सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ७/अध्यायः ५/द्वितीयं ब्राह्मणम्

विकिस्रोतः तः

७.५.२ पञ्चपशुशीर्षेष्टकोपधानम्, पशूपरिहोमः, पञ्चदशापस्येष्टकोपधानं पञ्चछन्दस्येष्टकोपधानं च।

पशुशीर्षाण्युपदधाति । पशवो वै पशुशीर्षाणि पशूनेवैतदुपदधाति तान्युखायामुपदधातीमे वै लोका उखा पशवः पशुशीर्षाण्येषु तल्लोकेषु पशून्दधाति तस्मादिम एषु लोकेषु पशवः - ७.५.२.१

यद्वेवोखायाम् । योनिर्वा उखा पशवः पशुशीर्षाणि योनौ तत्पशून्प्रतिष्ठापयति तस्मादद्यमानाः पच्यमानाः पशवो न क्षीयन्ते योनौ ह्येनान्प्रतिष्ठापयति - ७.५.२.२

यद्वेव पशुशीर्षाण्युपदधाति । या वै ताः श्रिय एतानि तानि पशुशीर्षाण्यथ यानि तानि कुसिन्धान्येतास्ताः पञ्च चितयस्तद्यास्ताः पञ्च चितय इमे ते लोकास्तद्ये त इमे लोका एषा सोखा तद्यदुखायां पशुशीर्षाण्युपदधात्येतैरेव तच्छीर्षभिरेतानि कुसिन्धानि संदधाति - ७.५.२.३

तान्पुरस्तात्प्रतीच उपदधाति । एतद्वै यत्रैतान्प्रजापतिः पशूनालिप्सत त आलिप्स्यमाना उदचिक्रमिषंस्तान्प्राणेषु समगृह्णात्तान्प्राणेषु संगृह्य पुरस्तात्प्रतीच आत्मन्नधत्त - ७.५.२.४

तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं न्वस्मात्ते पशवो नोच्चिक्रमिषन्ति यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो प्राणेष्वेवैनानेतत्संगृह्य पुरस्तात्प्रतीच आत्मन्धत्ते - ७.५.२.५

यद्वेव पशुशीर्षाण्युपदधाति । प्रजापतिर्वा इदमग्र आसीदेक एव सोऽकामयतान्नं सृजेय प्रजायेयेति स प्राणेभ्य एवाधि पशून्निरमिमीत मनसः पुरुषं चक्षुषोऽश्वं प्राणाद्गां श्रोत्रादविं वाचोऽजं तद्यदेनान्प्राणेभ्योऽधि निरमिमीत तस्मादाहुः प्राणाः पशव इति मनो वै प्राणानां प्रथमं तद्यत्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः प्रथमः पशूनां वीर्यवत्तम इति मनो वै सर्वे प्राणा मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तद्यन्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः सर्वे पशव इति पुरुषस्य ह्येवैते सर्वे भवन्ति - ७.५.२.६

तदेतदन्नं सृष्ट्वा । पुरस्तात्प्रत्यगात्मन्नधत्त तस्माद्यः कश्चान्नं सृजते पुरस्तादेवैनत्प्रत्यगात्मन्धत्ते तद्वा उखायामुदरं वा उखोदरे तदन्नं दधाति - ७.५.२.७

अथैषु हिरण्यशकलान्प्रत्यस्यति । प्राणा वै हिरण्यमथ वा एतेभ्यः पशुभ्यः संज्ञप्यमानेभ्य एव प्राणा उत्क्रामन्ति तद्यद्धिरण्यशकलान्प्रत्यस्यति प्राणानेवैष्वेतद्दधाति - ७.५.२.८

सप्त प्रत्यस्यति । सप्त वै शीर्षन्प्राणास्तानस्मिन्नेतद्दधात्यथ यदि पञ्च पशवः स्युः पञ्चैव कृत्वः सप्त सप्त प्रत्यस्येत्पञ्च वा एतान्पशूनुपदधाति सप्त सप्त वा एकैकस्मिन्पशौ प्राणास्तदेषु सर्वेषु प्राणान्दधाति - ७.५.२.९

