शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ०५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ०५
वेदव्यासः
अध्यायः ०६ →

व्यास उवाच ।।
ये पापनिरता जीवा महानरकहेतवः ।।
भगवंस्तान्समाचक्ष्व ब्रह्मपुत्र नमोऽस्तु ते ।।१।।
सनत्कुमार उवाच ।।
ये पापनिरता जीवा महानरकहेतवः ।।
ते समासेन कथ्यंते सावधानतया शृणु ।।२।।।
परस्त्रीद्रव्यसंकल्पश्चेतसाऽनिष्टचिंतनम् ।।
अकार्याभिनिवेशश्च चतुर्द्धा कर्म मानसम् ।। ३ ।। तु. महाभारतम् अनुशासन १३.२
अविबद्धप्रलापत्वमसत्यं चाप्रियं च यत् ।।
परोक्षतश्च पैशुन्यं चतुर्द्धा कर्म वाचिकम् ।। ४ ।।
अभक्ष्यभक्षणं हिंसा मिथ्याकार्य्य निवेशनम् ।।
परस्वानामुपादानं चतुर्द्धा कर्म कायिकम् ।। ५ ।।
इत्येतद्वा दशविधं कर्म प्रोक्तं त्रिसाधनम् ।।
अस्य भेदान्पुनर्वक्ष्ये येषां फलमनंतकम् ।। ६ ।।
ये द्विषंति महादेवं संसारार्णवतारकम् ।।
सुमहत्पातकं तेषां निरयार्णवगामिनाम् ।। ७ ।।
ये शिवज्ञानवक्तारं निन्दंति च तपस्विनम् ।।
गुरून्पितॄनथोन्मत्तास्ते यांति निरयार्णवम् ।।८।।
शिवनिन्दा गुरोर्निन्दा शिवज्ञानस्य दूषणम् ।।
देवद्रव्यापहरणं द्विजद्रव्यविनाशनम् ।। ९ ।।
हरंति ये च संमूढाश्शिवज्ञानस्य पुस्तकम् ।।
महांति पातकान्याहुरनन्तफलदानि षट् ।।5.5.१०।।
नाभिनन्दंति ये दृष्ट्वा शिवपूजां प्रकल्पिताम् ।।
न नमंत्यर्चितं दृष्ट्वा शिवलिंगं स्तुवंति न ।। ११ ।।
यथेष्टचेष्टा निश्शंकास्संतिष्ठंते रमंति च ।।
उपचारविनिर्मुक्ताश्शिवाग्रे गुरुसन्निधौ ।।१२।।
स्थानसंस्कारपूजां च ये न कुर्वंति पर्वसु ।।
विधिवद्वा गुरूणां च कर्म्मयोगव्यवस्थिताः ।। १३ ।।
ये त्यजंति शिवाचारं शिवभक्तान्द्विषंति च ।।
असंपूज्य शिवज्ञानं येऽधीयंते लिखंति च ।। १४ ।।
अन्यायतः प्रयच्छंति शृण्वन्त्युच्चारयंति च ।।
विक्रीडंति च लोभेन कुज्ञाननियमेन च ।। १५ ।।
असंस्कृतप्रदेशेषु यथेष्टं स्वापयंति च ।।
शिवज्ञानकथाऽऽक्षेपं यः कृत्वान्यत्प्रभाषते ।। १६ ।।
न ब्रवीति च यः सत्यं न प्रदानं करोति च ।।
अशुचिर्वाऽशुचिस्थाने यः प्रवक्ति शृणोति च ।। १७ ।।
गुरुपूजामकृत्वैव यश्शास्त्रं श्रोतुमिच्छति ।।
न करोति च शुश्रूषामाज्ञां च भक्तिभावतः ।। १८ ।।
नाभिनन्दंति तद्वाक्यमुत्तरं च प्रयच्छति ।।
गुरुकर्मण्यसाध्यं यत्तदुपेक्षां करोति च ।। १९ ।।
गुरुमार्त्तमशक्तं च विदेशं प्रस्थितं तथा ।।
वैरिभिः परिभूतं वा यस्संत्यजति पापकृत् ।। 5.5.२० ।।
