शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ५/ब्राह्मणम् १

विकिस्रोतः तः


८.५.१ अथ असपत्नेष्टकोपधानम्

पञ्चमीं चितिमुपदधाति । एतद्वै देवाश्चतुर्थीं चितिं चित्वा समारोहन्यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवस्तदेव तत्संस्कृत्य समारोहन् - ८.५.१.१

तेऽब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते चेतयमाना दिवमेव विराजं पञ्चमीं चितिमपश्यंस्तेभ्य एष लोकोऽच्छदयत् - ८.५.१.२

तेऽकामयन्त । असपत्नमिमं लोकमनुपबाधं कुर्वीमहीति तेऽब्रुवन्नुप तज्जानीत यथेमं लोकमसपत्नमनुपबाधं करवामहा इति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेमं लोकमसपत्नमनुपबाधं करवामहा इति - ८.५.१.३

ते चेतयमानाः । एता इष्टका अपश्यन्नसपत्नास्ता उपादधत ताभिरेतं लोकमसपत्नमनुपबाधमकुर्वत तद्यदेताभिरिमं लोकमसपत्नमनुपबाधमकुर्वत तस्मादेता असपत्नास्तथेवैतद्यजमानो यदेता उपदधात्येतमेवैतल्लोकमसपत्नमनुपबाधं कुरुते सर्वत उपदधाति सर्वत एवैतदेतं लोकमसपत्नमनुपबाधं कुरुते परार्ध उपदधाति सर्वमेवैतदेतं लोकमसपत्नमनुपबाधं कुरुते - ८.५.१.४

अथ विराज उपदधाति । एषा वै सा विराड्यां तद्देवा विराजं पञ्चमीं चितिमपश्यंस्ता दशदशोपदधाति दशाक्षरा विराड्विराडेषा चितिः सर्वत उपदधाति यो वा एकस्यां दिशि विराजति न वै स विराजति यो वाव सर्वासु दिक्षु विराजति स एव विराजति - ८.५.१.५

यद्वेवैता असपत्ना उपदधाति । एतद्वै प्रजापतिमेतस्मिन्नात्मनः प्रतिहिते सर्वतः पाप्मोपायतत स एता इष्टका अपश्यदसपत्नास्ता उपाधत्त ताभिस्तम्पाप्मानमपाहत पाप्मा वै सपत्नस्तद्यदेताभिः पाप्मानं सपत्नमपाहत तस्मादेता असपत्नाः - ८.५.१.६

तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं न्विमं स पाप्मा नोपयतते यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो य एव पाप्मा यः सपत्नस्तमेताभिरपहते तद्यदेताभिः पाप्मानं सपत्नमपहते तस्मादेता असपत्नाः सर्वत उपदधाति सर्वत एवैतत्पाप्मानं सपत्नमपहते परार्ध उपदधाति सर्वस्मादेवैतदात्मनः पाप्मानं सपत्नमपहते - ८.५.१.७

स पुरस्तादुपदधाति । अग्ने जातान्प्रणुदा नः सपत्नानिति यथैव यजुस्तथा बन्धुरथ पश्चात्सहसा जातान्प्रणुदा नः सपत्नानिति यथैव यजुस्तथा बन्धुः - ८.५.१.८

सा या पुरस्तादग्निः सा । या पश्चादग्निः साग्निनैवतत्पुरस्तात्पाप्मानमपाहताग्निना पश्चात्तथैवैतद्यजमानोऽग्निनैव पुरस्तात्पाप्मानमपहतेऽग्निना पश्चात् - ८.५.१.९

अथ दक्षिणतः । षोडशी स्तोम ओजो द्रविणमित्येकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभमन्तरिक्षं चतस्रो दिश एष एव वज्रः पञ्चदशस्तस्यासावेवादित्यः षोडशी वज्रस्य भर्ता स एतेन पञ्चदशेन वज्रेणैतया त्रिष्टुभा दक्षिणतः पाप्मानमपाहत तथैवैतद्यजमान एतेन पञ्चदशेन वज्रेणैतया त्रिष्टुभा दक्षिणतः पाप्मानमपहते - ८.५.१.१०

अथोत्तरतः । चतुश्चत्वारिंश स्तोमो वर्चो द्रविणमिति चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप्त्रैष्टुभो वज्रः स एतेन चतुश्चत्वारिंशेन वज्रेणैतया त्रिष्टुभोत्तरतः पाप्मानमपाहत तथैवैतद्यजमान एतेन चतुश्चत्वारिंशेन वज्रेणैतया त्रिष्टुभोत्तरतः पाप्मानमपहते - ८.५.१.११

अथ मध्ये । अग्नेः पुरीषमसीति ब्रह्म वै चतुर्थी चितिरग्निरु वै ब्रह्म तस्या एतत्पुरीषमिव यत्पञ्चम्यप्सो नामेति तस्योक्तो बन्धुः - ८.५.१.१२

तां प्राचीं तिरश्चीमुपदधाति । एतद्धैतया प्रजापतिः पाप्मनो मूलमवृश्चत्तथैवैनयायमेतत्पाप्मनो मूलं वृश्चति दक्षिणतो दक्षिणतऽउद्यामो हि वज्रोऽन्तरेण दक्षिणां दिश्यामुद्यामाय ह तमवकाशं करोति - ८.५.१.१३

सा या पुरस्तात्प्राणः सा । या पश्चादपानः सा प्राणेनैवतत्पुरस्तात्पाप्मानमपाहतापानेन पश्चात्तथैवैतद्यजमानः प्राणेनैव पुरस्तात्पाप्मानमपहतेऽपानेन पश्चात् - ८.५.१.१४

अथ ये अभितः । तौ बाहू स योऽस्याभितः पाप्मासीद्बाहुभ्यां तमपाहत तथैवैतद्यजमानो योऽस्याभितः पाप्मा भवति बाहुभ्यामेव तमपहते - ८.५.१.१५

अन्नं पुरीषवती । स योऽस्योपरिष्टात्पाप्मासीदन्नेन तमपाहत तथैवैतद्यजमानो योऽस्योपरिष्टात्पाप्मा भवत्यन्नेनैव तमपहते - ८.५.१.१६

स यद्ध वा एवंवित्प्राणिति । योऽस्य पुरस्तात्पाप्मा भवति तं तेनापहतेऽथ यदपानिति तेन तं यः पश्चादथ यद्बाहुभ्यां कर्म कुरुते तेन तं योऽभितोऽथ यदन्नमत्ति तेन तं य उपरिष्टात्सर्वदा ह वा एवंवित्पाप्मानमपहतेऽपि स्वपंस्तस्मादेवं विदुषः पापं न कीर्तयेन्नेदस्य पाप्माऽसानीति - ८.५.१.१७