शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ०४
वेदव्यासः
अध्यायः ०५ →

मुनय ऊचुः ।।
ताततात महाभाग धन्यस्त्वं हि महामते ।।
अद्भुतेयं कथा शंभोः श्राविता परभक्तिदा ।।१।।
पुनर्ब्रूहि कथां शंभोर्व्यास प्रश्नानुसारतः ।।
सर्वज्ञस्त्वं व्यासशिष्यः शिवतत्त्वविचक्षणः ।। २ ।।
सूत उवाच ।।
एवमेव गुरुर्व्यासः पृष्टवान्मेऽजसंभवम् ।।
सनत्कुमारं सर्वज्ञं शिवभक्तं मुनीश्वरम् ।।३।।
व्यास उवाच ।।
सनत्कुमार सर्वज्ञ श्रावितेयं शुभा कधा ।।
शंकरस्य महेशस्य नानालीलाविहारिणः ।।४।।
पुनर्ब्रूहि महादेव महिमानं विशेषतः ।।
श्रद्धा च महती श्रोतुं मम तात प्रवर्द्धते ।।५।।
महिम्ना येन शंभोस्तु येये लोके विमोहिताः ।।
मायया ज्ञानमाहृत्य नानालीलाविहारिणः ।। ६ ।।
।। सनत्कुमार उवाच ।।
शृणु व्यास महाबुद्धे शांकरीं सुखदां कथाम् ।।
तस्याः श्रवणमात्रेण शिवे भक्तिः प्रजायते ।।७।।
शिवस्सर्वेश्वरो देवस्सर्वात्मा सर्वदर्शनः ।।
महिम्ना तस्य सर्वं हि व्याप्तं च सकलं जगत्।।८।।
शिवस्यैव परा मूर्तिर्ब्रह्मविष्ण्वीश्वरात्मिका ।।
सर्वभूतात्मभूताख्या त्रिलिंगा लिंगरूपिणी।।९।।
देवानां योनयश्चाष्टौ मानुषी नवमी च या।।
तिरश्चां योनयः पंच भवंत्येवं चतुर्द्दश।।5.4.१०।।
भूता वा वर्तमाना वा भविष्याश्चैव सर्वश।।
शिवात्सर्वे प्रवर्तंते लीयंते वृद्धिमागताः।। ११।।
ब्रह्मेन्द्रोपेन्द्रचन्द्राणां देवदानवभोगिनाम्।।
गंधर्वाणां मनुष्याणामन्येषां वापि सर्वशः।।१२।।
बंधुर्मित्रमथाचार्य्यो रक्षन्नेताऽर्थवान्गुरुः।।
कल्पद्रुमोऽथ वा भ्राता पिता माता शिवो मतः।।१३।।
शिवस्सर्वमयः पुंसां स्वयं वेद्यः परात्परः।।
वक्तुं न शक्यते यश्च परं चानु परं च यत्।।१४।।
तन्माया परमा दिव्या सर्वत्र व्यापिनी मुने।।
तदधीनं जगत्सर्वं सदेवासुरमानुषम्।।१५।।
कामेन स्वसहायेन प्रबलेन मनोभुवा।।
सर्वः प्रधर्षितो वीरो विष्ण्वादिः प्रबलोऽपि हि ।।१६ ।।
शिवमायाप्रभावेणाभूद्धरिः काममोहितः ।।
परस्त्रीधर्षणं चक्रे बहुवारं मुनीश्वर ।।१७।।
इन्द्रस्त्रिदशपो भूत्वा गौतमस्त्रीविमोहितः ।।
पापं चकार दुष्टात्मा शापं प्राप मुनेस्तदा ।। १८ ।।
पावकोऽपि जगच्छ्रेष्ठो मोहितश्शिवमायया ।।
कामाधीनः कृतो गर्वात्ततस्तेनैव चोद्धृतः ।। १९ ।।
