शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ७/ब्राह्मणम् ३

विकिस्रोतः तः



८.७.३ पुरीषनिवपनम्

अथ पुरीषं निवपति । मांसं वै पुरीषं मांसेनैवैनमेतत्प्रच्छादयतीष्टकाउपधायास्थीष्टका अस्थि तन्मांसैः संच्छादयति - ८.७.३.१

स वै स्वयमातृण्णायामावपति । प्राणो वै स्वयमातृण्णान्नं पुरीषं प्राणे तदन्नं दधाति तेन सर्वमात्मानं प्रच्छादयति तस्माद्यत्प्राणेऽन्नं धीयते सर्वमात्मानमवति सर्वमात्मानमनुव्येति - ८.७.३.२

न स्वयमातृण्णायामावपेदित्यु हैक आहुः । प्राणः स्वयमातृण्णा नेत्प्राणानपि दधानीति स वा ऐव वपेदन्नेन वै प्राणा विष्टब्धा यो वा अन्नं नात्ति सं वै तस्य प्राणा रोहन्ति तद्यस्य ह तथा कुर्वन्ति यथा शुष्का सूर्मी सुषिरैवं ह सोऽमुष्मिंलोके सम्भवति तस्मात्स्वयमातृण्णायामैव वपेत् - ८.७.३.३

स्वयमातृण्णायामोप्य । अनूक्यया संच्छादयन्नैत्या परिश्रिद्भ्यः स तेनैव दक्षिणावृज्जघनेन स्वयमातृणां संच्छादयन्नेत्या पुनरनूक्यायै - ८.७.३.४

आत्मानमग्रे संच्छादयति । आत्मा ह्येवाग्रे सम्भवतः सम्भवत्यथ दक्षिणम्पक्षमथ पुच्छमथोत्तरं तद्दक्षिणावृत्तद्धि देवत्रा - ८.७.३.५

स एष प्राण एव यत्पुरीषम् । तेन सर्वमात्मानं प्रच्छादयति सर्वस्मिंस्तदात्मन्प्राणं दधाति तद्यद्धास्यैतदङ्गं नाभिप्राप्नुयात्प्राणो हास्य तदङ्गं नाभिप्राप्नुयाद्यदु वै प्राणोऽङ्गं नाभिप्राप्नोति शुष्यति वा वैतन्म्लायति वा तस्मादेनं सर्वमेवैतेन प्रच्छादयेत् - ८.७.३.६

इन्द्रं विश्वा अवीवृधन्निति । इन्द्रं हि सर्वाणि भूतानि वर्धयन्ति समुद्रव्यचसं गिर इति महिमानमस्यैतदाह रथीतमं रथीनामिति रथितमो ह्येष रथिनां वाजानां सत्पतिं पतिमित्यन्नं वै वाजा अन्नानां सत्पतिम्पतिमित्येतदैन्द्र्यानुष्टुभा निवपत्यैन्द्रं हि पुरीषं तदेतदर्धमग्नेर्यत्पुरीषमर्धमैष्टकम् - ८.७.३.७

तदाहुः । यत्सर्वैश्छन्दोभिः सर्वाभिर्देवताभिरिष्टका उपदधात्यथैतदेकयैकदेवत्यया निवपति कथमेतदर्धमग्नेरितीन्द्रो वै सर्वान्देवान्प्रतिप्रतिस्तद्यदैन्द्र्या निवपति तेनैतदर्धमग्नेरथ यदनुष्टुभा वाग्वा अनुष्टुब्वागु सर्वाणि छन्दांसि तेनो एवार्धम् - ८.७.३.८

अथ विकर्णीं च स्वयमातृणां चोपदधाति । वायुर्वै विकर्णी द्यौरुत्तमा स्वयमातृण्णा वायुं च तद्दिवं चोपदधात्युत्तमे उपदधात्युत्तमे हि वायुश्च द्यौश्च संस्पृष्टे संस्पृष्टे हि वायुश्च द्यौश्च पूर्वां विकर्णीमुपदधात्यर्वाचीनं तद्दिवो वायुं दधाति तस्मादेषोऽर्वाचीनमेव वातः पवते - ८.७.३.९

यद्वेव विकर्णीमुपदधाति । यत्र वा अदोऽश्वं चितिमवघ्रापयन्ति तदसावादित्य इमांल्लोकान्त्सूत्रे समावयते तद्यत्तत्सूत्रं वायुः स स यः स वायुरेषा सा विकर्णी तद्यदेतामुपदधात्यसावेव तदादित्य इमांल्लोकान्त्सूत्रे समावयते - ८.७.३.१०
 
