शतपथब्राह्मणम्/काण्डम् ७/अध्यायः ५/प्रथमं ब्राह्मणम्

विकिस्रोतः तः

७.५.१ कूर्मेष्टकोपधानम्, उखेष्टकोपधानम्, उखोपरिहोमः

कूर्ममुपदधाति । रसो वै कूर्मो रसमेवैतदुपदधाति यो वै स एषां लोकानामप्सु प्रविद्धानां पराङ्रसोऽत्यक्षरत्स एष कूर्मस्तमेवैतदुपदधाति यावानु वै रसस्तावानात्मा स एष इम एव लोकाः - ७.५.१.१

तस्य यदधरं कपालम् । अयं स लोकस्तत्प्रतिष्ठितमिव भवति प्रतिष्ठित इव ह्ययं लोकोऽथ यदुत्तरं सा द्यौस्तद्व्यवगृहीतान्तमिव भवति व्यवगृहीतान्तेव हि द्यौरथ यदन्तरा तदन्तरिक्षं स एष इम एव लोका इमानेवैतल्लोकानुपदधाति - ७.५.१.२

तमभ्यनक्ति । दध्ना मधुना घृतेन दधि हैवास्य लोकस्य रूपं घृतमन्तरिक्षस्य मध्वमुष्य स्वेनैवैनमेतद्रूपेण समर्धयत्यथो दधि हैवास्य लोकस्य रसो घृतमन्तरिक्षस्य मध्वमुष्य स्वेनैवैनमेतद्रसेन समर्धयति - ७.५.१.३

मधु वाता ऋतायत इति । यां वै देवतामृगभ्यनूक्ता यां यजुः सैव देवता सऽर्क्सो देवता तद्यजुस्तद्धैतन्मध्वेवैष त्रिचो रसो वै मधु रसमेवास्मिन्नेतद्दधाति गायत्रीभिस्तिसृभिस्तस्योक्तो बन्धुः - ७.५.१.४

स यत्कूर्मो नाम । एतद्वै रूपं कृत्वा प्रजापतिः प्रजा असृजत यदसृजताकरोत्तद्यदकरोत्तस्मात्कूर्मः कश्यपो वै कूर्मस्तस्मादाहुः सर्वाः प्रजाः काश्यप्य इति - ७.५.१.५

स यः कूर्मोऽसौ स आदित्योऽमुमेवैतदादित्यमुपदधाति तं पुरस्तात्प्रत्यञ्चमुपदधात्यमुं तदादित्यं पुरस्तात्प्रत्यञ्चं दधाति तस्मादसावादित्यः पुरस्तात्प्रत्यङ्धीयते दक्षिणतोऽषाढायै वृषा वै कूर्मो योषाऽषाढा दक्षिणतो वै वृषा योषामुपशेतेऽरत्निमात्रेऽरत्निमात्राद्धि वृषा योषामुपशेते सैषा सर्वासामिष्टकानां महिषी यदषाढैतस्यै दक्षिणतः सन्त्सर्वासामिष्टकानां दक्षिणतो भवति - ७.५.१.६

यद्वेव कूर्ममुपदधाति । प्राणो वै कूर्मः प्राणो हीमाः सर्वाः प्रजाः करोति प्राणमेवैतदुपदधाति तं पुरस्तात्प्रत्यञ्चमुपदधाति पुरस्तात्तत्प्रत्यञ्चम्प्राणं दधाति तस्मात्पुरस्तात्प्रत्यङ्प्राणो धीयते पुरुषमभ्यावृत्तं यजमाने तत्प्राणं दधाति दक्षिणतोऽषाढायै प्राणो वै कूर्मो वागषाढा प्राणो वै वाचो वृषा प्राणो मिथुनम् - ७.५.१.७

[१]अपां गम्भन्त्सीदेति । एतद्धापां गम्भिष्ठं यत्रैष एतत्तपति मा त्वा सूर्योऽभिताप्सीन्माग्निर्वैश्वानर इति मैव त्वा सूर्यो हिंसीन्मो अग्निर्वैश्वानर इत्येतदच्छिन्नपत्राः प्रजा अनुवीक्षस्वेतीमा वै सर्वाः प्रजा या इमा इष्टकास्ता अरिष्टा अनार्ता अनुवीक्षस्वेत्येतदनु त्वा दिव्या वृष्टिः सचतामिति यथैवैनं दिव्या वृष्टिरनुसचेतैवमेतदाह - ७.५.१.८