तद्धैकेऽपि । यद्येकः पशुर्भवति पञ्चैव कृत्वः सप्त सप्त प्रत्यस्यन्ति पञ्च वा एतान्पशूनुपदधाति सप्त सप्त वा एकैकस्मिन्पशौ प्राणास्तदेषु सर्वेषु प्राणान्दध्म इति न तथा कुर्यादेतस्मिन्वै पशौ सर्वेषां पशूनां रूपं तद्यदेतस्मिन्प्रत्यस्यति तदेवैषु सर्वेषु प्राणान्दधाति - ७.५.२.१०

मुखे प्रथमं प्रत्यस्यति । सम्यक्स्रवन्ति सरितो न धेना इत्यन्नं वै धेनास्तदिदं सम्यङ्मुखमभिसंस्रवत्यन्तर्हृदा मनसा पूयमाना इत्यन्तर्वै हृदयेन मनसा सताऽन्नं पूतं य ऋजुस्तस्य घृतस्य धारा अभिचाकशीमीति या एवैतस्मिन्नग्नावाहुतीर्होष्यन्भवति ता एतदाह हिरण्ययो वेतसो मध्ये अग्नेरिति य एवैष हिरण्मयः पुरुषस्तमेतदाह - ७.५.२.११

ऋचे त्वेतीह । प्राणो वा ऋक्प्राणेन ह्यर्चति रुचे त्वेतीह प्राणो वै रुक्प्राणेन हि रोचते ऽथो प्राणाय हीदं सर्वं रोचते भासे त्वेतीह ज्योतिषे त्वेतीह भास्वती हीमे ज्योतिष्मती चक्षुषी अभूदिदं विश्वस्य भुवनस्य वाजिनमग्नेर्वैश्वानरस्य चेतीहाग्निर्ज्योतिषा ज्योतिष्मान्रुक्मो वर्चसा वर्चस्वानितीह विश्वावतीभ्यां विश्वं हि श्रोत्रम् - ७.५.२.१२

अथ पुरुषशीर्षमुद्गृह्णाति । महयत्येवैनदेतत्सहस्रदा असि सहस्राय त्वेति सर्वं वै सहस्रं सर्वस्य दातासि सर्वस्मै त्वेत्येतत् - ७.५.२.१३

अथैनानुपदधाति । पुरुषं प्रथमं पुरुषं तद्वीर्येणाप्त्वा दधाति मध्ये पुरुषमभित इतरान्पशून्पुरुषं तत्पशूनां मध्यतोऽत्तारं दधाति तस्मात्पुरुष एव पशूनां मध्यतोऽत्ता - ७.५.२.१४

अश्वं चाविं चोत्तरत । एतस्यां तद्दिश्येतौ पशू दधाति तस्मादेतस्यां दिश्येतौ पशू भूयिष्ठौ - ७.५.२.१५

गां चाजं च दक्षिणत । एतस्यां तद्दिश्येतौ पशू दधाति तस्मादेतस्यां दिश्येतौ पशू भूयिष्ठौ - ७.५.२.१६

पयसि पुरुषमुपदधाति । पशवो वै पयो यजमानं तत्पशुषु प्रतिष्ठापयत्यादित्यं गर्भं पयसा समङ्ग्धीत्यादित्यो वा एष गर्भो यत्पुरुषस्तं पयसा समङ्ग्धीत्येतत्सहस्रस्य प्रतिमां विश्वरूपमिति पुरुषो वै सहस्रस्य प्रतिमा पुरुषस्य ह्येव सहस्रं भवति परिवृङ्ग्धि हरसा माऽभिमंस्था इति पर्येनं वृङ्ग्ध्यर्चिषा मैनं हिंसीरित्येतच्छतायुषं कृणुहि चीयमान इति पुरुषं तत्पशूनां शतायुं करोति तस्मात्पुरुष एव पशूनां शतायुः - ७.५.२.१७