तद्भार्य्यापुत्रमित्रेषु यश्चावज्ञां करोति च ।।
एवं सुवाचकस्यापि गुरोर्धर्मानुदर्शिनः ।। २१ ।।
एतानि खलु सर्वाणि कर्माणि मुनिसत्तम ।।
सुमहत्पातकान्याहुश्शिवनिन्दासमानि च ।। २२ ।।
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।।
महापातकिनस्त्वेते तत्संयोगी च पंचमः ।।२३।।
क्रोधाल्लोभाद्भयाद्द्वेषाद्ब्राह्मणस्य वधे तु यः ।।
मर्मांतिकं महादोषमुक्त्वा स ब्रह्महा भवेत् ।।२४।।
ब्राह्मणं यः समाहूय दत्त्वा यश्चाददाति च ।।
निर्द्दोषं दूषयेद्यस्तु स नरो ब्रह्महा भवेत् ।। २५ ।।
यश्च विद्याभिमानेन निस्तेजयति सुद्विजम् ।।
उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः ।। २६ ।।
मिथ्यागुणैर्य आत्मानं नयत्युत्कर्षतां बलात् ।।
गुणानपि निरुद्वास्य स च वै ब्रह्महा भवेत् ।।२७।।
गवां वृषाभिभूतानां द्विजानां गुरुपूर्वकम् ।।
यस्समाचरते विप्र तमाहुर्ब्रह्मघातकम् ।।२८।।
देवद्विजगवां भूमिं प्रदत्तां हरते तु यः ।।
प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ।। ।। २९ ।।
देवद्विजस्वहरणमन्यायेनार्जितं तु यत् ।।
ब्रह्महत्यासमं ज्ञेयं पातकं नात्र संशयः ।। 5.5.३० ।।
अधीत्य यो द्विजो वेदं ब्रह्मज्ञानं शिवात्मकम् ।।
यदि त्यजति यो मूढः सुरापानस्य तत्समम् ।। ३१ ।।
यत्किंचिद्धि व्रतं गृह्य नियमं यजनं तथा ।।
संत्यागः पञ्चयज्ञानां सुरापानस्य तत्समम् ।।३२।।
पितृमातृपरित्यागः कूटसाक्ष्यं द्विजानृतम् ।।
आमिषं शिवभक्तानामभक्ष्यस्य च भक्षणम् ।।३३।।
वने निरपराधानां प्राणिनां चापघातनम् ।।
द्विजार्थं प्रक्षिपेत्साधुर्न धर्मार्थं नियोजयेत् ।। ३४ ।।
गवां मार्गे वने ग्रामे यैश्चैवाग्निः प्रदीयते ।।
इति पापानि घोराणि ब्रह्महत्यासमानि च ।। ३५ ।।
दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम् ।।
गोभूरजतवस्त्राणामौषधीनां रसस्य च ।।३६।।
चन्दनागरुकर्पूरकस्तूरीपट्टवाससाम्।।
विक्रयस्त्वविपत्तौ यः कृतो ज्ञानाद् द्विजातिभिः ।। ३७ ।।
हस्तन्यासापहरणं रुक्मस्तेयसमं स्मृतम् ।।
कन्यानां वरयोग्यानामदानं सदृशे वरे ।।३८।।
पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ।।
कुमारीसाहसं घोरमद्यपस्त्रीनिषेवणम् ।। ३९ ।।
सवर्णायाश्च गमनं गुरुभार्य्यासमं स्मृतम् ।।
महापापानि चोक्तानि शृणु त्वमुपपातकम् ।।5.5.४०।।
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां महापातकवर्णनं नाम पंचमोऽध्यायः ।।५।।