शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ०३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ०३
वेदव्यासः
अध्यायः ०४ →

।। सनत्कुमार उवाच ।।
एतच्छ्रुत्वा वचस्तस्य सोब्रवीत्तं महामुनिम्।।
विस्मयं परमं गत्वोपमन्युं शांतमानसम् ।। १ ।।
वासुदेव उवाच ।।
धन्यस्त्वमसि विप्रेन्द्र कस्त्वां स्तोतुमलं कृती ।।
यस्य देवादिदेवस्ते सान्निध्यं कुरुते श्रमे ।। २ ।।
दर्शनं मुनिशार्दूल दद्यात्स भगवाञ्छिवः ।।
अपि तावन्ममाप्येवं प्रसादं वा करोत्वसौ । ३ ।।
उपमन्युरुवाच ।।
अचिरेणैव कालेन महादेवं न संशयः ।।
तस्यैव कृपया त्वं वै द्रक्ष्यसे पुरुषोत्तम ।। ४ ।।
षोडशे मासि सुवरान् प्राप्स्यसि त्वं महेश्वरात् ।।
सपत्नीकात्कथं नो दास्यते देवो वरान्हरे ।।५।।
पूज्योसि दैवतैस्सर्वैः श्लाघनीयस्सदा गुणैः ।।
जाप्यं तेऽहं प्रवक्ष्यामि श्रद्दधानाय चाच्युत ।। ६ ।।
तेन जपप्रभावेण सत्यं द्रक्ष्यसि शंकरम् ।।
आत्मतुल्यबलं पुत्रं लभिष्यसि महेश्वरात् ।। ७ ।।
जपो नमश्शिवायेति मंत्रराजमिमं हरे ।।
सर्वकामप्रदं दिव्यं भुक्तिमुक्तिप्रदायकम् ।। ८ ।।
।। सनत्कुमार उवाच ।।
एवं कथयतस्तस्य महादेवाश्रिताः कथाः ।।
दिनान्यष्टौ प्रयातानि मुहूर्तमिव तापस ।।९।।
नवमे तु दिने प्राप्ते मुनिना स च दीक्षितः ।।
मंत्रमध्यापितं शार्वमाथर्वशिरसं महत् ।। 5.3.१० ।।
जटी मुण्डी च सद्योऽसौ बभूव सुसमाहितः ।।
पादांगुष्ठोद्धृततनुस्तेपे चोर्द्ध्वभुजस्तथा ।। ११ ।।
संप्राप्ते षोडशे मासि संतुष्टः परमेश्वरः ।।
पार्वत्या सहितश्शंभुर्ददौ कृष्णाय दर्शनम् ।। १२ ।।
पार्वत्या सहितं देवं त्रिनेत्रं चन्द्रशेखरम् ।।
ब्रह्माद्यैस्स्तूयमानं तु पूजितं सिद्धकोटिभिः ।। १३ ।।
दिव्यमाल्याम्बरधरं भक्तिनम्रैस्सुरासुरैः ।।
प्रणतं च विशेषेण नानाभूषणभूषितम् ।। १४ ।।
सर्वाश्चर्यमयं कांतं महेशमजमव्ययम् ।।
नानागणान्वितं तुष्टं पुत्राभ्यां संयुतं प्रभुम् ।। १५ ।।
श्रीकृष्णः प्रांजलिर्दृष्ट्वा विस्मयोत्फुल्ललोचनः ।।
ईदृशं शंकरं प्रीतः प्रणनाम महोत्सवः ।। १६ ।।
नानाविधैः स्तुतिपदैर्वाङ्मयेनार्चयत्तदा ।।
सहस्रनाम्ना देवेशं तुष्टाव नतकंधरः ।। १७ ।।
ततो देवास्सगंधर्वा विद्याधरमहोरगाः ।।
मुमुचुः पुष्पवृष्टिं च साधुवादान्मनोनुगान् ।। १८ ।।
पार्वत्याश्च मुखं दृष्ट्वा भगवान्भक्तवत्सलः ।।
उवाच केशवं तुष्टो रुद्रश्चाथ बिडौजसा ।। १९ ।।
