शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ०१

विकिस्रोतः तः
Jump to navigation Jump to search
शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ०१
वेदव्यासः
अध्यायः ०२ →

श्रीगणेशाय नमः ।।

श्रीगौरीशंकराभ्यां नमः ।।

अथ पञ्चम्युमासंहिता प्रारभ्यते ।।

यो धत्ते भुवनानि सप्त गुणवान्स्रष्टा रजस्संश्रयस्संहर्ता तमसान्वितो गुणवतीं मायामतीत्य स्थितः ।।
सत्यानन्दमनन्तबोधममलं ब्रह्मादिसंज्ञास्पदं नित्यं सत्त्वसमन्वयादधिगतं पूर्णं शिवं धीमहि ।।१।।
ऋषय ऊचुः ।।
सूतसूत महाप्राज्ञ व्यासशिष्यन मोऽस्तु ते ।।
चतुर्थी कोटिरुद्राख्या श्राविता संहिता त्वया ।। २ ।।
अथोमासंहितान्तःस्थ नानाख्यानसमन्वितम् ।।
ब्रूहि शंभोश्चरित्रं वै साम्बस्य परमात्मनः ।।३।।
सूत उवाच ।।
महर्षयश्शौनकाद्याः शृणुत प्रेमतः शुभम् ।।
शांकरं चरितं दिव्यं भुक्तिमुक्तिप्रदं परम् ।। ४ ।।
इतीदृशं पुण्यप्रश्नं पृष्टवान्मुनिसत्तमः ।।
व्यासस्सनत्कुमारं वै शैवं सच्चरितं जगौ ।। ५ ।।
।। सनत्कुमार उवाच ।।
वासुदेवाय यत्प्रोक्तमुपमन्युमहर्षिणा ।।
तदुच्यते मया व्यास चरितं हि महेशितुः ।। ६ ।।
पुरा पुत्रार्थमगमत्कैलासं शंकरालयम् ।।
वसुदेवसुतः कृष्णस्तपस्तप्तुं शिवस्य हि ।। ७ ।।
अत्रोपमन्युं संदृष्ट्वा तपंतं शृंग उत्तमे ।।
प्रणम्य भक्त्या स मुनिं पर्यपृच्छत्कृताञ्जलिः ।। ८ ।।
श्रीकृष्ण उवाच ।।
उपमन्यो महाप्राज्ञ शैवप्रवर सन्मते ।।
पुत्रार्थमगमं तप्तुं तपोऽत्र गिरिशस्य हि ।। ९ ।।
ब्रूहि शंकरमाहात्म्यं सदानन्दकरं मुने ।।
यच्छ्रुत्वा भक्तितः कुर्य्यां तप ऐश्वरमुत्तमम् ।। 5.1.१० ।।
।। सनत्कुमार उवाच ।।
इति श्रुत्वा वचस्तस्य वासुदेवस्य धीमतः ।।
प्रत्युवाच प्रसन्नात्मा ह्युपमन्युस्स्मरञ्छिवम् ।। ११ ।।
।। उपमन्युरुवाच ।।
शृणु कृष्ण महाशैव महिमानं महेशितुः ।।
यमद्राक्षमहं शंभोर्भक्तिवर्द्धनमुत्तमम् ।। १२ ।।
तपःस्थोऽहं समद्राक्षं शंकरं च तदायुधान् ।।
परिवारं समस्तं च विष्ण्वादीनमरादिकान् ।। १३ ।।
त्रिभिरंशैश्शोभमानमजस्रसुखमव्ययम्।।
एकपादं महादंष्ट्रं सज्वालकवलैर्मुखैः ।।१४।।
द्विसहस्रमयूखानां ज्योतिषाऽतिविराजितम् ।।
सर्वास्त्रप्रवराबाधमनेकाक्षं सहस्रपात् ।। १५ ।।
यश्च कल्पान्तसमये विश्वं संहरति ध्रुवम् ।।
नावध्यो यस्य च भवेत्त्रैलौक्ये सचराचरे ।। १६ ।।
महेश्वरभुजोत्सृष्टं त्रैलोक्यं सचराचरम् ।।
निर्ददाह द्रुतं कृत्स्नं निमेषार्द्धान्न संशयः ।। १७ ।।
तपःस्थो रुद्रपार्श्वस्थं दृष्टवानहमव्यम् ।।
गुह्यमस्त्रं परं चास्य न तुल्यमधिकं क्वचित् ।।१८।।
यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ।।
विजयाभिधमत्युग्रं सर्वशस्त्रास्त्रनाशकम् ।।१९।।
दारयेद्यन्महीं कृत्स्नां शोषयेद्यन्महोदधिम् ।।
पातयेदखिलं ज्योतिश्चक्रं यन्नात्र संशयः ।।5.1.२०।।
यौवनाश्वो हतो येन मांधाता सबलः पुरा ।।
चक्रवर्ती महातेजास्त्रैलोक्यविजयो नृपः ।।२१।।