अथोत्तरतोऽश्वम् । वातस्य जूतिमिति वातस्य वा एष जूतिर्यदश्वो वरुणस्य नाभिमिति वारुणो ह्यश्वोऽश्वं जज्ञानं सरिरस्य मध्य इत्यापो वै सरिरमप्सुजा उ वा अश्वः शिशुं नदीनां हरिमद्रिबुध्नमिति गिरिर्वा अद्रिर्गिरिबुध्ना उ वा आपोऽग्ने मा हिंसीः परमे व्योमन्नितीमे वै लोकाः परमं व्योमैषु लोकेष्वेनं मा हिंसीरित्येतत् - ७.५.२.१८

अथ दक्षिणतो गाम् । अजस्रमिन्दुमरुषमिति सोमो वा इन्दुः स हैष सोमोऽजस्रो यद्गौर्भुरण्युमिति भर्तारमित्येतदग्निमीडे पूर्वचित्तिं नमोभिरित्याग्नेयो वै गौः पूर्वचित्तिमिति प्राञ्चं ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्ति स पर्वभिर्ऋतुशः कल्पमान इति यद्वा एष चीयते तदेष पर्वभिर्ऋतुशः कल्पते गां मा हिंसीरदितिं विराजमिति विराड्वै गौरन्नं वै विराडन्नमु गौः - ७.५.२.१९

अथोत्तरतोऽविम् । वरूत्रीं त्वष्टुर्वरुणस्य नाभिमिति वारुणी च हि त्वाष्ट्री चाविरविं जज्ञानां रजसः परस्मादिति श्रोत्रं वै परं रजो दिशो वै श्रोत्रं परं रजो महीं साहस्रीमसुरस्य मायामिति महतीं साहस्रीमसुरस्य मायामित्येतदग्ने मा हिंसीः परमे व्योमन्नितीमे वै लोकाः परमं व्योमैषु लोकेष्वेनं मा हिंसीरित्येतत् - ७.५.२.२०

अथ दक्षिणतोऽजम् । यो अग्निरग्नेरध्यजायतेत्यग्निर्वा एषोऽग्नेरध्यजायत शोकात्पृथिव्या उत वा दिवस्परीति यद्वै प्रजापतेः शोकादजायत तद्दिवश्च पृथिव्यै च शोकादजायत येन प्रजा विश्वकर्मा जजानेति वाग्वा अजो वाचो वै प्रजा विश्वकर्मा जजान तमग्ने हेडः परि ते वृणक्त्विति यथैव यजुस्तथा बन्धुः - ७.५.२.२१

त एते पशवः । तान्नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना ह्येते पशवः - ७.५.२.२२

अथ पुरुषशीर्षमभिजुहोति । आहुतिर्वै यज्ञः पुरुषं तत्पशूनां यज्ञियं करोति तस्मात्पुरुष एव पशूनां यजते - ७.५.२.२३

यद्वेवैनदभिजुहोति । शीर्षंस्तद्वीर्यं दधात्याज्येन जुहोति वज्रो वा आज्यं वीर्यं वै वज्रो वीर्यमेवास्मिन्नेतद्दधाति स्वाहाकारेण वृषा वै स्वाहाकारो वीर्यं वै वृषा वीर्यमेवास्मिन्नेतद्दधाति त्रिष्टुभा वज्रो वै त्रिष्टुब्वीर्यं वै वज्रो वीर्यं त्रिष्टुब्वीर्येणैवास्मिन्नेतद्वीर्यं दधाति - ७.५.२.२४

स वा अर्धर्चमनुद्रुत्य स्वाहाकरोति । अस्थि वा ऋगिदं तच्छीर्षकपालं विहाप्य यदिदमन्तरतः शीर्ष्णो वीर्यं तदस्मिन्दधाति - ७.५.२.२५

अथोत्तरमर्धर्चमनुद्रुत्य स्वाहाकरोति । इदं तच्छीर्षकपालं संधाय यदिदमुपरिष्टाच्छीर्ष्णो वीर्यं तदस्मिन्दधाति - ७.५.२.२६

चित्रं देवानामुदगादनीकमिति । असौ वा आदित्य एष पुरुषस्तदेतच्चित्रं देवानामुदेत्यनीकं चक्षुर्मित्रस्य वरुणस्याग्नेरित्युभयेषां हैतद्देवमनुष्याणां चक्षुराप्रा द्यावापृथिवी अन्तरिक्षमित्युद्यन्वा एष इमांल्लोकानापूरयति सूर्य आत्मा जगतस्तस्थुषश्चेत्येष ह्यस्य सर्वस्यात्मा यच्च जगद्यच्च तिष्ठति - ७.५.२.२७