श्रीमहादेव उवाच ।।
कृष्णं जानामि भक्तं त्वां मयि नित्यं दृढव्रतम् ।।
वृणीष्व त्वं वरान्मत्तः पुण्यांस्त्रैलोक्यदुर्लभान् ।। 5.3.२० ।।
।। सनत्कुमार उवाच ।।
तस्य तद्वचनं श्रुत्वा कृष्णः प्रांजलिरादरात् ।।
प्राह सर्वेश्वरं शम्भुं सुप्रणम्य पुनः पुनः ।। २१ ।।
।। कृष्ण उवाच ।।
देवदेव महादेव याचेऽहं ह्युत्तमान्वरान् ।।
त्वत्तोऽष्टप्रमितान्नाथ त्वयोद्दिष्टान्महेश्वर ।। २२ ।।
तव धर्म्मे मतिर्नित्यं यशश्चाप्रचलं महत् ।।
त्वत्सामीप्यं स्थिरा भक्तिस्त्वयि नित्यं ममास्त्विति ।। २३ ।।
पुत्राणि च दशाद्यानां पुत्राणां मम संतु वै ।।
वध्याश्च रिपवस्सर्वे संग्रामे बलदर्पिताः ।। २४ ।।
अपमानो भवेन्नैव क्वचिन्मे शत्रुतः प्रभो ।।
योगिनामपि सर्वेषां भवेयमतिवल्लभः ।।२५।।
इत्यष्टौ सुवरान्देहि देवदेव नमोऽस्तु ते ।।
सर्वेश्वरस्त्वमेवासि मत्प्रभुश्च विशेषतः ।। २६ ।।
सनत्कुमार उवाच ।।
तस्य तद्वचनं श्रुत्वा तमाह भगवान्भवः ।।
सर्वं भविष्यतीत्येवं पुनस्स प्राह शूलधृक् ।। २७ ।।
साम्बो नाम महावीर्यः पुत्रस्ते भविता बली।।
घोरसंवर्तकादित्यश्शप्तो मुनिभिरेव च ।।२८।।
मानुषो भवितासीति स ते पुत्रो भवि ष्यति ।।
यद्यच्च प्रार्थितं किंचित्तत्सर्वं च लभस्व वै ।। २९ ।।
सनत्कुमार उवाच ।।
एवं लब्ध्वा वरान्सर्वाञ्छ्रीकृष्णः परमेश्वरात् ।।
नानाविधाभिर्बह्वीभिस्स्तुतिभिस्समतोषयत् ।।5.3.३०।।
तमाहाथ शिवा तुष्टा पार्वती भक्तवत्सला।।
वासुदेवं महात्मानं शंभुभक्तं तपस्विनम् ।। ३१ ।।
।। पार्वत्युवाच ।।
वासुदेव महाबुद्धे कृष्ण तुष्टास्मि तेऽनघ ।।
गृहाण मत्तश्च वरान्मनोज्ञान्भुवि दुर्लभान् ।।३२।।
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्याः पार्वत्यास्स यदूद्वहः ।।
उवाच सुप्रसन्नात्मा भक्तियुक्तेन चेतसा ।। ३३ ।।
श्रीकृष्ण उवाच ।।
देवि त्वं परितुष्टासि चेद्ददासि वरान्हि मे ।।
तपसाऽनेन सत्येन ब्राह्मणान्प्रति मास्मभूत् ।।३४।।
द्वेषः कदाचिद्भद्रं पूजयेयं द्विजान्सदा ।।
तुष्टौ च मातापितरौ भवेतां मम सर्वदा ।।३५।।
सर्वभूतेष्वानुकूल्यं भजेयं यत्र तत्रगः।।
कुले प्रभृति रुचिता ममास्तु तव दर्शनात् ।।३६।।
तर्पयेयं सुरेन्द्रादीन्देवान् यज्ञशतेन तु ।।
यतीनामतिथीनां च सहस्राण्यथ सर्वदा ।। ३७ ।। ।
भोजयेयं सदा गेहे श्रद्धापूतं तु भोजनम् ।।
बांधवैस्सह प्रीतिस्तु नित्यमस्तु सुनिर्वृतिः ।। ३८ ।।
