शतपथब्राह्मणम्/काण्डम् ७/अध्यायः ५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

प्रथमं ब्राह्मणम् कूर्मेष्टकोपधानम्, उखेष्टकोपधानम्, उखोपरिहोमः

१ कूर्मेष्टकोपधानम्- तत्र कूर्मोपधानं विधाय तस्य रसात्मना प्रशंसनं, लोकरसत्वप्रणाल्या कूर्मस्य पृथिव्यादिलोकत्रयात्मत्वमभिधाय तस्यैव तच्छरीरे विविच्य प्रदर्शनं, विहितस्य कूर्मस्य सार्थवादं समन्त्रकं दधिमधुघृतैरभ्यञ्जनविधानम, अभ्यञ्जनमन्त्राणां छन्दः-संख्ये विधाय तत्स्तावकार्थवादातिदेशकथनं, कूर्म इति नाम्नः प्रवृत्तिनिमित्तमभिधाय कूर्मस्यादित्यात्मना प्रशंसनं कूर्मस्य पुरस्तात्प्रत्यगाषाढाया दक्षिणतोऽरत्निमात्रे प्रदेशे सोपपत्तिकमुपधानं विधाय तस्य कूर्मस्य प्राणात्मनाऽपि प्रशंसनं, वागात्मिकाया आषाढाया दक्षिणे भागे प्राणात्मकस्य कूर्मस्योपधानं सयुक्तिकमित्युपपादनं, कूर्मोपधाने मन्त्रत्रयं विधाय तत्राप्युपधानसमये मध्यमेन मन्त्रेण तच्चालनं विधाय च तेषां मन्त्राणां व्याख्यानम्, उपधानमन्त्राणां त्रित्वसंख्यामनूद्य तस्याः प्रशंसनम् , अभ्यञ्जनमन्त्राणामुपधानमन्त्राणां च संख्यायाः सम्भूय प्रशंसनं, कूर्मस्याधस्तादुपरिष्टाच्चावकास्थापनस्य सप्रयोजनमभिधानं कूर्मोपधानानन्तरमुलूखलमुसलयोरुपधानं विधाय तयोरन्नादत्वसाधनतया प्रशंसनम्, अनयोः स्थानविशेषं विधाय तत्प्रशंसनं, प्रकृते उलूखलमुसले प्रादेशमात्रे कर्तव्ये इत्ति सकारणमभिधानम्, अनयोर्वृक्षविशेषं विधाय तत्प्रशंसनं, विश्लिष्टावयवस्य प्रजापतेः प्राणमन्नमूर्जमस्मिन्नग्नौ प्रतिनिधातुमितिहासकथनं, उक्तेऽर्थे कस्यचिन्मन्त्रस्य संवादं प्रदर्श्य तन्मन्त्रस्य पादशो विभज्य व्याख्यानं, उदुम्बरोलूखलशब्दयोर्निर्वचनं, तत्रार्थवादेनोलूखलस्य शिरःसाधर्म्यं सम्पाद्य तद्द्वारा तस्याकारविशेषस्योपपादनं, तदुपसंहृत्य विहिते उलूखलमुसलयोरुपधाने मन्त्रं विनियुज्य तद्व्याख्यानं, उलूखलमुसलयोर्द्वित्वात्तदुपधानमन्त्रस्यापि द्विदैवत्यमुपपद्यत इति कथनम् , उलूखलमुसलयोः सादनं तु पृथक् पृथक् सकृच्च कर्तव्यमिति विधानं, पूर्ववत्सादनाधिवदनानुवदनम् ।
उखेष्टकोपधानम्--उलूखले उखाया उपधानं विधाय तस्य प्रशंसनं, उखायाः प्राजापत्यात्मकत्वेनोलूखले उपधानस्य प्रशंसनम् , उपशयानामोखाभेदे सति तत्प्रतिसन्धानार्थं प्रागवशेषिता मन्त्रसंस्कृता या मृत्तां चूर्णीकृत्योखायाः पुरोभागे निदध्यादिति निरूपणं, इष्टकोपधानप्रदेशे पक्वानामेवोपधानादुपशयायाश्चापक्वत्वात्कथमत्र तदुपधानमिति याज्ञिकाशंकामुत्थाप्य तस्याः पक्वत्वोपपादनपुरःसरं द्वेधोत्तरप्रदानेन समाधानम् , उखोपधाने मन्त्रद्वयं विनियुज्य तद्व्याख्यानम्,
उखोपरिहोमः--उपधानानन्तरमुखाया उपरिहोमः सकृद्गृहीतेन स्रुवस्थेनाज्येन द्वाभ्यामाग्नेयीभ्यामृग्भ्यां होतव्य इति विधानं, तयोर्युक्तवत्योर्ऋचोः प्रदर्शनं, उखायामग्नेः संवत्सरभरणपक्षेऽभिहोमो नियमेन न तूपस्थानं असंवत्सरभरणपक्षे अभिहोमो वोपस्थानं वेति विकल्प इति निरूपणं, चित्याग्नेः स्वयमातृष्णादिषु त्रयोदशस्विष्टकासु कृत्स्नपश्वाकारत्वं प्रतिपाद्यादित्यरूपत्वस्योर्ध्वचयनेन प्रतिपादनं, स्वयमातृण्णाद्यात्मकस्याग्नेः प्रदक्षिणावर्तनत्वविधानम्, प्रकारान्तरेणोलूखलमुसलयोरौत्तराधर्यत्वप्रशंसनं, सोपपत्तिक मुसलस्योलूखलदक्षिणभागे उपधानकथनम् , उक्तस्यैवाग्नेः पश्वाकारत्वस्य प्रकारान्तरेण दृढीकरणम् उक्तेऽर्थे लौकिकप्रमाणस्योपन्यसनं चेत्यादि.