दर्पाविष्टो हैहयश्च निः क्षिप्तो लवणासुरः ।।
शत्रुघ्नं नृपतिं युद्धे समाहूय समंततः ।।२२।।
तस्मिन्दैत्ये विनष्टे तु रुद्रहस्ते गतं तु यत्।।
तच्छूलमिति तीक्ष्णाग्रं संत्रासजननं महत् ।।२३।।
त्रिशिखां भृकुटीं कृत्वा तर्जयंतमिव स्थितम् ।।
विधूम्रानलसंकाशं बालसूर्यमिवोदितम् ।।२४।।
सूर्य्य हस्तमनिर्द्देश्यं पाशहस्तमिवांतकम्।।
परशुं तीक्ष्णधारं च सर्पाद्यैश्च विभूषितम्।।२५।।
कल्पान्तदहनाकारं तथा पुरुषविग्रहम्।।
यत्तद्भार्गवरामस्य क्षत्रियान्तकरं रणे ।।२६।।
रामो यद्बलमाश्रित्य शिवदत्तश्च वै पुरा ।।
त्रिःसप्तकृत्वो नक्षत्रं ददाह हृषितो मुनिः ।। २७ ।।
सुदर्शनं तथा चक्रं सहस्रवदनं विभुम् ।।
द्विसहस्रभुजं देवमद्राक्षं पुरुषाकृतिम् ।। २८ ।।
द्विसहस्रेक्षणं दीप्तं सहस्रचरणाकुलम् ।।
कोटिसूर्यप्रतीकाशं त्रैलोक्यदहनक्षमम् ।। २९ ।।
वज्रं महोज्ज्वलं तीक्ष्णं शतपर्वप्रनुत्तमम् ।।
महाधनुः पिनाकं च सतूणीरं महाद्युतिम् ।।5.1.३०।।
शक्तिं खङ्गं च पाशं च महादीप्तं समांकुशम् ।।
गदां च महतीं दिव्यामन्यान्यस्त्राणि दृष्टवान् ।।३१।।
तथा च लोकपालानामस्त्राण्येतानि यानि च ।।
अद्राक्षं तानि सर्वाणि भगवद्रुद्रपार्श्वतः ।। ३२ ।।
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः ।।
विमानं दिव्यमास्थाय हंसयुक्तं मनोनुगम् ।। ३३ ।।
वामपार्श्वे तु तस्यैव शंखचक्रगदाधरः ।।
वैनतेयं समास्थाय तथा नारायणः स्थितः ।। ३४ ।।
स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा ।।
शक्राद्या देवताश्चैव सर्व एव समं ययुः ।।३५।।
स्कंदश्शक्तिं समादाय मयूरस्थस्सघंटकः ।।
देव्यास्समीपे संतस्थौ द्वितीय इव पावकः ।। ३६ ।।
नंदी शूलं समादाय भवाग्रे समवस्थितः ।।
सर्वभूतगणाश्चैवं मातरो विविधाः स्थिताः ।। ३७ ।।
तेऽभिवाद्य महेशानं परिवार्य्य समंततः ।।
अस्तुवन्विविधैः स्तोत्रैर्महादेवं तदा सुराः ।।३८।।
यत्किंचित्तु जगत्यस्मिन्दृश्यते श्रूयतेऽथवा ।।
तत्सर्वं भगवत्पार्श्वे निरीक्ष्याहं सुविस्मितः ।।३९।।
सुमहद्धैर्य्यमालंब्य प्रांजलिर्विविधैः स्तवैः।।
परमानन्दसंमग्नोऽभूवं कृष्णाहमद्ध्वरे।।5.1.४०।।
संमुखे शंकरं दृष्ट्वा बाष्पगद्गदया गिरा ।।
अपूजयं सुविधिवदहं श्रद्धासमन्वितः।।४१।।
भगवानथ सुप्रीतश्शंकरः परमेश्वरः ।।
वाण्या मधुरया प्रीत्या मामाह प्रहसन्निव।।४२।।
न विचालयितुं शक्यो मया विप्र पुनः पुनः ।।
परीक्षितोसि भद्रं ते भवान्भक्त्यान्वितो दृढः।।४३।।
तस्मात्ते परितुष्टोऽस्मि वरं वरय सुव्रत ।।
दुर्लभं सर्वदेवेषु नादेयं विद्यते तव ।। ४४ ।।
स चाहं तद्वचः श्रुत्वा शंभोः सत्प्रेमसंयुतम्।।
देवं तं प्रांजलिर्भूत्वाऽब्रुवं भक्तानुकंपिनम् ।। ४५ ।।
।। उपमन्युरुवाच ।।
भगवन्यदि तुष्टोऽसि यदि भक्तिः स्थिरा मयि ।।
तेन सत्येन मे ज्ञानं त्रिकालविषयं भवेत् ।। ४६ ।।
प्रयच्छ भक्तिं विपुलां त्वयि चाव्यभिचारिणीम् ।।