देवि भार्य्यासहस्राणां भवेयं प्राणवल्लभः ।।
अक्षीणा काम्यता तासु प्रसादात्तव शांकरि ।। ३९ ।।
आसां च पितरो लोके भवेयुः सत्यावादिनः ।।
इत्याद्याः सुवरास्संतु प्रसादात्तव पार्वति ।। 5.3.४० ।।
।। सनत्कुमार उवाच ।।
तस्य तद्वचनं श्रुत्वा देवी तं चाह विस्मिता ।।
एवमस्त्विति भद्रं ते शाश्वती सर्वकामदा ।। ४१ ।।
तस्मिंस्तांश्च वरान्दत्त्वा पार्वतीपरमेश्वरौ ।।
तत्रैवांतश्च दधतुः कृत्वा कृष्णस्य सत्कृपाम् ।। ४२ ।।
कृष्णः कृतार्थमात्मानममन्यत मुनीश्वरः ।।
उपमन्योर्मुनराशु प्रापाश्रममनुत्तमम् ।। ४३ ।।
प्रणम्य शिरसा तत्र तं मुनिं केशिहा ततः ।।
तया वृत्तं च तस्मै तत्समाचष्टोपमन्यवे ।।४४।।
स च तं प्राह कोऽन्यस्स्याच्छर्वाद्देवाज्जनार्द्दन ।।
महादानपतिर्लोके क्रोधे वाऽतीव दुस्सहः । ४५ ।।
ज्ञाने तपसि वा शौर्य्ये स्थैर्य्ये वा पद एव च ।।
शृणु शंभोस्तु गोविन्द देवैश्वर्य्यं महायशाः ।। ४६ ।।
तच्छ्रुत्वा श्रद्धया युक्तोऽभवच्छंभोस्तु भक्तिमान् ।।
पप्रच्छ शिवमाहात्म्यं स तं प्राह मुनीश्वरः ।। ४७ ।।
उपमन्युरुवाच ।।
भगवाञ्शंकरः पूर्वं ब्रह्मलोके महात्मना ।।
स्तुतो नामसहस्रेण दण्डिना ब्रह्मयोगिना ।। ४८ ।।
सांख्याः पठंति तद्गीतं विस्तीर्णं च निघंटवत्।।
दुर्ज्ञानं मानुषाणां तु स्तोत्रं तत्सर्वकामदम् ।।४९।।
स्मरन्नित्यं शंकरं त्वं गच्छ कृष्ण गृहं सुखी ।।
भविष्यसि सदा तात शिवभक्तगणाग्रणीः ।। 5.3.५० ।।
इत्युक्तस्तं नमस्कृत्य वासुदेवो मुनीश्वरम् ।।
मनसा संस्मरञ्शंभुं केशवो द्वारकां ययौ ।। ५१ ।।
सनत्कुमार उवाच ।।
एवं कृष्णस्समाराध्य शंकरं लोकशंकरम् ।।
कृतार्थोऽभून्मुनिश्रेष्ठ सर्वाजेयोऽभवत्तथा ।। ५२ ।।
तथा दाशरथी रामश्शिवमाराध्य भक्तितः ।।
कृतार्थोऽभून्मुनिश्रेष्ठ विजयी सर्वतोऽभवत् ।। ५३ ।।
तपस्तप्त्वाऽतिविपुलं पुरा रामो गिरौ मुने।।
शिवाद्धनुश्शरं चापं ज्ञानं वै परमुत्तमम् ।।५४।।
रावणं सगणं हत्वा सेतुं बद्ध्वांभसांनिधौ।।
सीतां प्राप्य गृहं यातो बुभुजे निखिलां महीम्।।५५।।
तथा च भार्गवो रामो ह्याराध्य तपसा विभुम्।।
निरीक्ष्य दुःखितश्शर्वात्पितरं क्षत्रियैर्हतम् ।।५६ ।।
तीक्ष्णं स परशुं लेभे निर्ददाह च तेन तान् ।।
त्रिस्सप्तकृत्वः क्षत्रांश्च प्रसन्नात्परमेश्वरात् ।।५७।।
अजेयश्चामरश्चैव सोऽद्यापि तपसांनिधिः ।।
लिंगार्चनरतो नित्यं दृश्यते सिद्धचारणैः ।। ५८ ।।
महेन्द्रपर्वते रामः स्थितस्तपसि तिष्ठति ।।