अथोत्सर्गैरुपतिष्ठत । एतद्वै यत्रैतान्प्रजापतिः पशूनालिप्सत त आलिप्स्यमाना अशोचंस्तेषामेतैरुत्सर्गैः शुचं पाप्मानमपाहंस्तथैवैषामयमेतदेतैरुत्सर्गैः शुचं पाप्मानमपहन्ति - ७.५.२.२८

तद्धैके । यंयमेव पशुमुपदधति । तस्यतस्य शुचमुत्सृजन्ति नेच्छुचं पाप्मानमभ्युपदधामहा इति ते ह ते शुचं पाप्मानमभ्युपदधति यां हि पूर्वस्य शुचमुत्सृजन्ति तामुत्तरेण सहोपदधति - ७.५.२.२९

विपरिक्राममु हैक उपतिष्ठन्ते । ऊर्ध्वां शुचमुत्सृजाम इति ते ह ते शुचं पाप्मानमनूद्यन्त्यूर्ध्वो ह्येतेन कर्मणैत्यूर्ध्वामु शुचमुत्सृजन्ति - ७.५.२.३०

बाह्येनैवाग्निमुत्सृजेत् । इमे वै लोका एषोऽग्निरेभ्यस्तल्लोकेभ्यो बहिर्धा शुचं दधाति बहिर्वेदीयं वै वेदिरस्यै तद्बहिर्धा शुचं दधात्युदङ् तिष्ठन्नेतस्यां ह दिश्येते पशवस्तद्यत्रैते पशवस्तदेवैष्वेतच्छुचं दधाति - ७.५.२.३१

पुरुषस्य प्रथममुत्सृजति । तं हि प्रथममुपदधातीमं मा हिंसीर्द्विपादं पशुमिति द्विपाद्वा एष पशुर्यत्पुरुषस्तं मा हिंसीरित्येतत्सहस्राक्षो मेधाय चीयमान इति हिरण्यशकलैर्वा एष सहस्राक्षो मेधायेत्यन्नायेत्येतन्मयुं पशुं मेधमग्ने जुषस्वेति किम्पुरुषो वै मयुः किम्पुरुषमग्ने जुषस्वेत्येतत्तेन चिन्वानस्तन्वो निषीदेत्यात्मा वै तनूस्तेन चिन्वान आत्मानं संस्कुरुष्वेत्येतन्मयुं ते शुगृच्छतु यं द्विष्मस्तं ते शुगृच्छत्विति तन्मयौ च शुचं दधाति यं च द्वेष्टि तस्मिंश्च - ७.५.२.३२

अथाश्वस्य । इमं मा हिंसीरेकशफं पशुमित्येकशफो वा एष पशुर्यदश्वस्तं मा हिंसीरित्येतत्कनिक्रदं वाजिनं वाजिनेष्विति कनिक्रदो वा एष वाज्यु वाजिनेषु गौरमारण्यमनु ते दिशामीति तदस्मै गौरमारण्यमनुदिशति तेन चिन्वानस्तन्वो निषीदेति तेन चिन्वान आत्मानं संस्कुरुष्वेत्येतद्गौरं ते शुगृच्छतु यं द्विषमस्तं ते शुगृच्छत्विति तद्गौरे च शुचं दधाति यं च द्वेष्टि तस्मिंश्च - ७.५.२.३३

अथ गोः । इमं साहस्रं शतधारमुत्समिति साहस्रो वा एष शतधार उत्सो यद्गौर्व्यच्यमानं सरिरस्य मध्य इतीमे वै लोकाः सरिरमुपजीव्यमानमेषु लोकेष्वित्येतद्घृतं दुहानामदितिं जनायेति घृतं वा एषाऽदितिर्जनाय दुहेऽग्ने मा हिंसीः परमे व्योमन्नितीमे वै लोकाः परमं व्योमैषु लोकेष्वेनं मा हिंसीरित्येतद्गवयमारण्यमनु ते दिशामीति तदस्मै गवयमारण्यमनुदिशति तेन चिन्वानस्तन्वो निषीदेति तेन चिन्वान आत्मानं संस्कुरुष्वेत्येतद्गवयं ते शुगृच्छतु यं द्विष्मस्तं ते शुगृच्छत्विति तद्गवये च शुचं दधाति यं च द्वेष्टि तस्मिंश्च - ७.५.२.३४

