शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ५/ब्राह्मणम् ३

विकिस्रोतः तः

८.५.३ अथैकोनत्रिंशत्स्तोमभागेष्टकोपधानम्

अथ स्तोमभागा उपदधाति । एतद्वै प्रजापतेरेतदन्नमिन्द्रोऽभ्यध्यायत्सोऽस्मादुदचिक्रमिषत्तमब्रवीत्कथोत्क्रामसि कथा मा जहासीति स वै मेऽस्यान्नस्य रसं प्रयच्छेति तेन वै मा सह प्रपद्यस्वेति तथेति तस्मा एतस्यान्नस्य रसं प्रायच्छत्तेनैनं सह प्रापद्यत - ८.५.३.१

स यः स प्रजापतिः । अयमेव स योऽयमग्निश्चीयतेऽथ यत्तदन्नमेतास्ताश्छन्दस्या अथ यः सोऽन्नस्य रस एतास्ता स्तोमभागा अथ यः स इन्द्रोऽसौ स आदित्यः स एष एव स्तोमो यद्धि किं च स्तुवत एतमेव तेन स्तुवन्ति तस्मा एतस्मै स्तोमायैतं भागं प्रायच्छत्तद्यदेतस्मै स्तोमायैतं भागं प्रायच्छत्तस्मात्स्तोमभागाः - ८.५.३.२

[१]रश्मिना सत्याय सत्यं जिन्वेति । एष वै रश्मिरन्नं रश्मिरेतं च तद्रसं च संधायात्मन्प्रपादयते प्रेतिना धर्मणा धर्मं जिन्वेत्येष वै प्रेतिरन्नं प्रेतिरेतं च तद्रसं च संधायात्मन्प्रपादयतेऽन्वित्या दिवा दिवं जिन्वेत्येष वा अन्वितिरन्नमन्वितिरेतं च तद्रसं च संधायात्मन्प्रपादयते तद्यद्यदेतदाह तच्च तद्रसं च संधायात्मन्प्रपादयतेऽमुनाऽदो जिन्वादोऽस्यमुष्मै त्वाऽधिपतिनोर्जोर्जं जिन्वेति त्रेधाविहितास्त्रेधाविहितं ह्यन्नम् - ८.५.३.३

यद्वेव स्तोमभागा उपदधाति । एतद्वै देवा विराजं चितिं चित्वा समारोहंस्तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना नाकमेव स्वर्गं लोकमपश्यंस्तमुपादधत स यः स नाकः स्वर्गो लोक एतास्ता स्तोमभागास्तद्यदेता उपदधाति नाकमेवैतत्स्वर्गं लोकमुपधत्ते - ८.५.३.४

तद्यास्तिस्रः प्रथमाः । अयं स लोको या द्वितीया अन्तरिक्षं तद्यास्तृतीया द्यौः सा याश्चतुर्थ्यः प्राची सा दिग्याः पञ्चम्यो दक्षिणा सा याः षष्ठ्यः प्रतीची सा याः सप्तम्य उदीची सा - ८.५.३.५

ता वा एताः । एकविंशतिरिष्टका इमे च लोका दिशश्चेमे च वै लोका दिशश्च प्रतिष्ठेमे च लोका दिशश्चैकविंशस्तस्मादाहुः प्रतिष्ठैकविंश इति - ८.५.३.६

अथ या अष्टाविष्टका अतियन्ति । साष्टाक्षरा गायत्री ब्रह्म गायत्री तद्यत्तद्ब्रह्मैतत्तद्यदेतन्मण्डलं तपति तदेतस्मिन्नेकविंशे प्रतिष्ठायां प्रतिष्ठितं तपति तस्मान्नावपद्यते - ८.५.३.७

तद्धैके । वेषश्रीः क्षत्राय क्षत्रं जिन्वेति त्रिंशत्तमीमुपदधति त्रिंशदक्षरा विराड्विराडेषा चितिरिति न तथा कुर्यादति ते रेचयन्त्येकविंशसम्पदमथो गायत्रीसम्पदमथो इन्द्रलोको हैष यैषा न्यूना विराडिन्द्राय ह त इन्द्रलोके द्विषन्तं भ्रातृव्यं प्रत्युद्यामिनं कुर्वन्तीन्द्रमिन्द्रलोकान्नुदन्ते यजमानो वै स्वे यज्ञ इन्द्रो यजमानाय ह ते यजमानलोके द्विषन्तं भ्रातृव्यं प्रत्युद्यामिनं कुर्वन्ति यजमानं यजमानलोकान्नुदन्ते यं वा एतमग्निमाहरन्त्येष एव यजमान आयतनेनैष उ एवात्र त्रिंशत्तमी - ८.५.३.८

  1. वा.सं. १५.६