द्वितीयं ब्राह्मणम् पञ्चपशुशीर्षेष्टकोपधानम्, पशूपरिहोमः, पञ्चदशापस्येष्टकोपधानं पञ्चछन्दस्येष्टकोपधानं च

२ पञ्चपशुशीर्षेष्टकोपधानम्--तत्र पशुशीर्षाणामुपधानं सार्थवादं विधाय तस्य स्थान विशेषविधानं, प्रकारान्तरेणाप्युखायामुपधानस्य प्रशंसनं, तेषां पशुशीर्षाणां श्रीरूपत्वेन प्रशंसनं, तत्रोपधाने कबन्धशिरसां सन्धानं भवतीति प्रदर्शनम् , उखायामुपधानं पुरस्तादारभ्य प्रत्यगपवर्गं कर्तव्यमिति सकारणमभिधानम् , उखायां पशुशीर्षाणामुपधाने प्रजापत्युदरेऽन्नं दधातीति दर्शयितुमाख्यायिकाकथनं, तेषु पशुशीर्षेषु सुवर्णशकलानां प्रक्षेपं विधाय तत्प्रशंसनं, सुवर्णशकलानां संख्याविशेषं विधाय तद्विषये केषाञ्चिन्मतेन पञ्चपशुपक्षवदेकपशुपक्षेऽपि पञ्चकृत्वः सप्तसप्त सुवर्णशकलान्प्रत्यस्येदिति साभिप्रायं पूर्वपक्षयित्वा तं प्रत्याख्याय च एकस्मिन्पशुपक्षे एकवारमेव सप्त सुवर्णशकलान्प्रत्यस्येदिति सिद्धान्ततया सयुक्तिकं निगमनं, तत्र प्रथमं मुखे सुवर्णशकलस्य प्रक्षेपं विधाय तत्र मंत्रं विनियुज्य तस्य पादशोव्याख्यानं, ततः क्रमेण दक्षिणसव्ययोर्नासापुटयोर्नेत्रयोः श्रोत्रयोश्च सुवर्णशकलप्रक्षेपं समन्त्रकं विधाय तेषां मन्त्राणां साभिप्रायं व्याख्यानम्, उपधानार्थं पुरुषशीर्षोद्ग्रहणस्य सप्रयोजनं समंत्रकं विधानं तन्मंत्रव्याख्यानं च, एतेषां पशूनामुपधानमनूद्य तत्र पुरुषस्य सकारणं प्राथम्यविधानं, पुरुषस्योपधानं मध्ये कर्तव्यमिति सप्रयोजनं विधानं, कस्य कुत्र पार्श्वे उपधानमिति विशेष जिज्ञासायां तद्विस्तरशोऽभिधानं, पुरुषोपधानस्य मध्यस्थानं विहितं तत्र विशेषाभिधानं, विहिते उपधाने मन्त्रं विनियुज्य तस्य पादशो विभज्य व्याख्यानम् , उत्तरतोऽश्वस्योपधानमनूद्य तत्र मंत्रं विधाय तव्याख्यानं, दक्षिणतो गोरुपधानमनूद्य तत्र स्तुतिवन्मंत्रं विधाय तद्व्याख्यानं, उत्तरतोऽश्वस्योपधानमनूद्य तत्र मंत्रं विधाय तद्व्याख्यानं, दक्षिणतो गोरुपधानमनूद्य तत्र स्तुतिवन्मन्त्रं विधाय तद्व्याख्यानं, . प्रकृतानां पशूनां नानात्वात्पृथगेवोपधानसादनाधिवदनानि कर्तव्यानीति विधानम् ,
