत्तपति' (८।६।३ १९) इति श्रुतेः ॥ ५० ॥

एकपञ्चाशी।
आ वा॒चो मध्य॑मरुहद्भुर॒ण्युर॒यम॒ग्निः सत्प॑ति॒श्चेकि॑तानः ।
पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑द्युतद॒धस्प॒दं कृ॑णुतां॒ ये पृ॑त॒न्यव॑: ।। ५१ ।।
उ० आ वाचो मध्यमरुहत् । अरुहत् वाचोमध्यम् । 'एतद्ध वाचोमध्यं यत्रैष एतच्चीयते' । भुरण्युः भर्ता । अयमग्निः सत्पतिः शोभनानां पतिः । चेकितानः चेतयमानः । किंच पृष्ठे पृथिव्याः निहितः स्थापितः । दविद्युतम् देदीप्यमानः । अधस्पदम् पादयोरधः कृणुतां करोतु । ये पृतन्यवः पाप्मानस्तान्सर्वान् ॥ ५१ ॥
म० अयमग्निः वाचो मध्यं चयनस्थानमारुहत् चयनोपर्यारूढः । 'एतद्ध वाचो मध्यं यत्रैष एतच्चीयते' (८।६। ३ । २०) इति श्रुतेः । सोऽयमग्निः ये पृतन्यवः युद्धेप्सवः पाप्मानस्तानधस्पदं कृणुतां पादयोरधः करोतु । पादयोरधोऽधस्पदम् । कस्कादित्वात्सः (पा० ८ । ३ । ४८ ) । पृतनां सेनां युद्धं वा इच्छन्ति पृतन्यन्ति 'सुप आत्मनः क्यच्' (पा० ३ । १।८) 'कव्यध्वर-' (पा० ७ । ४ । ३९) इत्यादिना पृतनायाष्टिलोपः ततः 'क्याच्छन्दसि' (पा० ३ । २। १७०) इत्युप्रत्ययः । 'अधस्पदं कुरुताᳪं᳭ सर्वान् पाप्मनः' इति श्रुतेः । कीदृशोऽग्निः । भुरण्युः जगद्भर्ता । 'भुरण्युरिति भर्तेत्येतत्' इति श्रुतेः । सत्पतिः सतां पालकः । चेकितानः चेतयमानः । पृथिव्याः पृष्ठे भूम्युपरि निहितः स्थापितः । दविद्युतदत्यन्तं द्योतमानः 'दाधर्ति-' (पा० ७ । ४।६५) इत्यादिना यङ्लुकि शत्रन्तो निपातः ॥५१॥

द्विपञ्चाशी।
अ॒यम॒ग्निर्वी॒रत॑मो वयो॒धाः स॑ह॒स्रियो॑ द्योतता॒मप्र॑युच्छन् ।
वि॒भ्राज॑मानः सरि॒रस्य॒ मध्य॒ उप॒ प्रया॑हि दि॒व्यानि॒ धाम॑ ।। ५२ ।।
उ० अयमग्निः वीरतमः अतिशयेन वीरः । वयोधाः वयोऽन्नं हविर्लक्षणमस्मिन्धीयते । सहस्रियः सहस्रार्हः । द्योततां दीप्यताम् । अप्रयुच्छन् अप्रमत्तः विभ्राजमानः सरिरस्य मध्ये । 'इमे वै लोकाः सरिरम्' । दीप्यमान एषु लोकेषु । उप प्रयाहि । यातु इति पुरुषव्यत्ययः परोक्षकृतत्वान्मन्त्रस्य । दिव्यानि धामानीति बहुवचनेन सन्नतिः। स्थानानीति पर्यायः ॥५२॥
म० अयमग्निर्द्योततां दीप्यतां दिव्यानि धाम धामानि स्थानानि उप प्रयाहि । उपप्रयातु च स्वर्गं लोकं गच्छतु । पुरुषव्यत्ययः । 'उपप्रयाहि दिव्यानि धामेत्युपप्रयाहि स्वर्गं लोकमित्येतत्' (८ । ६ । ३ । २१) इति श्रुतेः । कीदृशोऽग्निः । वीरतमः अतिशयेन वीरः शूरः । वयोधाः वयोऽन्नं हविर्लक्षणं दधातीति वयोधाः । सहस्रियः इष्टकानां सहस्रेण संमितः 'सहस्रेण संमितौ घः' (पा० ४ । ४ । १३५) इति घप्रत्ययः । अप्रयुच्छन् कर्मण्यप्रमाद्यन् सरिरस्य मध्ये लोकत्रयान्तर्विभ्राजमानः दीप्यमानः । 'इमे वै लोकाः सरिरम्' (२१) इति श्रुतेः ॥ ५२ ॥

