शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ०२
वेदव्यासः
अध्यायः ०३ →

सनत्कुमार उवाच ।।
इत्याकर्ण्य मुनेर्वाक्यमुपमन्योर्महात्मनः ।।
जातभक्तिर्महादेवे कृष्णः प्रोवाच तं मुनिम् ।। १ ।।
।। श्रीकृष्ण उवाच ।।
उपमन्यो मुने तात कृपां कुरु ममोपरि ।।
ये ये शिवं समाराध्य कामानापुश्च तान्वद ।। २ ।।
सनत्कुमार उवाच ।।
इत्याकर्ण्योपमन्युस्स मुनिश्शैववरो महान् ।।
कृष्णवाक्यं सुप्रशस्य प्रत्युवाच कृपानिधिः ।। ३ ।।
उपमन्युरुवाच।।
यैर्यैर्भवाराधनतः प्राप्तो हृत्काम एव हि ।।
तांस्तान्भक्तान्प्रवक्ष्यामि शृणु त्वं वै यदूद्वह ।। ४ ।।
शर्वात्सर्वामरैश्वर्य्यं हिरण्यकशिपुः पुरा ।।
वर्षाणां दशलक्षाणि सोऽलभच्चन्द्रशेखरात् ।। ५ ।।
तस्याऽथ पुत्रप्रवरो नन्दनो नाम विश्रुतः ।।
स च शर्ववरादिन्द्रं वर्षायुतमधोनयत्।।६।।
विष्णुचक्रं च तद्धोरं वज्रमाखण्डलस्य च ।।
शीर्णं पुराऽभवत्कृष्ण तदंगेषु महाहवे ।। ७ ।।
न शस्त्राणि वहंत्यंगे धर्मतस्तस्य धीमतः ।।
ग्रहस्यातिबलस्याजौ चक्रवज्रमुखान्यपि ।।८।।
अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा ।।
देवदत्तवरा जघ्नुरसुरेन्द्रास्सुरान्भृशम् ।।९।।
तुष्टो विद्युत्प्रभस्यापि त्रैलोक्येश्वरता मदात् ।।
शतवर्षसहस्राणि सर्वलोकेश्वरो भवः ।। 5.2.१० ।।
तथा पुत्रसहस्राणामयुतं च ददौ शिवः ।।
मम चानुचरो नित्यं भविष्यस्यब्रवीदिति ।।११।।
कुशद्वीपे शुभं राज्यमददाद्भगवान्भवः ।।
स तस्मै शङ्करः प्रीत्या वासुदेव प्रहृष्टधीः ।।१२।।
धात्रा सृष्टश्शतमखो दैत्यो वर्षशतं पुरा ।।
तपः कृत्वा सहस्रं तु पुत्राणामलभद्भवात् ।। १३ ।।
याज्ञवल्क्य इति ख्यातो गीतो वेदेषु वै मुनिः।।
आराध्य स महादेवं प्राप्तवाञ्ज्ञानमुत्तमम् ।।१४।।
वेदव्यासस्तु यो नाम्ना प्राप्तवानतुलं यशः।।
सोऽपि शंकरमाराध्य त्रिकालज्ञानमाप्तवान्।।१५।।
इन्द्रेण वालखिल्यास्ते परिभूतास्तु शङ्करात् ।।
लेभिरे सोमहर्तारं गरुडं सर्वदुर्जयम् ।।१६।।
आपः प्रनष्टाः सर्वाश्च पूर्वरोषात्कपर्द्दिनः ।।
शर्वं समकपालेन देवैरिष्ट्वा प्रवर्तितम् ।। १७।।
अत्रेर्भार्य्या चानसूया त्रीणि वर्षशतानि च ।।
मुशलेषु निराहारा सुप्त्वा शर्वात्ततस्सुतान् ।। १८ ।।
दत्तात्रेयं मुनिं लेभे चन्द्रं दुर्वाससं तथा ।।
गंगां प्रवर्तयामास चित्रकूटे पतिव्रता ।। १९ ।।
विकर्णश्च महादेवं तथा भक्तसुखावहम् ।।
प्रसाद्य महतीं सिद्धिमाप्तवान्मधुसूदन ।। 5.2.२० ।।
चित्रसेनो नृपश्शंभुं प्रसाद्य दृढभक्तिमान् ।।
समस्तनृपभीतिभ्योऽभयं प्रापातुलं च कम् ।।२१।।
श्रीकरो गोपिकासूनुर्नृपपूजाविलोकनात् ।।
जातभक्तिर्महादेवे परमां सिद्धिमाप्तवान् ।। २२ ।।
चित्राङ्गदो नृपसुतस्सीमन्तिन्याः पतिर्हरे ।।
शिवानुग्रहतो मग्नो यमुनायां मृतो न हि।।२३।।
स च तक्षालयं गत्वा तन्मैत्रीं प्राप्य सुव्रतः ।।
आयातः स्वगृहं प्रीतो नानाधनसमन्वितः ।।२४।।
सीमंतिनी प्रिया तस्य सोमव्रतपरायणा।।
शिवानुग्रहतः कृष्ण लेभे सौभाग्यमुत्तमम् ।। २५ ।।
तत्प्रभावाद्व्रते तस्मिन्नेको द्विजसुतः पुरा ।।
