सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ८/अध्यायः १

विकिस्रोतः तः

प्रथमा चितिः

ब्राह्मणम् १ पञ्चाशत्प्राणभृदिष्टकोपधानम्

१ पञ्चाशत्प्राणभृदिष्टकोपधानम् - तत्र प्रथमचितौ सार्थवादं प्राणभृतामुपधान विधानं, ताः पञ्चाशत्संख्याकाः प्राणभृतो दशदशोपधेया इत्यभिधानं, दशसंघातानां संख्यां विधाय तत्प्रशंसनम् , उपहितानां पशुशीर्षाणां समीपे तासामुपधानं विधाय तत्प्रशंसनं, प्राच्याद्यासु पञ्चसु दिक्षु तासामुपधानविधानं, प्राणभृदुपधानमनूद्य तस्य प्रकारान्तरेण प्रशंसनं, प्राच्यां दिशि उपधेयानां प्राणभृतामुपधाने दश मन्त्रान्विनियुज्य तेषां पक्षपक्षान्तरशः सोपपत्तिकमर्थविवरणं, दशानां पूर्वदिगुपधेयानां प्राणभृतामुपधानस्य पार्थक्यं विधाय तत्प्रशंसनं, सादनस्याप्युपधानवत्प्रसक्तं नानात्वं व्यावर्त्य व्यतिरेके बाधं च प्रदर्श्येष्टकायास्त्रिवृ. त्वविवरणं, दक्षिणस्यां दिश्युपधेयानां प्राणभृतां दशकस्योपधाने दश मन्त्रा. न्विनियुज्य तेषां व्याख्यानम् , उपधानस्य नानात्वं सादनस्य सकृत्त्वमिष्टकायास्त्रिवृत्वं च पूर्ववद्विधाय तत्प्रशंसनं चेत्यादि.


ब्राह्मणम् २

२ प्रतीच्यां दिश्युपधेयानां प्राणभृतां दशकस्योपधाने दश मन्त्रान्विनियुज्य तेषां व्याख्यानम्, उपधानस्य नानात्वं सादय सकृत्त्वमिष्टकास्त्रिवृत्त्वं च पूर्ववद्विधाय तत्प्रशंसनं, उत्तरस्यां दिश्युपधेयानां प्राणभृतां दशकस्योपधाने दश मन्त्रान्विनियुज्य तेषां व्याख्यानम् , उपधानस्य नानात्वं सादनस्य सकृत्त्वमिष्टकायास्त्रिवृत्त्वं च पूर्ववद्विधाय तत्प्रशसनं, मध्यभाग उपधेयानां प्राणभृतां दशकस्योपधाने दश मन्त्रान्विनियुज्य तेषां व्याख्यानं, उपधानस्य नानात्वं सादनस्य सकृत्त्वमिष्टकायास्त्रिवृत्त्वं च पूर्ववद्विधाय तत्प्रशंसनं, निरुक्तमन्त्रार्थजातस्यान्नरूपताप्रतिपादनं, दशसंख्यामनूद्य तद्रूपेणान्नरूपताप्रतिपादनं, सर्वत उपधानमनूद्य तत्प्रशंसनं, प्राणभृत्संज्ञानिर्वचनं चेत्यादि.


ब्राह्मणम् ३

३ तत्र प्राणस्वरूपं प्राणभृत्स्वरूपं च विशदयितुं ब्रह्मवादिनां प्रश्नोत्तराभिधानं, पुनः सर्वासां प्राणभृतां प्राजापत्यत्वविषये ब्रह्मवादिनां प्रश्नोत्तराभिधानं, मन्त्रगतानुपूर्व्या ऋक्सामग्रहाणां प्रतीयमानानन्तर्यस्याक्षेपसमाधानार्थम् ब्रह्मवादिनां प्रश्नोत्तराभिधानं, शस्त्रोपधानविषये ऋक्सामयोराधाराधेयभावलक्षणसम्बन्धविषये च ब्रह्मवादिनां प्रश्नो. त्तराभिधानं, प्रथमतस्त्रिषु मन्त्रेषु ख्यापितस्य पितापुत्रभावस्य प्रयोजननिरूपणं, एतासामुपधानमन्त्रेषु प्राणादिलिङ्गदर्शनात्तदुपजीवनेन तेषां दशकानां पृथक्संज्ञाकरणं, अत्र चरकाध्वर्यूणां मतमुपन्यस्य तन्निराकरणं, पूर्वदिशि प्राणभृतामुपधानानन्तरं दक्षिणां दिशं विहाय प्रतीच्यां दिशि कर्तव्यमिति सोपपत्तिकं विधानं, दक्षिणोत्तरदिशोरपि नैरन्तर्येण प्राणभृदुपधानं विधाय तत्प्रशंसनं, मध्ये उपधेयानां प्राणभृतां स्थानविशेषं विधाय तत्प्रशंसनं, सर्वत उपधानमनूद्य तत्प्रशंसनं, सर्वासां प्राणभृतामुपधाने धर्मविशेषं विधाय तत्प्रशंसनं, तासामुपहितानां परस्परसंस्पर्शं विधाय तत्प्रशंसनं चेति.


ब्राह्मणम् ४

४-तासां पुरुषशिरसः समीपे प्रागादिदिक्षूपधानं पूर्वपक्षीकृत्य तत्प्रतिषिद्ध्य च हिरण्मयपुरुषस्याभिप्राप्तिर्यथा भवति तथोपदध्यादिति सिद्धान्ततया निगमनम् , आग्नेयादिकोणदिग्भागेषु प्राणभृतां वक्ररीत्योपधानमाक्षिप्य तत्समाधाननिरूपणं, प्राणभृदुपधानस्य पशुत्वसम्पत्या प्रशंसनं, अन्तिममन्त्रे स्तोमद्वयपृष्ठद्वयप्रतिपादनस्य प्रश्नोत्तररूपेण प्रयोजनकथनं, प्रतीष्टकं कृत्स्नस्याग्नेः संस्कृतेः प्रश्नपूर्वकमुपपादनं, सुपर्णरूपस्य चित्यस्याग्नेः समञ्चनप्रसारणयोर्हेतुत्वेन प्राणभृदुपधानस्य प्रशंसनं, तत्र समञ्चनप्रसारणप्रतिपादकेन मन्त्रेणाभिमृशन्तीत्येकीयमतोपन्यासपूर्वकं समञ्चनप्रसारणयोर्वीर्यहेतुतयाऽवश्योत्पाद्यत्वाभिधानमभिमर्शनमन्त्राभिधानं च, एतदेकीयं मतं शाट्यायनेरप्यभिमतमित्यभिधानम् , अत्र विषये पक्षान्तरं प्रतिपाद्य तस्य दूषणम् , लोकम्पृणाख्ययोरिष्टकयोरुपधानविधानम्, ततः पुरीषनिवपनविधानं चेत्यादि.