त्रिपञ्चाशी।
स॒म्प्रच्य॑वध्व॒मुप॑ स॒म्प्रया॒ताग्ने॑ प॒थो दे॑व॒याना॑न् कृणुध्वम् ।
पुन॑: कृण्वा॒ना पि॒तरा॒ युवा॑ना॒ऽन्वाता॑ᳪं᳭सी॒त् त्वयि॒ तन्तु॑मे॒तम् ।। ५३ ।।
उ० संप्रच्यवध्वम् । ऋषीनाह मन्त्रदृक् संप्रच्यवध्वमेनमग्निम् उपसंप्रयात च । त्वम् हे अग्ने, पथः देवयानानृषीणां कुरु इति वचनव्यत्ययः । किंच पुनरपि कृण्वानाः कुर्वाणा ऋषयः । पितरा युवाना । 'वाक् च मनश्च पितरा युवाना' इति श्रुतिः । वाङ्मनसे युवाना तरुणे अयातयामे अन्योन्यं संगते वा । संगते हि वाक् च मनश्च यज्ञं साधयतः । अन्वाताᳪं᳭सीत् त्वयि तन्तुमेतम् अन्वातनोतु त्वयि तन्तुं यज्ञम् एतम् हे अग्ने ॥ ५३ ॥
म० मन्त्रदृगृषीनाह । हे ऋषयः, एतमग्निं यूयं संप्रच्यवध्वमग्निं प्रत्यागच्छत । उप संप्रयात च आगत्य सम्यक् प्राप्नुत । संप्रच्यवध्वमुप संप्रयातेत्यमूनेतदृषीनाह । 'समेनं प्रच्यवध्वमुप चैनᳪं᳭ संप्रयात' (८ । ६ । ३ । २२) इति श्रुतेः । एवमृषीनुक्त्वाग्निमाह हे अग्ने, देवयानान् पथः कृणुध्वं कुरु वचनव्यत्ययः । देवा यायन्ते प्राप्यन्ते यैस्ते देवयानास्तान् ‘करणाधिकरणयोश्च' (पा० ३ । ३ । ११७) इति ल्युट् । देवलोकप्राप्तिहेतून्मार्गान्कुर्वित्यर्थः । हे अग्ने, यत ऋषय एतं तन्तुं यज्ञं त्वयि अन्वातांसीत् अतानिषुः अनुक्रमेण विस्तारितवन्तः । वचनव्यत्ययः । कीदृशा ऋषयः । पुनः भूयः पितरा वाङ्मनसे युवाना तरुणौ अयातयामावन्योन्यसङ्गतौ कृण्वानाः कुर्वाणाः । स्वादेः कृञः शानच् । विभक्तेराकारः । संयताभ्यां वाङ्मनसाभ्यामेव यज्ञसाधनात् ते संयते कुर्वाणाः जितेन्द्रिया इत्यर्थः । पुनः कुर्वाणाः पितरा युवानेति 'वाक् चैव मनश्च पितरा युवाना' ( २२ ) इति श्रुतेः ॥ ५३ ॥

