शतपथब्राह्मणम्/काण्डम् ८/अध्यायः १/ब्राह्मणम् ४

विकिस्रोतः तः


८.१.४

ता हैके पुरुषमुपार्प्योपदधति । एष वै प्राणस्तमेता बिभ्रति यत्प्राणं बिभ्रति तस्मात्प्राणभृत इति न तथा कुर्यादेषोऽहैव प्राणो य एष हिरण्मयः पुरुषस्तस्य त्वयमात्मा यावदिदमभ्ययमग्निर्विहितस्तद्यद्धास्यैता अङ्गं नाभिप्राप्नुयुः प्राणो हास्य तदङ्गं नाभिप्राप्नुयाद्यदु वै प्राणोऽङ्गं नाभिप्राप्नोति शुष्यति वा वै तन्म्लायति वा तस्मादेनाः परिश्रित्स्वेवोपार्प्योपदध्यादथ या मध्य उपदधाति ताभिरस्यैष आत्मा पूर्णस्ता उ एवैतस्मादनन्तर्हिताः - ८.१.४.१

तदाहुः । यदयं पुरो भुवोऽयं दक्षिणा विश्वकर्मायं पश्चाद्विश्वव्यचा इदमुत्तरात्स्वरियमुपरि मतिरिति सम्प्रति दिशोऽभ्यनूच्यन्तेऽथ कस्मादेना अक्ष्णया देशेषूपदधातीति प्राणा वै प्राणभृतस्ता यत्सम्प्रति दिश उपदध्यात्प्रागयं हैवायं प्राणः संचरेदथ यदेना एवमभ्यनूक्ताः सतीरक्ष्णया देशेषूपदधाति तस्मादयं प्रागयं प्राणः सन्नक्ष्णया सर्वाण्यङ्गानि सर्वमात्मानमनुसंचरति (अक्ष्णया – वक्रगत्या – सायण) - ८.१.४.२

स एष पशुर्यदग्निः । सोऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्य याः पुरस्तादुपदधाति तौ बाहू अथ याः पश्चात्ते सक्थ्यावथ या मध्य उपदधाति स आत्मा ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यतो ह्ययमात्मा सर्वत उपदधाति सर्वतो ह्ययमात्मा - ८.१.४.३

तदाहुः । यत्पूर्वेषु गणेष्वेकैकं स्तोममेकैकं पृष्ठमुपदधात्यथ कस्मादत्र द्वौ स्तोमौ द्वे पृष्ठे उपदधातीत्यात्मा वा अस्यैष आत्मानं तदङ्गानां ज्येष्ठं वरिष्ठं वीर्यवत्तमं करोति तस्मादयमात्माङ्गानां ज्येष्ठो वरिष्ठो वीर्यवत्तमः - ८.१.४.४

तदाहुः । कथमस्यैषोऽग्निः सर्वः कृत्स्न इष्टकायामिष्टकायां संस्कृतो भवतीति मज्जा यजुरस्थीष्टका मांसं सादनं त्वक्सूददोहा लोम पुरीषस्य यजुरन्नम्पुरीषमेवमु हास्यैषोऽग्निः सर्वः कृत्स्न इष्टकायामिष्टकायां संस्कृतो भवति - ८.१.४.५

स एष सार्वायुषोऽग्निः । स यो हैतमेवं सार्वायुषमग्निं वेद सर्वं हैवायुरेति - ८.१.४.६

अथातः समञ्चनप्रसारणस्यैव । संचितं हैके समञ्चनप्रसारणेनेत्यभिमृशन्ति पशुरेष यदग्निर्यदा वै पशुरङ्गानि संचाञ्चति प्र च सारयत्यथ स तैर्वीर्यं करोति - ८.१.४.७

संवत्सरोऽसि परिवत्सरोऽसि । इदावत्सरोऽसीद्वत्सरोऽसि वत्सरोऽसि उषसस्ते कल्पन्तामहोरात्रास्ते कल्पन्तामर्धमासास्ते कल्पन्तां मासास्ते कल्पन्तामृतवस्ते कल्पन्तां संवत्सरस्ते कल्पतां प्रेत्या एत्यै सं चाञ्च प्र च सारय सुपर्णचिदसि तया देवतयाङ्गिरस्वद्ध्रुवः सीदेति - ८.१.४.८

अपि ह स्माह शाट्यायनिः । स्फोटतोर्हैकः पक्षयोरुपशुश्रावैतेनाभिमृष्टस्य तस्मादेनमेतेनाभ्येव मृशेदिति - ८.१.४.९

अथ ह स्माह स्वर्जिन्नाग्नजितः । नग्नजिद्वा गान्धारः प्राणो वै समञ्चनप्रसारणं यस्मिन्वा अङ्गे प्राणो भवति तत्सं चाञ्चति प्र च सारयति संचितमेवैनं बहिष्टादभ्यन्यात्तदस्मिन्प्राणं समञ्चनप्रसारणं दधाति तथा सं चाञ्चति प्र च सारयतीति तदहैव समञ्चनप्रसारणं यत्स तदुवाच राजन्यबन्धुरिव त्वेव तदुवाच यन्नु शतं कृत्वोऽथो सहस्रम्बहिष्टादभ्यन्युर्न वै तस्मिंस्ते प्राणं दध्युर्यो वा आत्मन्प्राणः स एव प्राणस्तद्यत्प्राणभृत उपदधाति तदस्मिन्प्राणं समञ्चनप्रसारणं दधाति तथा सं चाञ्चति प्र च सारयत्यथ लोकम्पृणे उपदधात्यस्यां स्रक्त्यां तयोरुपरिबन्धुः पुरीषं निवपति तस्योपरि बन्धुः - ८.१.४.१०

(इत्याहवनीयाग्निचित्यायां पञ्चचितिकायां प्रथमा चितिः)