अथावेः । इममूर्णायुमित्यूर्णाबलमित्येतद्वरुणस्य नाभिमिति वारुणो ह्यविस्त्वचम् पशूनां द्विपदां चतुष्पदामित्युभयेषां हैष पशूनां त्वग्द्विपदां च चतुष्पदां च त्वष्टुः प्रजानां प्रथमं जनित्रमित्येतद्ध त्वष्टा प्रथमं रूपं विचकाराग्ने मा हिंसीः परमे व्योमन्नितीमे वै लोकाः परमं व्योमैषु लोकेष्वेनं मा हिंसीरित्येतदुष्ट्रमारण्यमनु ते दिशामीति तदस्मा उष्ट्रमारण्यमनुदिशति तेन चिन्वानस्तन्वो निषीदेति तेन चिन्वान आत्मानं संस्कुरुष्वेत्येतदुष्ट्रं ते शुगृच्छतु यं द्विष्मस्तं ते शुगृच्छत्विति तदुष्ट्रे च शुचं दधाति यं च द्वेष्टि तस्मिंश्च - ७.५.२.३५

अथाजस्य । अजो ह्यग्नेरजनिष्ट शोकादिति यद्वै प्रजापतेः शोकादजायत तदग्नेः शोकादजायत सो अपश्यज्जनितारमग्र इति प्रजापतिर्वै जनिता सोऽपश्यत्प्रजापतिमग्र इत्येतत्तेन देवा देवतामग्र आयन्निति वाग्वा अजो वाचो वै देवा देवतामग्रमायंस्तेन रोहमायन्नुप मेध्यास इति स्वर्गो वै लोको रोहस्तेन स्वर्गं लोकमायुन्नुप मेध्यास इत्येतच्छरभमारण्यमनु ते दिशामीति तदस्मै शरभमारण्यमनुदिशति तेन चिन्वानस्तन्वो निषीदेति तेन चिन्वान आत्मानं संस्कुरुष्वेत्येतच्छरभं ते शुगृच्छतु यं द्विष्मस्तं ते शुगृच्छत्विति तच्छरभे च शुचं दधाति यं च द्वेष्टि तस्मिंश्च - ७.५.२.३६

तदाहुः । यां वै तत्प्रजापतिरेतेषां पशूनां शुचं पाप्मानमपाहंस्त एते पञ्च पशवोऽभवंस्त एत उत्क्रान्तमेधा अमेध्या अयज्ञियास्तेषां ब्राह्मणो नाश्नीयात्तानेतस्यां दिशि दधाति तस्मादेतस्यां दिशि पर्जन्यो न वर्षुको यत्रैते भवन्ति - ७.५.२.३७

प्रत्येत्याग्निमुपतिष्ठते । एतद्वा एतदयथायथं करोति यदग्नौ सामिचितेबहिर्वेद्येति तस्मा एवैतन्निह्नुतेऽहिंसाया आग्नेय्याग्नय एवैतन्निह्नुते गायत्र्या गायत्र्योऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मा एतन्निह्नुतेऽनिरुक्तया सर्वं वा अनिरुक्तं सर्वेणैवास्मा एतन्निह्नुते यविष्ठवत्यैतद्धास्य प्रियं धाम यद्यविष्ठ इति यद्वै जात इदं सर्वमयुवत तस्माद्यविष्ठः - ७.५.२.३८

त्वं यविष्ठ दाशुष इति । यजमानो वै दाश्वान्नॄँ पाहीति मनुष्या वै नरः शृणुधी गिर इति शृणु न इमां स्तुतिमित्येतद्रक्षा तोकमुत त्मनेति प्रजा वै तोकं रक्ष प्रजां चात्मानं चेत्येतत् - ७.५.२.३९