चतुःपञ्चाशी। |
उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्ते सᳪं᳭ सृ॑जेथाम॒यं च॑ ।
अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानाश्च सीदत ।। ५४ ।।
उ० उद्बुध्यस्व प्रतिबुद्धो भव । हे अग्ने, प्रतिजागृहि च त्वम् । ततः इष्टापूर्ते च संसृजेथाम् त्वत्प्रसादाद्यजमानेन सह । अयं च यजमानः इष्टापूर्ताभ्यां संसृष्टो भवतु । ततः संसृष्टेष्टापूर्तो व्यपगतकल्मषः सन् । अस्मिन्सधस्थे सहस्थाने देवैः । पुनरपि विशिनष्टि । अध्युत्तरस्मिन् सर्वोत्कृष्टे आदित्यलोके । विश्वेदेवा यजमानश्च सीदतु । विश्वैर्देवैर्यजमानस्य समानलोकता प्रार्थ्यते ॥ ५४॥
म० हे अग्ने, त्वमुद्बुध्यस्व उद्बुद्धो भव सावधानो भव । एनं यजमानं प्रतिजागृहि प्रतिदिनं यजमानं जागरूकं सावधानं कुरु । तत इष्टापूर्ते श्रौतस्मार्ते कर्मणी संसृजेथां यजमानेन सह संसृष्टे भवताम् । त्वत्प्रसादात् अयं च यजमान इष्टापूर्ताभ्यां संसृज्यताम् । पुरुषव्यत्ययः । किंच हे विश्वेदेवाः, यूयं कृतेष्टपूर्तो निष्पापो यजमानश्च सधस्थे देवैः सह स्थितियोग्ये अस्मिन्नुत्तरस्मिन् सर्वोत्कृष्टे रविलोके द्युलोके सीदत तिष्ठत अधि अधिकम् । चिरं तिष्ठतेत्यर्थः । 'द्यौर्वा उत्तरᳪं᳭सधस्थम्' ( ८ । ६ । ३ । २३) इति श्रुतेः । विश्वैर्देवैः सालोक्यं यजमानस्य प्रार्थ्यत इति भावः ॥ ५४ ॥

पञ्चपञ्चाशी।
येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम् ।
तेने॒मं य॒ज्ञं नो॑ नय॒ स्व॒र्दे॒वेषु॒ गन्त॑वे ।। ५५ ।।
उ० येन वहसि । येन हेतुना सामर्थ्येन वा वहसि प्रापयसि सहस्रम् । येन हे अग्ने, सर्ववेदसं सर्वधनम् । तेन इमं यज्ञम् नः अस्मत्संबन्धिनम् नय प्रापय । स्वर्देवेषु गन्तवे स्वर्लोकं देवेषु देवान्प्रति । गन्तवे गमनाय । यज्ञे हि स्वर्लोकं गते अस्माकमपि गमनं भवति । तदुक्तम् । 'सोऽस्य यज्ञो देवलोकमेवाभिप्रेति तदनूची दक्षिणायां ददाति सेति दक्षिणामन्वारभ्य यजमानः' इति ॥५५॥
म० हे अग्ने, येन सामर्थ्येन सहस्रं सहस्रदक्षिणाकं यज्ञं त्वं वहसि प्रापयसि । येन च सर्ववेदसं सर्वं वेदो धनं दक्षिणा यत्र तं सर्वस्वदक्षिणाकं यज्ञं वहसि तेन सामर्थ्यन नोऽस्माकमिमं यज्ञं देवेषु गन्तवे देवान् प्रति गन्तुं स्वः स्वर्गं नय प्रापय । तुमर्थे गमेः तवेप्रत्ययः । यज्ञे स्वर्गं गतेऽस्माकमपि तत्र गमनं स्यात् । 'सोऽस्यैष यज्ञो देवलोकमेवाभिप्रैति तदनूची दक्षिणा यां ददाति प्रैति दक्षिणामन्वारभ्य यजमानः' (१२) इति श्रुतेः । अतो यज्ञस्य स्वर्गगमनं प्रार्थ्यते ॥५५॥

षट्पञ्चाशी।
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ।। ५६ ।।
उ० अयं त इति व्याख्यातम् ॥ ५६ ॥
म० इयं व्याख्याता ( ३ । १४ । १२ । ५२ ) ॥ ५६ ॥