पशूपरिहोमः--तत्रोपधानानन्तरं पुरुषशिरसि अभिहोमस्याज्यद्रव्यकस्य सप्रयोजनं विधानम् , अभिहोमे मंत्रं विनियुज्य तस्य पूर्वार्धेनैकाहुतिरपरार्धेनान्या द्वितीया. हुतिरित्येतत्सप्रयोजनं सकारणं प्रदर्श्य तन्मन्त्रस्य व्याख्यानं, अभिहोमानन्तरमुपहितानां पुरुषशीर्षप्रभृतीनां पशुशिरसामुत्सर्गनामकैर्मन्त्रैरुपस्थानस्य सप्रयोजनं विधानम्, अत्र पञ्चानामपि पशुशीर्षाणामुपधानानन्तरमुत्सर्गमन्त्रैरुपस्थानमिति स्वकीयं मतं पुनरत्रानुष्ठानक्रमे ऽपरमतेन किञ्चिद्वैषम्यमनूद्य तद्दूषयित्वा पुनरन्यमतेन प्रकारविशेषमनूद्य तस्यापि दूषणम् , अग्नेर्बहिर्देशे तत्रापि बहिर्वेदिशोकमुत्सृजेदिति सप्रकारकमभिधानम्, 'उत्सर्गमन्त्रैरुपस्थाने स्वाभिमतप्रकारं देशविशेषमध्वर्योरवस्थानविशेषं च प्रदर्श्योपधानक्रमेणैव पुरुषस्य शोकं पूर्वमुत्सृजेदित्यभिधाय च तत्र मन्त्रविशेषं विनियुज्य च तस्य पादशो विभज्य व्याख्यानम्, ततोऽश्वगौरव्यजानां शोकात्सर्गेषु क्रमेण मन्त्रान्विनियुज्य तेषां व्याख्यानं, ततोऽनुद्देश्यानां मयुप्रभृतीनां पशूनां शोकादेवोत्पत्तिं ब्राह्मणस्य तेषामभक्ष्यत्वं च प्रदर्श्य दिग्विशेषे तेषां निधानविधानम् , उपस्थानानन्तरमग्निसमीपमागत्य पुनरुपतिष्ठेतेति सकारणं विधानम् , उपस्थानमन्त्रश्चाग्नेयो गायत्रोऽनिरुक्तो यविष्ठपदयुक्तश्च भवेदित्यभिधायाग्नौ यविष्ठपदप्रवृत्तिनिमित्तं च दर्शयित्वा तन्मन्त्रव्याख्यानम् , पञ्चदशापस्येष्टकोफ्धानं पञ्चछन्दस्येष्टकोपधानञ्च--तत्रादौ उपस्थानानन्तरमग्निं पश्चाद्भागेनारुह्य स्वयमातृण्णां प्रदक्षिणीकृत्य गत्वा अपस्याख्या इष्टका उपदध्यादित्यभिधाय तत्प्रयोजनं दर्शयितुमेतासामबात्मकत्वोपवर्णनं, तासां पशुशिरः स्वव्यवधानेनोपधानमभिधायैकैकस्मिन्प्रदेशे पञ्चपञ्चोपदध्यादिति विधानम् , प्रतिदिशं पञ्चानामुपधाने विंशतिः सम्पद्यते तत्र याः पञ्चदश पूर्वा इष्टकास्ता अपस्या भवन्तीति सोपपत्तिकं प्रतिपाद्यापस्याभ्यः पञ्चदशभ्य उत्तराः : पञ्चेष्टका विद्यन्ते ताश्छन्दस्या भवन्तीति प्रतिपादनम्, छन्दस्यानामुपधानेन पशु शूत्क्रांतमांसप्रतिविधानम् भवतीति निरूपणम्, तासामप्यपस्यावदव्यव. धानेनोपधानाभिधानम्, तथैवापस्या अन्तराश्छन्दस्या बाह्या भवेयुरित्यभिधानम् , प्रकारान्तरेण पशूनां लोमसम्पत्तिमभिधाय त्वग्लोमसम्पादने उक्तं पक्षद्वयमप्यभिमतमिति कथनम् , प्रकारान्तरेणाप्यपस्यानामुपधानस्य प्रशंसनं, तासां पञ्चदशानामपस्यानामुपधाने क्रमेण " अपां त्वेमन्" इत्यादीन्पञ्चदश मन्त्रान्विधाय तेषां व्याख्यानं, तत्र सप्तममन्त्रार्थस्य श्लोकरूपप्रमाणोपन्यासेन दृढीकरणं, " गायत्रेण त्वा " इत्यादिभिः पञ्चभिः पञ्चभिर्मन्त्रैरुत्तरस्यां दिशि पञ्च छन्दस्या उपदध्यादिति विधानम् , आसामपस्यानामङ्गुल्यात्मकत्वमुपवर्ण्य तस्योपपादनं चेत्यादि.