अथैनमेजयति । [२]त्रीन्त्समुद्रान्त्समसृपत्स्वर्गानितीमे वै त्रयः समुद्राः स्वर्गा लोकास्तानेष कूर्मो भूत्वानुसंससर्पापां पतिर्वृषभ इष्टकानामित्यपां ह्येष पतिर्वृषभ इष्टकानां पुरीषं वसानः सुकृतस्य लोक इति पशवो वै पुरीषम्पशून्वसानः सुकृतस्य लोक इत्येतत्तत्र गच्छ यत्र पूर्वे परेता इति तत्र गच्छ यत्रैतेन पूर्वे कर्मणेयुरित्येतत्- ७.५.१.९

[३]मही द्यौः पृथिवी च न इति । महती द्यौः पृथिवी च न इत्येतदिमं यज्ञम्मिमिक्षतामितीमं यज्ञमवतामित्येतत्पिपृतां नो भरीमभिरिति बिभृतां नो भरीमभिरित्येतद्द्यावापृथिव्ययोत्तमयोपदधाति द्यावापृथिव्यो हि कूर्मः - ७.५.१.१०

त्रिभिरुपदधाति । त्रय इमे लोका अथो त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदुपदधाति त्रिभिरभ्यनक्ति तत्षट्तस्योक्तो बन्धुरवका अधस्ताद्भवन्त्यवका उपरिष्टादापो वा अवका अपामेवैनमेतन्मध्यतो दधाति सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः - ७.५.१.११

अथोलूखलमुसले उपदधाति । विष्णुरकामयतान्नादः स्यामिति स एते इष्टके अपश्यदुलूखलमुसले ते उपाधत्त ते उपधायान्नादोऽभवत्तथैवैतद्यजमानो यदुलूखलमुसले उपदधाति येन रूपेण यत्कर्म कृत्वा विष्णुरन्नादोऽभवत्तेन रूपेण तत्कर्म कृत्वान्नादोऽसानीति तदेतत्सर्वमन्नं यदुलूखलमुसले उलूखलमुसलाभ्यां ह्येवान्नं क्रियत उलूखलमुसलाभ्यामद्यते- ७.५.१.१२

ते रेतःसिचोर्वेलयोपदधाति । पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेतदन्नं दधात्युत्तरे उत्तरमेवास्मादेतदन्नं दधात्यरत्निमात्रेऽरत्निमात्राद्ध्यन्नमद्यते - ७.५.१.१३

प्रादेशमात्रे भवतः । प्रादेशमात्रो वै गर्भो विष्णुरन्नमेतदात्मसम्मितमेवास्मिन्नेतदन्नं दधाति यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति - ७.५.१.१४

औदुम्बरे भवतः । ऊर्ग्वै रस उदुम्बर ऊर्जमेवास्मिन्नेतद्रसं दधात्यथो सर्व एते वनस्पतयो यदुदुम्बर एते उपदधत्सर्वान्वनस्पतीनुपदधाति रेतःसिचोर्वेलयेमे वै रेतःसिचावनयोस्तद्वनस्पतीन्दधाति तस्मादनयोर्वनस्पतयश्चतुःस्रक्ति भवति चतस्रो वै दिशः सर्वासु तद्दिक्षु वनस्पतीन्दधाति तस्मात्सर्वासु दिक्षु वनस्पतयो मध्ये संगृहीतम्भवत्युलूखलरूपतायै - ७.५.१.१५

यद्वेवोलूखलमुसले उपदधाति । प्रजापतेर्विस्रस्तात्प्राणो मध्यत उदचिक्रमिषत्तमन्नेनागृह्णात्तस्मात्प्राणोऽन्नेन गृहीतो यो ह्येवान्नमत्ति स प्राणिति - ७.५.१.१६

प्राणे गृहीतेऽस्मादन्नमुदचिक्रमिषत्तत्प्राणेनागृह्णात्तस्मात्प्राणेनान्नं गृहीतं यो ह्येव प्राणिति सोऽन्नमत्ति - ७.५.१.१७

एतयोरुभयोर्गृहीतयोः।अस्मादूर्गुदचिक्रमिषत्तामेताभ्यामुभाभ्यामगृह्णात्तस्मादेताभ्यामुभाभ्यामूर्ग्गृहीता यो ह्येवान्नमत्ति स प्राणिति तमूर्जयति - ७.५.१.१८