सप्तपञ्चाशी।
तप॑श्च तप॒स्य॒श्च शैशि॒रावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे शै॒शि॒रावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वे सी॑दतम् ।। ५७ ।।
उ० ऋतव्ये । तपश्च तपस्यश्चेति व्याख्यातम् ॥ ५७ ॥
म० एवं पुनश्चित्युपस्थानमुक्त्वा पञ्चमचितिशेषभूतेष्टकोपधाने मन्त्रा उच्यन्ते । 'ऋतव्ये तपश्च तपस्यश्चेति' ( का० १७॥ १२ । २२ ) । ऋतव्ये द्वे पद्येष्टके उपदधाति । ऋतुदेवत्यं यजुः उत्कृतिश्छन्दः । तपो माघः तपस्यः फाल्गुनः शैशिरौ | ऋतू शिशिरर्तोरवयवौ । शिष्टं व्याख्यातम् (१३ । २५)॥५७॥

अष्टपञ्चाशी ।
प॒र॒मे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे ज्योति॑ष्मतीम् । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ ।
सूर्य॒स्तेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।। ५८ ।।
उ०विश्वज्योतिषम् । परमेष्ठी त्वा इति व्याख्यातम् ॥५८॥
म० 'विश्वज्योतिषं परमेष्ठी त्वेति' ( का० १७।१२।२३) यजमानकृतां पद्यां विश्वज्योतिषं तृतीयोपहिताया विश्वज्योतिष उपर्युपदधातीति सूत्रार्थः । सूर्यदेवत्यं यजुः शक्करीच्छन्दः । परमेष्ठी त्वां दिवः पृष्ठे उपरि सादयतु । सूर्यस्ते तवाधिपतिः पालक इति विशेषः । अन्यद्व्याख्यातम् ( अध्या० १४ क० १४)॥५८ ॥

एकोनषष्टी।
लो॒कंपृ॑ण छि॒द्रं पृ॒णाथो॑ सीद ध्रु॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन्योना॑वसीषदन् ।। ५९ ।।
उ० लोकंपृण व्याख्यातम् ॥ ५९॥
म० 'दक्षिणाᳪं᳭सात्प्रत्यगरत्निमात्रादधि लोकंपृणाः पूर्ववत्' ( का० १७ । १२ । २४)। आत्मनो दक्षिणादाग्नेयकोणादपरस्यां दिश्यरत्निमात्रादधि पद्यालोकद्वयं परित्यज्य तृतीयलोकादारभ्य प्रथमचितिवल्लोकंपृणा उपदधातीति सूत्रार्थः । "तिस्रोऽपि द्वादशे' ( १२ । ५४-५६) व्याख्याताः ॥ ॥५९-६१ ॥

षष्टी।
ता अ॑स्य॒ सूद॑दोहस॒: सोम॑ᳪं᳭ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वारो॑च॒ने दि॒वः ।। ६० ।।
उ० ता अस्य ॥ ६० ॥

एकषष्टी।
इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिर॑: । र॒थीत॑मᳪं᳭ र॒थीनां॒ वाजा॑ना॒ᳪं᳭ सत्प॑तिं॒ पति॑म् ।। ६१ ।।
उ० इन्द्रं विश्वाः ॥ ६१ ॥