कश्चित्स्त्रीत्वं गतो लोभात्कृतदाराकृतिश्छलात् ।।२६।।
चंचुका पुंश्चली दुष्टा गोकर्णे द्विजतः पुरा ।।
श्रुत्वा धर्मकथां शंभोर्भक्त्या प्राप परां गतिम् ।। २७ ।।
स्वस्त्र्यनुग्रहतः पापी बिंदुगो चंचुकापतिः ।।
श्रुत्वा शिवपुराणं स सद्गतिं प्राप शांकरीम् ।। २८ ।।
पिंगला गणिका ख्याता मदराह्वो द्विजाधमः ।।
शैवमृषभमभ्यर्च्य लेभाते सद्गतिं च तौ ।। २९ ।।
महानन्दाभिधा कश्चिद्वेश्या शिवपदादृता ।।
दृढात्पणात्सुप्रसाद्य शिवं लेभे च सद्गतिम् ।। 5.2.३० ।।
कैकेयी द्विजबालाः च सादराह्वा शिवव्रता ।।
परमं हि सुखं प्राप शिवेशव्रतधारणात् ।। ३१ ।।
विमर्षणश्च नृपतिश्शिवभक्तिं विधाय वै ।।
गतिं लेभे परां कृष्ण शिवानुग्रहतः पुरा ।। ३२ ।।
दुर्जनश्च नृपः पापी बहुस्त्रीलंपटः खलः ।।
शिवभक्त्या शिवं प्राप निर्लिप्तः सर्वकर्मसु ।। ३३ ।।
सस्त्रीकश्शबरो नाम्ना शंकरश्च शिवव्रती ।।
चिताभस्मरतो भक्त्या लेभे तद्गतिमुत्तमाम् ।। ३४ ।।
सौमिनी नाम चाण्डाली संपूज्याज्ञानतो हि सा ।।
लेभे शैवीं गतिं कृष्ण शंकरानुग्रहात्परात् ।। ३५ ।।
महाकालाभिधो व्याधो किरातः परहिंसकः ।।
समभ्यर्च्य शिवं भक्त्या लेभे सद्गतिमुत्तमाम् ।। ३६ ।।
दुर्वासा मुनिशार्दूलश्शिवानुग्रहतः पुरा ।।
तस्तार स्वमतं लोके शिवभक्तिं विमुक्तिदाम्।।३७।।
कौशिकश्च समाराध्य शंकरं लोक शंकरम् ।।
ब्राह्मणोऽभूत्क्षत्रियश्च द्वितीय इव पद्मभूः ।।३६।।
शिवमभ्यर्च्य सद्भक्त्या विरंचिश्शैवसत्तमः ।।
अभूत्सर्गकरः कृष्ण सर्वलोकपितामहः ।।३९।।
मार्कण्डेयो मुनिवरश्चिरंजीवी महाप्रभुः।।
शिवभक्तवरः श्रीमाञ्शिवानुग्रहतो हरे ।।5.2.४०।।
देवेन्द्रो हि महाशैवस्त्रैलोक्यं बुभुजे पुरा।।
शिवानुग्रहतः कृष्ण सर्वदेवाधिपः प्रभुः ।।४१।।
बलिपुत्रो महाशैवश्शिवानुग्रहतो वशी।।
बाणो बभूव ब्रह्माण्डनायकस्सकलेश्वरः ।।४२।।
हरिश्शक्तिश्च सद्भक्त्या दधीचश्च महेश्वरः ।।
शिवानुग्रहतोऽभूवंस्तथा रामो हि शांकरः ।।४३।।
कणादो भार्गवश्चैव गुरुर्गौतम एव च ।।
शिवभक्त्या बभूवुस्ते महाप्रभव ईश्वरा ।। ४४ ।।
शाकल्यश्शंसितात्मा च नववर्षशातान्यपि ।।
भवमाराधयामास मनोयज्ञेन माधव।।४५।।
तुतोष भगवानाह ग्रंथकर्ता भविष्यसि।।
वत्साक्षय्या च ते कीर्तिस्त्रैलोक्ये प्रभविष्यति।।४६।।
अक्षयं च कुलं तेऽस्तु महर्षिभिरलंकृतम् ।।
भविष्यसि ऋषिश्रेष्ठ सूत्रकर्ता ततस्ततः।।४७।।
इत्येवं शंकरात्प्राप वरं मुनिवरस्स वै ।।
त्रैलोक्ये विततश्चासीत्पूज्यश्च यदुनन्दन ।।४८।।
सावर्णिरिति विख्यात ऋषिरासीत्कृते युगे ।।
इह तेन तपस्तप्तं षष्टिवर्षशतानि च ।। ४९ ।।
तमाह भगवान्रुद्रस्साक्षात्तुष्टोस्मि तेऽनघ ।।
ग्रंथकृल्लोकविख्यातो भवितास्यजरामरः ।। 5.2.५० ।।
एवंविधो महादेवः पुण्यपूर्वतरैस्ततः ।।
समर्च्चितश्शुभान्कामान्प्रददाति यथेप्सितान् ।। ५१ ।।
एकेनैव मुखेनाहं वक्तुं भगवतो गुणाः ।।
ये संति तान्न शक्नोमि ह्यपि वर्षशतैरपि ।। ५२ ।।
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां सनत्कुमारव्याससंवादे उपमन्यूपदेशो नाम द्वितीयोऽध्यायः ।। २ ।।