यद्वेव विकर्णीं च स्वयमातृणां चोपदधाति । आयुर्वै विकर्णी प्राणः स्वयमातृण्णाऽऽयुश्च तत्प्राणं चोपदधात्युत्तमे उपदधात्युत्तमे ह्यायुश्च प्राणश्च संस्पृष्टे संस्पृष्टे ह्यायुश्च प्राणश्च पूर्वामुत्तरां विकर्णीमुपदधात्यायुषा तत्प्राणमुभयतः परिगृह्णाति - ८.७.३.११

प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् आदस्य वातो अनुवाति शोचिरध स्म ते व्रजनं कृष्णमस्तीति यदा वा एतस्य वातोऽनुवाति शोचिरथैतस्य व्रजनं कृष्णं भवति त्रिष्टुभोपदधाति त्रैष्टुभो हि वायुराग्नेय्याग्निकर्म ह्यनिरुक्तयाऽनिरुक्तो हि वायुरथ यद्वात इत्याह वातो हि वायुः - ८.७.३.१२

अथ स्वयमातृण्णामुपदधाति । आयोष्ट्वा सदने सादयामीत्येष वा आयुस्तस्यैतत्सदनमवत इत्येष हीदं सर्वमवति च्छायायामित्येतस्य हीदं सर्वं छायायां समुद्रस्य हृदय ऽइति समुद्रस्य ह्येतद्धृदयं रश्मीवतीं भास्वतीमिति रश्मीवती हि द्यौर्भास्वत्या या द्यां भास्या पृथिवीमोर्वन्तरिक्षमित्येवं ह्येष इमांल्लोकानाभाति - ८.७.३.१३

परमेष्ठी त्वा सादयत्विति । परमेष्ठी ह्येतां पञ्चमीं चितिमपश्यन् - ८.७.३.१४

यद्वेव परमेष्ठिनोपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य परमेष्ठी शिर आदायोत्क्रम्यातिष्ठन् - ८.७.३.१५

तमब्रवीत् । उप मेहि म एतद्धेहि येन मे त्वमुदक्रमीरिति किं मे ततो भविष्यतीति त्वद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति तदस्मिन्नेतत्परमेष्ठी प्रत्यदधात् - ८.७.३.१६

तद्यैषोत्तमा स्वयमातृण्णा । एतदस्य तदात्मनस्तद्यदेतामत्रोपदधाति यदेवास्यैषात्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेतामत्रोपदधाति - ८.७.३.१७

दिवस्पृष्ठे व्यचस्वतीं प्रथस्वतीमिति । दिवो ह्येतत्पृष्ठं व्यचस्वत्प्रथस्वद्दिवं यच्छ दिवं दृंह दिवं मा हिंसीरित्यात्मानं यच्छात्मानं दृंहात्मानं मा हिंसीरित्येतत् - ८.७.३.१८

विश्वस्मै प्राणायापानाय । व्यानायोदानायेति प्राणो वै स्वयमातृण्णा सर्वस्मा उ वा एतस्मै प्राणः प्रतिष्ठायै चरित्रायेतीमे वै लोकाः स्वयमातृण्णा इम उ लोकाः प्रतिष्ठा चरित्रं सूर्यस्त्वाभिपात्विति सूर्यस्त्वाभिगोपायत्वित्येतन्मह्या स्वस्त्येति महत्या स्वस्त्येत्येतच्छर्दिषा शंतमेनेति यच्छर्दिः शंतमं तेनेत्येतत् - ८.७.३.१९

नानोपदधाति । नाना हि वायुश्च द्यौश्च सकृत्सादयति समानं तत्करोति समानं ह्यायुश्च प्राणश्च ते वा उभे एव [१]शर्करे भवत उभे स्वयमातृण्णे समानं ह्येवायुश्च प्राणश्चाथैने सूददोहसाधिवदति प्राणो वै सूददोहाः प्राणेनैवैने एतत्संतनोति संदधाति - ८.७.३.२०

ता अस्य सूददोहस इति । आपो वै सूदोऽन्नं दोहः सोमं श्रीणन्ति पृश्नय इत्यन्नं वै पृश्नि जन्मन्देवानामिति संवत्सरो वै देवानां जन्म विश इति यज्ञो वै विशो यज्ञे हि सर्वाणि भूतानि विष्टानि त्रिष्वा रोचने दिव इति सवनानि वै त्रीणि रोचनानि सवनान्येतदाहानुष्टुभा वाग्वा अनुष्टुब्वागु सर्वे प्राणा वाचा चैवैने एतत्प्राणेन च संतनोति संदधाति सा वा एषैका सती सूददोहाः सर्वा इष्टका अनुसंचरति प्राणो वै सूददोहास्तस्मादयमेक एव प्राणः सन्त्सर्वाण्यङ्गानि सर्वमात्मानमनुसंचरति - ८.७.३.२१

  1. शर्करा उपरि टिप्पणी