द्विषष्टी।
प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑त् ।
आद॑स्य॒ वातो॒ अनु॑वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ।। ६२ ।।
उ० व्याख्याताः । विकर्णीमुपदधाति । प्रोथदश्वः । आग्नेयीत्रिष्टुप् । मथ्यमानोऽग्निरत्रोच्यते। प्रोथतिः शब्दार्थः । शब्दायते अग्निः । अश्वोन यवसेऽविष्यन् अश्वइव यवसे घासे विषयभूते अविष्यन् ग्रसिष्यन् । यदा यस्मिन्काले । महतः संवरणात् । संव्रियते अस्मिन्नग्निरिति संवरणमरणिकाष्ठमुच्यते । अरणिकाष्ठात् । व्यस्थात् व्युत्तिष्ठते प्रकाशीभवति । आत् अथानन्तरमेव । अस्याग्नेः वातः अनुवाति । शोचिः संदीपनः । अध अथ समानार्थौ छन्दसि । स्मनिपातोऽनर्थकः । ते । अथैतस्येत्यर्थः । नह्यत्र युष्मदः प्रयोगः परोक्षकृतत्वान्मन्त्रस्य । श्रुतिरप्यमुमर्थं दर्शयति । अथैतस्य व्रजनं कृष्णं भवतीति । व्रजति गच्छत्यनेनेति व्रजनं कृष्णं भवति ॥ ६२ ॥
म० 'प्रच्छाद्य पुरीषेण विकर्णी स्वयमातृण्णे शर्करे सᳪं᳭स्पृष्टे छिद्रे प्रोथदश्व इत्युत्तरां विकर्णीम्' ( का० १७ । १२ । २५)। पञ्चमीं चितिं पुरीषेण पूर्ववत्प्रच्छाद्य शर्करामय्यौ परस्परसंलग्ने सच्छिद्रे विकर्णी स्वयमातृण्णासंज्ञे द्वे इष्टके उपधेये । तयोर्मध्ये उत्तरदिश्यनूकरेखामध्ये प्रोथदश्व इति विकर्णीष्टकामुपदधातीति सूत्रार्थः । वसिष्ठदृष्टाग्नेयी त्रिष्टुप् । मथ्यमानोऽग्निः कथ्यते । यदा यस्मिन् काले महः महतः संवरणात्संव्रियतेऽस्मिन्नग्निरिति संवरणमरणिकाष्ठं तस्मात् व्यस्थात् वितिष्ठते प्रकाशो भवति तदा प्रोथत् प्रोथयति शब्दायते । प्रोथतिः शब्दार्थः 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७) इति तिप इकारलोपः । तत्र दृष्टान्तः अश्वो न । न इवार्थे । अश्व इव यथा यवसे अविष्यन् यवसं घासं भक्षयिष्यन्नश्वः प्रोथति । आत् अस्य अनन्तरं वह्निज्वलनशब्दानन्तरं वातो वायुरस्याग्नेरनुवाति अग्निमनुलक्ष्य प्रसरति वाय्वग्न्योः सख्यादिति भावः । कीदृशो वायुः । शोचिः शोचयति ज्वलयति शोचिः अग्नेः संदीपनः । शोचिरिति ज्वलन्नामसु पठितम् । यद्वास्य शोचिर्ज्वालामनुलक्ष्य वातो वाति । अधेति निपातोऽथार्थः । अथ वातेनाग्नौ ज्वलिते सति ते एतस्याग्नेः व्रजनं व्रजत्यत्रेति व्रजनं गमनस्थानं कृष्णमस्ति श्यामं भवति 'कृष्णवर्त्मा हुताशनः' इत्युक्तेः । स्मेति निपातः पादपूरणः । श्रुत्या ते इति पदमेतस्येति व्याख्यातं परोक्षत्वान्मन्त्रस्य । 'अथैतस्य व्रजनं कृष्णं भवति' ( ८ । ७ । ३ । १२) इति श्रुतेः । अविष्यन्नित्यत्तिकर्मसु पठितम् ॥ ६२ ॥

त्रिषष्टी।
आ॒योष्ट्वा॒ सद॑ने सादया॒म्यव॑तश्छा॒याया॑ᳪं᳭ समु॒द्रस्य॒ हृद॑ये ।
र॒श्मी॒वतीं॒ भास्व॑ती॒मा या द्यां भास्या पृ॑थि॒वीमोर्व॒न्तरि॑क्षम् ।। ६३ ।।
उ० स्वयमातृण्णामुपदधाति । आयोष्ट्वा । आयाद्यां भासीत्याद्यारम्भः यच्छब्दयोगात् । आयाद्यांभासि । द्युलोकसंस्तवोऽस्याः स्वयमातृण्णायाः । आभासि प्रकाशयसि या त्वं द्यां द्युलोकम् । आपृथिवीम् आभासि च पृथिवीम् । आभासि च उरु विस्तीर्णमन्तरिक्षम् । तां त्वां रश्मीवतीं रश्मिसंयुक्ताम् । आयोः अयनस्य आदित्यस्य । त्वां सदने अवस्थाने सादयामि । अवतः अवनस्य पालयितुः दीप्यतो वा। छायायाम् आश्रये । समुद्रस्य समुन्दनस्यादित्यस्य । हृदये प्रधानप्रदेशे । आदित्यो हि सर्वमुन्दतीति समुद्र उच्यते ॥ ६३ ॥
म० 'आयोष्ट्वेति स्वयमातृण्णाम्' ( का० १७।१२।२५)। आयोरिति कण्डिकाद्वयेन विकर्णीदक्षिणां स्वयमातृण्णामुपदधातीत्यर्थः । आयोः परमेष्ठीति द्वे यजुषी स्वयमातृण्णादेवत्ये आद्यं ब्राह्युडिष्णिक् द्वितीयमाकृतिच्छन्दः । हे स्वयमातृण्णे, आयोः आदित्यस्य सदने स्थाने तां त्वा त्वां सादयामि । स्थापयति एति निरन्तरं गच्छतीत्यायुरादित्यः । कीदृशस्यायोः । अवतः जगत्पालयितुः दीप्यमानस्य वा । तथा समुद्रस्य समुनत्तीति समुद्रस्तस्य । आदित्यो वृष्ट्या जगदार्दीकुर्वन् समुद्र उच्यते । किंभूते सदने । छायायामाश्रयभूते हृदये प्रधानभूते । कीदृशीं त्वाम् । रश्मिवतीं किरणयुतामतएव भास्वतीं शोभमानाम् । तां काम् । या त्वं द्यां द्युलोकमाभासि प्रकाशयसि पृथिवीमाभासि उरु विस्तीर्णमन्तरिक्षं चाभासि । रश्मिपदस्य संहितायां दीर्घः ॥ ६३॥