कल्पांते पुनरेवासावृषिस्थानमवाप्स्यति ।।५९।।
असितस्यानुजः पूर्वं पीडया कृतवांस्तपः ।।
मूलग्राहेण विश्वस्य देवलो नाम तापसः ।। 5.3.६० ।।
पुरन्दरेण शप्तस्तु तपस्वी यश्च सुस्थिरम् ।।
अधर्म्यं धर्ममल मल्लिंगमारध्य कामदम् ।। ६१ ।।
चाक्षुषस्य मनोः पुत्रो मृगोऽभूत्तु मरुस्थले ।।
वसिष्ठशापाद्गृत्समदो दण्डकारण्य एकलः ।।६२।।
हृदये संस्मन्भक्त्या प्रवणेन युतं शिवम् ।।
तस्मान्मृत्युमुखाकारो गणो मृगमुखोऽभवत् ।। ६३ ।।
अजरामरतां नीतस्तीर्त्वा शापं पुनश्च सः ।।
शंकरेण कृतः प्रीत्या नित्यं लम्बोदरानुगः ।। ६४ ।।
गार्ग्याय प्रददौ शर्वो मोक्षं च भुवि दुर्लभम् ।।
कामचारी महाक्षेत्रं कालज्ञानं महर्द्धिमत्।।६५।।
चतुष्पादं सरस्वत्याः पारंगत्वं च शाश्वतम् ।।
न तुल्यं च सहस्रं तु पुत्राणां प्रददौ शिवः ।।६६।।
वेदव्यासं तु योगीन्द्रं पुत्रं तुष्टः पिनाक धृक् ।।
पराशराय च ददौ जरामृत्युविवर्जितम् ।।६७।।
मांडव्यश्शंकरणैव जीवं दत्त्वा विसर्जितः।।
वर्षाणां दश लक्षाणि शूलाग्रा दवरोपितः ।। ६८ ।।
दरिद्रो ब्राह्मणः कश्चिन्निक्षिप्य गुरुवेश्मनि ।।
पुत्रं तु गालवं यश्च पूर्वमासीद्गृहाश्रमी ।। ६९ ।।
गुप्तो वा मुनिशालायां भिक्षुरायाति तद्गृहम् ।।
भार्य्यामुवाच यः कश्चिदवश्यं निर्धनो यतः।।5.3.७०।।
स तु वाच्यो भवत्या च न दृश्यंत इति प्रियः ।।
अतिथेरागतस्यापि किं दास्यामि गृहे वसन् ।। ७१ ।।
कदाचिदतिथिः कश्चित्क्षुत्तृषाक्षामतर्षितः ।।
तामुवाच स भर्ता ते क्व गतश्चेति तं च सा ।। ७२ ।।
प्राह भर्ता मदीयस्तु सांप्रतं न च दृश्यते ।।
स ऋषिस्तामुवाचेदं ज्ञात्वा दिव्येन चक्षुषा ।। ७३ ।।
गृहस्थितः प्रतिच्छन्नस्तत्रैव स मृतो द्विजः ।।
विश्वामित्रस्यनुज्ञातस्तत्पुत्रो गालवस्तथा ।। ७४ ।।
गृहमागत्य मातुस्स श्रुत्वा शापं सुदारुणम् ।।
आराध्य शंकरं देवं पूजां कृत्वा तु शांभवीम् ।। ७५ ।।
गृहादसौ विनिष्क्रांतस्संस्मरञ्शंकरं हृदा।।
अथ तं तनयं दृष्ट्वा पिता तं प्राह साञ्जलिम् ।। ७६ ।।
महादेवप्रसादाच्च कृतकृत्योऽस्मि कृत्यतः ।।
धनवान्पुत्रवांश्चैव मृतोऽहं जीवितः पुनः ।। ७७ ।।
इति वः कथितमशेषं नाहं शक्तः समासतो व्यासात् ।।
वक्तुं शंभोश्च गुणाञ्शेषस्यापि न मुखानि स्युः ।।७८।।
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कृष्णादिशिवभक्तोद्धारण शिवमाहात्म्यवर्णनंनाम तृतीयोऽध्यायः ।। ३ ।।