जगत्प्राणोऽपि गर्वेण मोहितश्शिवमायया ।।
कामेन निर्जितो व्यासश्चक्रेऽन्यस्त्रीरतिं पुरा ।। 5.4.२० ।।
 चण्डरश्मिस्तु मार्तण्डो मोहितश्शिवमायया ।।
कामाकुलो बभूवाशु दृष्ट्वाश्वीं हयरूपधृक् ।।२१।।
चन्द्रश्च मोहितश्शम्भोर्मायया कामसंकुलः ।।
गुरुपत्नीं जहाराथ युतस्तेनैव चोद्धृतः ।। २२ ।।
पूर्वं तु मित्रावरुणौ घोरे तपसि संस्थितौ ।।
मोहितौ तावपि मुनी शिवमायाविमोहितौ ।। २३ ।।
उर्वशीं तरुणीं दृष्ट्वा कामुको संबभूवतुः ।
मित्रः कुम्भे जहौ रेतो वरुणोऽपि तथा जले ।। २४ ।।
ततः कुम्भात्समुत्पन्नो वसिष्ठो मित्रसंभवः ।।
अगस्त्यो वरुणाज्जातो वडवाग्निसमद्युतिः ।।२५।।
दक्षश्च मोहितश्शंभोर्मायया ब्रह्मणस्सुतः ।।
भ्रातृभिस्स भगिन्यां वै भोक्तुकामोऽभवत्पुरा ।। २६ ।।
ब्रह्मा च बहुवारं हि मोहितश्शिवमायया ।।
अभवद्भोक्तुकामश्च स्वसुतायां परासु च ।। २७ ।।
च्यवनोऽपि महायोगी मोहितश्शिवमायया ।।
सुकन्यया विजह्रे स कामासक्तो बभूव ह ।।२८।।
कश्यपः शिवमायातो मोहितः कामसंकुलः ।।
ययाचे कन्यकां मोहाद्धन्वनो नृपतेः पुरा ।। २९ ।।
गरुडः शांडिलीं कन्यां नेतुकामस्सुमोहितः ।।
विज्ञातस्तु तया सद्यो दग्धपक्षो बभूव ह ।।5.4.३०।।
विभांडको मुनिर्नारीं दृष्ट्वा कामवशं गतः।।
ऋष्यशृङ्गः सुतस्तस्य मृग्यां जातश्शिवाज्ञया।।३१।।
गौतमश्च मुनिश्शंभोर्मायामोहितमानसः।।
दृष्ट्वा शारद्वतीं नग्नां रराम क्षुभितस्तया ।। ३२ ।।
रेतः स्कन्नं दधार स्वं द्रोण्यां चैव स तापसः ।।
तस्माच्च कलशाज्जातो द्रोणश्शस्त्रभृतां वरः।।३३।।
पराशरो महायोगी मोहितश्शिवमायया ।।
मत्स्योदर्या च चिक्रीडे कुमार्या दाशकन्यया ।। ३४ ।।
विश्वमित्रो बभूवाथ मोहितश्शिवमायया ।।
रेमे मेनकया व्यास वने कामवशं गतः ।।३५।।
वसिष्ठेन विरोधं तु कृतवान्नष्टचेतनः ।।
पुनः शिवप्रासादाच्च ब्राह्मणोऽभूत्स एव वै ।। ३६ ।।
रावणो वैश्रवाः कामी बभूव शिवमायया ।।
सीतां जह्रे कुबुद्धिस्तु मोहितो मृत्युमाप च ।।३७।।
बृहस्पतिर्मुनिवरो मोहितश्शिवमायया ।।
भ्रातृपत्न्या वशी रेमे भरद्वाजस्ततोऽभवत् ।।३८।।
इति मायाप्रभावो हि शंकरस्य महात्मनः ।।
वर्णितस्ते मया व्यास किमन्यच्छ्रोतुमिच्छसि ।।३९।।
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां शिवमायाप्रभाववर्णनं नाम चतुर्थो ऽध्यायः ।।४।।