चतुःषष्टी।
प॒र॒मे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ दिवं॑ यच्छ॒ दिवं॑ दृᳪं᳭ह॒ दिवं॒ मा हि॑ᳪं᳭सीः ।
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य ।
सूर्य॑स्त्वा॒ऽभिपा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ।। ६४ ।।
उ० परमेष्ठी त्वासादयत्विति व्याख्यातम् ॥ ६४ ॥
म० व्याख्यातम् ( १४ । १२ । १५ । ५८) ॥ ६४ ॥

पञ्चषष्टी।
स॒हस्र॑स्य प्र॒माऽसि॑ स॒हस्र॑स्य प्रति॒माऽसि॑ स॒हस्र॑स्यो॒न्माऽसि॑ साह॒स्रो॒ऽसि स॒हस्रा॑य त्वा ।। ६५ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां पञ्चदशोऽध्यायः॥ १५ ॥
उ० अग्निं प्रोक्षति । हिरण्यशकलसहस्रेण शते द्वे द्वे प्रकिरति सहस्रस्येति प्रतिमन्त्रम् । सहस्रस्य प्रमा प्रमाणं भवसि । सहस्रस्य प्रतिमा प्रतिमानं भवसि । सहस्रस्योन्मा उन्मानं तुलामानं भवसि । साहस्रोऽसि सहस्रार्होऽसि यतः अतः सहस्राय त्वां प्रोक्षामि ॥ ६५ ॥
इति उवटकृतौ मन्त्रभाष्ये पञ्चदशोऽध्यायः ॥ ६५॥
म० "तिष्ठन्नग्निं प्रोक्षति हिरण्यशकलसहस्रेण शते द्वे द्वे प्रकिरति सहस्रस्येति प्रतिमन्त्रम्' ( का० १७ । १२ । २७)। इष्टकाचितं सपक्षपुच्छमग्निं पश्चादुत्तरपूर्वदक्षिणपश्चिमेषु शतद्वयं द्वयं सोदकस्तिष्ठन्प्रकिरतीत्यर्थः । पञ्चाग्नेयानि यजूंषि । हे अग्ने, सहस्रस्येष्टकानां प्रमा प्रमाणं त्वमसि । सहस्रस्य प्रतिमा प्रतिनिधिरसि । सहस्रस्योन्मोन्मानं तुलासि । साहस्रः सहस्रार्होऽसि। सहस्रायानन्तफलाप्त्यै त्वा त्वां प्रोक्षामि ॥ ६५ ॥
श्रीमन्महीधरकृते वेददीपे मनोरमे ।
अस्मिन्पञ्चदशाध्याये कथिता पञ्चमी चितिः ॥६५॥


  1. तु. कूर्मपुराणम् १.४३.३, ब्रह्माण्डपुराणम् १.२.२४.६८, वायुपुराणम् ५३.४४