सान्वयस्यापि नित्यं मे भूरि क्षीरौदनं भवेत् ।। ४७ ।।
ममास्तु तव सान्निध्यं नित्यं चैवाश्रमे विभो ।।
तव भक्तेषु सख्यं स्यादन्योन्येषु सदा भवेत् ।। ४८ ।।
एवमुक्तो मया शंभुर्विहस्य परमेश्वरः ।।
कृपादृष्ट्या निरीक्ष्याशु मां स प्राह यदूद्वह ।। ४९ ।।
।। श्रीशिव उवाच ।।
उपमन्यो मुने तात वर्ज्जितस्त्वं भविष्यसि ।।
जरामरणजैर्दोषैस्सर्वकामान्वितो भव ।। 5.1.५० ।।
मुनीनां पूजनीयश्च यशोधनसमन्वितः ।।
शीलरूपगुणैश्वर्यं मत्प्रसादात्पदेपदे ।। ५१ ।।
क्षीरोदसागरस्यैव सान्निध्यं पयसां निधेः ।।
तत्र ते भविता नित्यं यत्रयत्रेच्छसे मुने ।। ५२ ।।
अमृतात्मकं तु तत्क्षीरं यावत्संयाम्यते ततः ।।
इमं वैवस्वतं कल्पं पश्यसे बन्धुभिस्सह।।५३।।
त्वद्गोत्रं चाक्षयं चास्तु मत्प्रसादात्सदैव हि ।।
सान्निध्यमाश्रमे तेऽहं करिष्यामि महामुने ।। ५४ ।।
मद्भक्तिस्तु स्थिरा चास्तु सदा दास्यामि दर्शनम् ।।
स्मृतश्च भवता वत्स प्रियस्त्वं सर्वथा मम ।। ५५ ।।
यथाकामसुखं तिष्ठ नोत्कण्ठां कर्तुमर्हसि ।।
सर्वं प्रपूर्णतां यातु चिंतितं नात्र संशयः ।। ५६ ।।
उपमन्युरुवाच।।
एवमुक्त्वा स भगवान्सूर्य्यकोटिसमप्रभः।।
ममेशानो वरान्दत्त्वा तत्रैवान्तरधीयत।।५७।।
एवं दृष्टो मया कृष्ण परिवारसमन्वितः ।।
शंकरः परमेशानो भक्तिमुक्तिप्रदायकः।।५८।।
शंभुना परमेशेन यदुक्तं तेन धीमता।।
तदवाप्तं च मे सर्वं देवदेवसमाधिना।।५९।।
प्रत्यक्षं चैव तै जातान्गन्धर्वाप्सरसस्तथा।।
ऋषीन्विद्याधरांश्चैव पश्य सिद्धान्व्यवस्थितान्।।5.1.६०।।
पश्य वृक्षान्मनोरम्यान्स्निग्धपत्रान्सुगंधिनः।।
सर्वर्तुकुसुमैर्युक्तान्सदापुष्पफलन्वितान्।।६१।।
सर्वमेतन्महाबाहो शंकरस्य महात्मनः ।।
प्रसादाद्देवदेवस्य विश्वं भावसमन्वितम।।६२।।
ममास्ति त्वखिलं ज्ञानं प्रसादाच्छूलपाणिनः ।।
भूतं भव्यं भविष्यं च सर्वं जानामि तत्त्वतः ।। ६३ ।।
तमहं दृष्टवान्देवमपि देवाः सुरेश्वराः ।।
यं न पश्यंत्यनाराध्य कोऽन्यो धन्यतरो मया ।। ६४ ।।
षड्विंशकमिति ख्यातं परं तत्त्वं सनातनम् ।।
एवं ध्यायंति विद्वांसौ महत्परममक्षरम् ।। ६५ ।।
सर्व तत्त्वविधानज्ञः सर्वतत्त्वार्थदर्शनः ।।
स एव भगवान्देवः प्रधानपुरुषेश्वरः ।।६६।।
यो निजाद्दक्षिणात्पार्श्वाद्ब्रह्माणं लोककारणम्।।
वामादप्यसृजद्विष्णुं लोकरक्षार्थमीश्वरः ।।६७।।
कल्पान्ते चैव संप्राप्तेऽसृजद्रुद्रं हृदः प्रभुः ।।
ततस्समहरत्कृत्स्नं जगत्स्थावरजंगमम् ।। ६८।।
युगांते सर्वभूतानि संवर्तक इवानलः ।।
कालो भूत्वा महादेवो ग्रसमानस्स तिष्ठति ।।६९।।
सर्वज्ञस्सर्वभूतात्मा सवर्भूतभवोद्भवः ।।
आस्ते सर्वगतो देवो दृश्यस्सर्वैश्च दैवतैः ।।5.1.७०।।
अतस्त्वं पुत्रलाभाय समाराधय शंकरम् ।।
शीघ्रं प्रसन्नो भविता शिवस्ते भक्तवत्सलः ।। ७१ ।।
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कृष्णोपमन्युसंवादे स्वगतिवर्णनं नाम प्रथमोऽध्यायः ।। १ ।।