ऊर्जि गृहीतायाम् । अस्मादेते उभे उदचिक्रमिषतां ते ऊर्जाऽगृह्णात्तस्मादेते उभे ऊर्जा यं ह्येवोर्जयति स प्राणिति सोऽन्नमत्ति - ७.५.१.१९

तान्येतान्यन्योऽन्येन गृहीतानि । तान्यन्योऽन्येन गृहीत्वात्मन्प्रापादयत तदेतदन्नं प्रपद्यमानं सर्वे देवा अनुप्रापद्यन्तान्नजीवनं हीदं सर्वम् - ७.५.१.२०

तदेष श्लोकोऽभ्युक्तः । तद्वै स प्राणोऽभवदिति तद्धि स प्राणोऽभवन्महान्भूत्वा प्रजापतिरिति महान्हि स तदभवद्यदेनमेते देवाः प्रापद्यन्त भुजोभुजिष्या वित्त्वेति प्राणा वै भुजोऽन्नं भुजिष्या एतत्सर्वं वित्त्वेत्येतद्यत्प्राणान्प्राणयत्पुरीत्यात्मा वै पूर्यद्वै प्राणान्प्राणयत्तस्मात्प्राणा देवा अथ यत्प्रजापतिः प्राणयत्तस्मादु प्रजापतिः प्राणो यो वै स प्राण एषा सा गायत्र्यथ यत्तदन्नमेष स विष्णुर्देवताथ या सोऽर्गेष स उदुम्बरः - ७.५.१.२१

सोऽब्रवीत् । अयं वाव मा सर्वस्मात्पाप्मन उदभार्षीदिति यदब्रवीदुदभार्षीन्मेति तस्मादुदुम्भर उदुम्भरो ह वै तमुदुम्बर इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवा उरु मे करदिति तस्मादुरुकरमुरुकरं ह वै तदुलूखलमित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवाः सैषा सर्वेषां प्राणानां योनिर्यदुलूखलं शिरो वै प्राणानां योनिः - ७.५.१.२२

तत्प्रादेशमात्रं भवति । प्रादेशमात्रमिव हि शिरश्चतुःस्रक्ति भवति चतुःस्रक्तीव हि शिरो मध्ये संगृहीतं भवति मध्ये संगृहीतमिव हि शिरः - ७.५.१.२३

तं यत्र देवाः समस्कुर्वन् । तदस्मिन्नेतत्सर्वं मध्यतोऽदधुः प्राणमन्नमूर्जं तथैवास्मिन्नयमेतद्दधाति रेतःसिचोर्वेलया पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेतत्सर्वं दधाति - ७.५.१.२४

[४]विष्णोः कर्माणि पश्यतेति । वीर्यं वै कर्म विष्णोर्वीर्याणि पश्यतेत्येतद्यतो व्रतानि पस्पश इत्यन्नं वै व्रतं यतोऽन्नं स्पाशयांचक्र इत्येतदिन्द्रस्य युज्यः सखेतीन्द्रस्य ह्येष युज्यः सखा द्विदेवत्ययोपदधाति द्वे ह्युलूखलमुसले सकृत्सादयति समानं तत्करोति समानं ह्येतदन्नमेव सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः - ७.५.१.२५

अथोखामुपदधाति योनिर्वा उखा योनिमेवैतदुपदधाति तामुलूखल उपदधात्यन्तरिक्षं वा उलूखलं यद्वै किं चास्या ऊर्ध्वमन्तरिक्षमेव तन्मध्यं वा अन्तरिक्षं मध्यतस्तद्योनिं दधाति तस्मात्सर्वेषां भूतानाम्मध्यतो योनिरपि वनस्पतीनाम् - ७.५.१.२६

यद्वेवोखामुपदधाति । यो वै स प्रजापतिर्व्यस्रंसतैषा सोखेमे वै लोका उखेमे लोकाः प्रजापतिस्तामुलूखल उपदधाति तदेनमेतस्मिन्त्सर्वस्मिन्प्रतिष्ठापयति प्राणेऽन्न ऊर्ज्यथो एतस्मादेवैनमेतत्सर्वस्मादनन्तर्हितं दधाति - ७.५.१.२७

अथोपशयां पिष्ट्वा । लोकभाजमुखां कृत्वा पुरस्तादुखाया उपनिवपत्येष हैतस्यै लोकस्तथो हास्यैषानन्तरिता भवति - ७.५.१.२८

