शतपथब्राह्मणम्/काण्डम् ८/अध्यायः १/ब्राह्मणम् ३

विकिस्रोतः तः


८.१.३

तदाहुः । किं प्राणाः किं प्राणभृत इति प्राणा एव प्राणा अङ्गानि प्राणभृन्त्यङ्गानि हि प्राणान्बिभ्रति प्राणास्त्वेव प्राणा अन्नं प्राणभृदन्नं हि प्राणान्बिभर्ति - ८.१.३.१

तदाहुः । कथमस्यैताः सर्वाः प्राजापत्या भवन्तीति यदेव सर्वास्वाह प्रजापतिगृहीतया त्वयेत्येवमु हास्यैताः सर्वाः प्राजापत्या भवन्ति - ८.१.३.२

तदाहुः । यद्ग्रहाय गृहीताय स्तुवतेऽथ शंसत्यथ कस्मात्पुरस्ताद्ग्रहाणामृचश्च सामानि चोपदधातीति संस्था वै कर्मणोऽन्वीक्षितव्यऽर्चा वै प्रतिपदा ग्रहो गृह्यत ऋचि साम गीयते तदस्यैतद्यत्पुरस्ताद्ग्रहाणामृचश्च सामानि चोपदधात्यथ यदुपरिष्टाद्ग्रहाणां स्तुतशस्त्रे भवतस्तद्वस्यैतद्यदुपरिष्टाद्ग्रहाणां स्तोमांश्च पृष्ठानि चोपदधाति - ८.१.३.३

तदाहुः । यदेतत्त्रयं सह क्रियते ग्रह स्तोत्रं शस्त्रमथात्र ग्रहं चैव स्तोत्रं चोपदधाति कथमस्यात्रापि शस्त्रमुपहितं यद्वाव स्तोत्रं तच्छस्त्रं यासु ह्येव स्तुवते ता उ एवानुशंसत्येवमु हास्यात्रापि शस्त्रमुपहितं भवति - ८.१.३.४

तदाहुः । यद्यथा पितुः पुत्रमेवं त्रीणि प्रथमान्याहाथ कस्मादृक्सामयोः संक्रामतीति साम वा ऋचः पतिस्तद्यत्तत्रापि यथा पितुः पुत्रमेवं ब्रूयाद्यथा पतिं सन्तं पुत्रं ब्रूयात्तादृक्तत्तस्मादृक्सामयोः संक्रामति कस्मादु त्रिः संतनोतीति पितरं पुत्रं पौत्रं तांस्तत्संतनोति तस्मादु तेभ्य एक एव ददाति - ८.१.३.५

तद्याः पुरस्तादुपदधाति । ताः प्राणभृतोऽथ याः पश्चात्ताश्चक्षुर्भृतस्ता अपानभृतोऽथ या दक्षिणतस्ता मनोभृतस्ता उ व्यानभृतोऽथ या उत्तरतस्ताः श्रोत्रभृतस्ता उदानभृतोऽथ या मध्ये ता वाग्भृतस्ता उ समानभृतः - ८.१.३.६

तदु ह चरकाध्वर्यवः । अन्या एवापानभृतो व्यानभृत उदानभृतः समानभृतश्चक्षुर्भृतो मनोभृतः श्रोत्रभृतो वाग्भृत इत्युपदधति न तथा कुर्यादत्यहैव रेचयन्त्यत्रो एवैतानि सर्वाणि रूपाण्युपधीयन्ते - ८.१.३.७

स वै पुरस्तादुपधाय पश्चादुपदधाति । प्राणो हापानो भूत्वाङ्गुल्यग्रेभ्य इति संचरत्यपान उ ह प्राणो भूत्वाङ्गुल्यग्रेभ्य इति संचरति तद्यत्पुरस्तादुपधाय पश्चादुपदधात्येनावेवैतत्प्राणौ संतनोति संदधाति तस्मादेतौ प्राणौ संततौ संहितौ - ८.१.३.८

अथ दक्षिणत उपधायोत्तरत उपदधाति । व्यानो होदानो भूत्वाङ्गुल्यग्रेभ्य इति संचरत्युदान उ ह व्यानो भूत्वाङ्गुल्यग्रेभ्य इति संचरति तद्यद्दक्षिणत उपधायोत्तरत उपदधात्येतावेवैतत्प्राणौ संतनोति संदधाति तस्मादेतौ प्राणौ संततौ संहितौ - ८.१.३.९

अथ या मध्य उपदधाति । स प्राणस्ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेतत्प्राणं दधाति सर्वत उपदधाति सर्वत एवास्मिन्नेतत्प्राणं दधात्यथो एवं हैष गुदः प्राणः समन्तं नाभिं पर्यक्नो अनूचीश्च तिरश्चीश्चोपदधाति तस्मादिमेऽन्वञ्चश्च तिर्यञ्चश्चात्मन्प्राणाः संस्पृष्टा उपदधाति प्राणानेवैतत्संतनोति संदधाति तस्मादिमे प्राणाः संतताः संहिताः - ८.१.३.१०