आरुह्याग्निं जघनेन स्वयमातृण्णां परीत्यापस्या उपदधाति । आप एता यदपस्या अथ वा एतेभ्यः पशुभ्य आप उत्क्रान्ता भवन्ति तद्यदपस्या उपदधात्येष्वेवैतत्पशुष्वपो दधात्यनन्तर्हिताः पशुभ्य उपदधात्यनन्तर्हितास्तत्पशुभ्योऽपो दधाति पञ्चपञ्चोपदधाति पञ्च ह्येते पशवः सर्वत उपदधाति सर्वत एवैष्वेतदपो दधाति - ७.५.२.४०

तद्याः पञ्चदश पूर्वाः । ता अपस्या वज्रो वा आपो वज्रः पञ्चदशस्तस्माद्येनापो यन्त्यपैव तत्र पाप्मानं घ्नन्ति वज्रो हैव तस्यार्धस्य पाप्मानमपहन्ति तस्माद्वर्षत्यप्रावृतो व्रजेदयं मे वज्रः पाप्मानमपहनदिति - ७.५.२.४१

अथ याः पञ्चोत्तराः । ताश्छन्दस्याः पशवो वै छन्दांस्यन्नं पशवोऽन्नमु पशोर्मांसमथ वा एतेभ्यः पशुभ्यो मांसान्युत्क्रान्तानि भवन्ति तद्यच्छन्दस्या उपदधात्येष्वेवैतत्पशुषु मांसानि दधात्यनन्तर्हिताः पशुभ्य उपदधात्यनन्तर्हितानि तत्पशुभ्यो मांसानि दधात्यन्तरा अपस्या भवन्ति बाह्याश्छन्दस्या अन्तरा ह्यापो बाह्यानि मांसानि - ७.५.२.४२

तदाहुः । यदिमा आप एतानि मांसान्यथ क्व त्वक्क्व लोमेत्यन्नं वाव पशोस्त्वगन्नं लोम तद्यच्छन्दस्या उपदधाति सैव पशोस्त्वक्तल्लोमाथो यान्यमून्युखायामजलोमानि तानि लोमानि बाह्योखा भवत्यन्तराणि पशुशीर्षाणि बाह्यानि हि लोमान्यन्तर आत्मा यदीतरेण यदीतरेणेति ह स्माह शाण्डिल्यः सर्वानेव वयं कृत्स्नान्पशून्त्संस्कुर्म इति - ७.५.२.४३

यद्वेवापस्या उपदधाति । प्रजापतेर्विस्रस्तादापऽ आयंस्तास्वितास्वविशद्यदविशत्तस्माद्विंशतिस्ता अस्याङ्गुलिभ्योऽध्यस्रवन्नन्तो वा अङ्गुलयोऽन्तत एवास्मात्ता आप आयन् - ७.५.२.४४

स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ या अस्मात्ता आप आयन्नेतास्ता अपस्यास्तद्यदेता उपदधाति या एवास्मात्ता आप आयंस्ता अस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति - ७.५.२.४५

अपां त्वेमन्त्सादयामीति । वायुर्वा अपामेम यदा ह्येवैष इतश्चेतश्च वात्यथापो यन्ति वायौ तां सादयति - ७.५.२.४६

अपां त्वोद्मन्त्सादयामीति । ओषधयो वा अपामोद्म यत्र ह्याप उन्दन्त्यस्तिष्ठन्ति तदोषधयो जायन्त ओषधिषु तां सादयति - ७.५.२.४७

अपां त्वा भस्मन्त्सादयामीति । अभ्रं वा अपां भस्माभ्रे तां सादयति - ७.५.२.४८

अपां त्वा ज्योतिषि सादयामीति । विद्युद्वा अपां ज्योतिर्विद्युति तां सादयति - ७.५.२.४९

अपां त्वाऽयने सादयामीति । इयं वा अपामयनमस्यां ह्यापो यन्त्यस्यां तां सादयति । तद्या अस्यैतेभ्यो रूपेभ्य आप आयंस्ता अस्मिन्नेतत्प्रतिदधात्यथो एतान्येवास्मिन्नेतद्रूपाणि दधाति - ७.५.२.५०