तदाहुः । कथमस्यैषा पक्वा शृतोपहिता भवतीति यदेव यजुष्कृता तेनाथो यद्वै किं चैतमग्निं वैश्वानरमुपनिगच्छति तत एव तत्पक्वं शृतमुपहितम्भवति - ७.५.१.२९

ध्रुवासि धरुणेति । तस्योक्तो बन्धुः। [५]इतो जज्ञे प्रथममेभ्यो योनिभ्यो अधि जातवेदा इत्येतेभ्यो हि योनिभ्यः प्रथमं जातवेदा अजायत स गायत्र्या त्रिष्टुभानुष्टुभा च देवेभ्यो हव्यं वहतु प्रजानन्नित्येतैर्वाऽएष छन्दोभिर्देवेभ्यो हव्यं वहति प्रजानन् - ७.५.१.३०

[६]इषे राये रमस्व । सहसे द्युम्न ऊर्जे अपत्यायेत्येतस्मै सर्वस्मै रमस्वेत्येतत्सम्राडसि स्वराडसीति सम्राट्च ह्येष स्वराट्च सारस्वतौ त्वोत्सौ प्रापवतामिति मनो वै सरस्वान्वाक्सरस्वत्येतौ सारस्वता उत्सौ तौ त्वा प्रावतामित्येतद्द्वाभ्यामुपदधाति तस्योक्तो बन्धुरथो द्वयं ह्येवैतद्रूपम्मृच्चाऽपश्च सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः - ७.५.१.३१

अथैनामभिजुहोति । एतद्वा अस्यामेतत्पूर्वं रेतः सिक्तं भवति सिकतास्तदेतदभिकरोति तस्माद्योनौ रेतः सिक्तमभिक्रियत आज्येन जुहोति स्रुवेण स्वाहाकारेण द्वाभ्यामाग्नेयीभ्यां गायत्रीभ्यां तस्योक्तो बन्धुः - ७.५.१.३२

[७]अग्ने युक्ष्वा हि ये तव । युक्ष्वा हि देवहूतमानिति युक्तवतीभ्यामिदमेवैतद्योनौ रेतो युनक्ति तस्माद्योनौ रेतो युक्तं न निष्पद्यते - ७.५.१.३३

स यदि संवत्सरभृतः स्यात् । अथाभिजुहुयात्सर्वं वै तद्यत्संवत्सरभृतः सर्वं तद्यदभिजुहोत्यथ यद्यसंवत्सरभृतः स्यादुपैव तिष्ठेतासर्वं वै तद्यदसंवत्सरभृतोऽसर्वं तद्यदुपतिष्ठतेऽभि त्वेव जुहुयात्- ७.५.१.३४

पशुरेष यदग्निः । सोऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्यावाङ्प्राणः स्वयमातृण्णा श्रोणी द्वियजुः पृष्टयो रेतःसिचौ कीकसा विश्वज्योतिः ककुदमृतव्ये ग्रीवा अषाढा शिरः कूर्मो ये कूर्मे प्राणा ये शीर्षन्प्राणास्ते ते - ७.५.१.३५

तं वा एतम् । इत ऊर्ध्वं प्राञ्चं चिनोत्यसौ वा आदित्य एषोऽग्निरमुं तदादित्यमित ऊर्ध्वं प्राञ्चं दधाति तस्मादसावादित्य इत ऊर्ध्वः प्राङ्धीयते - ७.५.१.३६

अथैनं प्रसलव्यावर्तयति । अमुं तदादित्यं प्रसलव्यावर्तयति तस्मादसावादित्य इमांल्लोकान्प्रसलव्यनुपर्यैति - ७.५.१.३७

उदरमुखा । योनिरुलूखलमुत्तरोखा भवत्यधरमुलूखलमुत्तरं ह्युदरमधरा योनिः शिश्नं मुसलं तद्वृत्तमिव भवति वृत्तमिव हि शिश्नं तद्दक्षिणत उपदधाति दक्षिणतो वै वृषा योषामुपशेते यदु पशोः संस्कृतस्यान्नं तद्दूर्वेष्टका तस्य वा एतस्योत्तरोऽर्ध उदाहिततरो भवति पशुरेष यदग्निस्तस्मात्पशोः सुहितस्योत्तरः कुक्षिरुन्नततरो भवति - ७.५.१.३८

  1. वा.सं. १३.३०
  2. वा.सं. १३.३१
  3. वासं १३.३२
  4. वा.सं. १३.३३
  5. वा.सं. १३.३४
  6. वा.सं. १३.३५
  7. वा.सं. १३.३६-३७