अर्णवे त्वा सदने सादयामीति । प्राणो वा अर्णवः प्राणे तां सादयति - ७.५.२.५१

समुद्रे त्वा सदने सादयामीति । मनो वै समुद्रो मनसो वै समुद्राद्वाचाभ्र्या देवास्त्रयीं विद्यां निरखनंस्तदेष श्लोकोऽभ्युक्तो ये समुद्रान्निरखनन्देवास्तीक्ष्णाभिरभ्रिभिः। सुदेवो अद्य तद्विद्याद्यत्र निर्वपणं दधुरिति मनः समुद्रो वाक्तीक्ष्णाभ्रिस्त्रयी विद्या निर्वपणमेतदेष श्लोकोऽभ्युक्तो मनसि तां सादयति - ७.५.२.५२

सरिरे त्वा सदने सादयामीति । वाग्वै सरिरं वाचि तां सादयति - ७.५.२.५३

अपां त्वा क्षये सादयामीति । चक्षुर्वा अपां क्षयस्तत्र हि सर्वदैवापः क्षियन्ति चक्षुषि तां सादयति - ७.५.२.५४

अपां त्वा सधिषि सादयामीति । श्रोत्रं वा अपां सधिः श्रोत्रे तां सादयति तद्या अस्यैतेभ्यो रूपेभ्यो आप आयंस्ता अस्मिन्नेतत्प्रतिदधात्यथो एतान्येवास्मिन्नेतद्रूपाणि दधाति - ७.५.२.५५

अपां त्वा सदने सादयामीति । द्यौर्वा अपां सदनं दिवि ह्यापः सन्ना दिवि तां सादयति - ७.५.२.५६

अपां त्वा सधस्थे सादयामीति अन्तरिक्षं वा अपां सधस्थमन्तरिक्षे तां सादयति - ७.५.२.५७

अपां त्वा योनौ सादयामीति । समुद्रो वा अपां योनिः समुद्रे तां सादयति - ७.५.२.५८

अपां त्वा पुरीषे सादयामीति । सिकता वा अपां पुरीषं सिकतासु तां सादयति - ७.५.२.५९

अपां त्वा पाथसि सादयामीति । अन्नं वा अपां पाथोऽन्ने तां सादयति तद्या अस्यैतेभ्यो रूपेभ्य आप आयंस्ता अस्मिन्नेतत्प्रतिदधात्यथो एतान्येवास्मिन्नेतद्रूपाणि दधाति - ७.५.२.६०

गायत्रेण त्वा च्छन्दसा सादयामि । त्रैष्टुभेन त्वा च्छन्दसा सादयामि जागतेन त्वा च्छन्दसा सादयाम्यानुष्टुभेन त्वा च्छन्दसा सादयामि पाङ्क्तेन त्वा च्छन्दसा सादयामीति तद्या अस्यैतेभ्यश्छन्दोभ्य आप आयंस्ता अस्मिन्नेतत्प्रतिदधात्यथो एतान्येवास्मिन्नेतच्छन्दांसि दधाति - ७.५.२.६१

ता एता अङ्गुलयः । ताः । सर्वत उपदधाति सर्वतो हीमा अङ्गुलयोऽन्तेषूपदधात्यन्तेषु हीमा अङ्गुलयश्चतुर्धोपदधाति चतुर्धा हीमा अङ्गुलयः पञ्चपञ्चोपदधाति पञ्चपञ्च हीमा अङ्गुलयो नानोपदधाति नाना हीमा अङ्गुलयः सकृत्सकृत्सादयति समानं तत्करोति तस्मात्समानसम्बन्धनाः ७.५.२.६२


इति माध्यन्दिनीये शतपथब्राह्मणे हस्ति(घ) षट्नामकं सप्तमं काण्डं समाप्तम्।।


टिप्पणी

७.५.२.१२ ऋचे त्वेतीह ।

अथ दक्षिणनासाविवरे समन्त्रकं शकलनिधानं विधत्ते - ऋचे त्वेतीति। इह इति दक्षिणनासाविवरस्याभिनयेन निर्देशः। - सा.भा.